दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् । तद्वत्पश्चात्प्रवक्ष्यामि संक्षेपक्रमतः शृणु
आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता । यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पण्डितः
आविर्भूता यथा देवी वक्त्रतः कृष्णयोषितः । इयेष कृष्णं कामेन कामुकी कामरूपिणी
स च विज्ञाय तद्भावं सर्वज्ञः सर्वमातरम् । तामुवाच हितं सत्यं परिणामे सुखावहम्
श्रीकृष्ण उवाच भज नारायणं साध्वि मदंशं च चतुर्भुजम् । युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम्
कामज्ञं कामिनीनां च तासां च कामपूरकम् । कोटिकन्दर्पलावण्यं लीलालङ्कतमीश्वरम्
कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि । त्वत्तो बलवती राधा न भद्रं ते भविष्यति
यो यस्माद् बलवान्वापि ततोऽन्यं रक्षितुं क्षमः । कथं परान्साधयति यदि स्वयमनीश्वरः
सर्वेशः सर्वशास्ताहं राधां बाधितुमक्षमः । तेजसा मत्समा सा च रूपेण च गुणेन च
प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः । प्राणतोऽपि प्रियः पुत्रः केषां वास्ति च कश्चन
त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति । पतिं तमीश्वरं कृत्वा मोदस्व सुचिरं सुखम्
लोभमोहकामक्रोधमानहिंसाविवर्जिता । तेजसा त्वत्समा लक्ष्मी रूपेण च गुणेन च
तया सार्धं तव प्रीत्या शश्वत्कालः प्रयास्यति । गौरवं च हरिस्तुल्यं करिष्यति द्वयोरपि
प्रतिविश्वेषु तां पूजां महतीं गौरवान्विताम् । माघस्य शुक्लपञ्चम्यां विद्यारम्भे च सुन्दरि
मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः । वसवो योगिनः सिद्धा नागा गन्धर्वराक्षसाः
मद्वरेण करिष्यन्ति कल्पे कल्पे लयावधि । भक्तियुक्ताश्च दत्त्वा वै चोपचाराणि षोडश
कण्वशाखोक्तविधिना ध्यानेन स्तवनेन च । जितेन्द्रियाः संयताश्च घटे च पुस्तकेऽपि च
कृत्वा सुवर्णगुटिकां गन्धचन्दनचर्चिताम् । कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे
पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते । इत्युक्त्वा पूजयामास तां देवीं सर्वपूजिताम्
ततस्तत्पूजनं चकुर्ब्रह्मविष्णुशिवादयः । अनन्तश्चापि धर्मश्च मुनीन्द्राः सनकादयः
सर्वे देवाश्च मुनयो नृपाश्च मानवादयः । बभूव पूजिता नित्यं सर्वलोकैः सरस्वती
नारद उवाच पूजाविधानं कवचं ध्यानं चापि निरन्तरम् । पूजोपयुक्तं नैवेद्यं पुष्पं च चन्दनादिकम्
वद वेदविदां श्रेष्ठ श्रोतुं कौतूहलं मम । वर्तते हृदये शश्वत्किमिदं श्रुतिसुन्दरम्
श्रीनारायण उवाच शृणु नारद वक्ष्यामि कण्वशाखोक्तपद्धतिम् । जगन्मातुः सरस्वत्याः पूजाविधिसमन्विताम्
माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेऽपि च । पूर्वेऽह्नि समयं कृत्वा तत्राह्नि संयतः शुचिः
स्नात्वा नित्यक्रियाः कृत्वा घटं संस्थाप्य भक्तितः । स्वशाखोक्तविधानेन तान्त्रिकेणाथवा पुनः
गणेशं पूर्वमभ्यर्च्य ततोऽभीष्टां प्रपूजयेत् । ध्यानेन वक्ष्यमाणेन ध्यात्वा बाह्यघटे ध्रुवम्
ध्यात्वा पुनः षोडषोपचारेण पूजयेद् व्रती । पूजोपयुक्तं नैवेद्यं यच्च वेदनिरूपितम्
वक्ष्यामि सौम्य तत्किञ्चिद्यथाधीतं यथागमम् । नवनीतं दधि क्षीरं लाजांश्च तिललड्डुकम्
इक्षुमिक्षुरसं शुक्लवर्णं पञ्चगुडं मधु । स्वस्तिकं शर्करां शुक्लधान्यस्याक्षतमक्षतम्