यद्यद्ददाति नैवेद्यं तस्मै देवाय यो जनः । स च खादति तत्सर्वं लक्ष्मीनाथो विराट् तथा
तं च मन्त्रवरं दत्त्वा तमुवाच पुनर्विभुः । वरमन्यं किमिष्टं ते तन्मे ब्रूहि ददामि च
कृष्णस्य वचनं श्रुत्वा तमुवाच विराड् विभुः । कृष्णं तं बालकस्तावद्वचनं समयोचितम्
बालक उवाच वरो मे त्वत्पदाम्भोजे भक्तिर्भवतु निश्चला। सततं यावदायुर्मे क्षणं वा सुचिरं च वा
त्वद्भक्तियुक्तलोकेऽस्मिञ्जीवन्मुक्तश्च सन्ततम्। त्वद्भक्तिहीनो मूर्खश्च जीवन्नपि मृतो हि सः
किं तज्जपेन तपसा यज्ञेन पूजनेन च। व्रतेन चोपवासेन पुण्येन तीर्थसेवया
कृष्णभक्तिविहीनस्य मूर्खस्य जीवनं वृथा । येनात्मना जीवितश्च तमेव न हि मन्यते
यावदात्मा शरीरेऽस्ति तावत्स शक्तिसंयुतः । पश्चाद्यान्ति गते तस्मिन्स्वतन्त्राः सर्वशक्तयः
स च त्वं च महाभाग सर्वात्मा प्रकृतेः परः । स्वेच्छामयश्च सर्वाद्यो ब्रह्मज्योतिः सनातनः
इत्युक्त्वा बालकस्तत्र विरराम च नारद । उवाच कृष्णः प्रत्युक्तिं मधुरां श्रुतिसुन्दरीम्
"श्रीकृष्ण उवाच सुचिरं सुस्थिरं तिष्ठ यथाहं त्वं तथा भव । ब्रह्मणोऽसंख्यपाते च पातस्ते न भविष्यति
अंशेन प्रतिब्रह्माण्डे त्वं च क्षुद्रविराड् भव । त्वन्नाभिपद्माद् ब्रह्मा च विश्वस्रष्टा भविष्यति
ललाटे ब्रह्मणश्चैव रुद्राश्चैकादशैव ते । शिवांशेन भविष्यन्ति सृष्टिसंहरणाय वै
कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः। पाता विष्णुश्च विषयी रुद्रांशेन(क्षुद्रांशेन) भविष्यति
मद्भक्तियुक्तः सततं भविष्यसि वरेण मे । ध्यानेन कमनीयं मां नित्यं द्रक्ष्यसि निश्चितम्
मातरं कमनीयां च मम वक्षःस्थलस्थिताम्। यामि लोकं तिष्ठ वत्सेत्युक्त्वा सोऽन्तरधीयत
गत्वा स्वलोकं ब्रह्माणं शङ्करं समुवाच ह। स्रष्टारं स्रष्टुमीशं च संहर्तुं चैव तत्क्षणम्
"श्रीभगवानुवाच सृष्टिं स्रष्टुं गच्छ वत्स नाभिपद्मोद्भवो भव । महाविराड् लोमकूपे क्षुद्रस्य च विधे शृणु
गच्छ वत्स महादेव ब्रह्मभालोद्भवो भव। अंशेन च महाभाग स्वयं च सुचिरं तप
इत्युक्त्वा जगतां नाथो विरराम विधेः सुत। जगाम ब्रह्मा तं नत्वा शिवश्च शिवदायकः
महाविराड् लोमकूपे ब्रह्माण्डगोलके जले । बभूव च विराट् क्षुद्रो विराडंशेन साम्प्रतम्
श्यामो युवा पीतवासाः शयानो जलतल्पके । ईषद्धास्यः प्रसन्नास्यो विश्वव्यापी जनार्दनः
तन्नाभिकमले ब्रह्मा बभूव कमलोद्भवः । सम्भूय पद्मदण्डे च बभ्राम युगलक्षकम्
नान्तं जगाम दण्डस्य पद्मनालस्य पद्मजः । नाभिजस्य च पद्मस्य चिन्तामाप पिता तव
स्वस्थानं पुनरागम्य दध्यौ कृष्णपदाम्बुजम् । ततो ददर्श क्षुद्रं तं ध्यानेन दिव्यचक्षुषा
शयानं जलतल्पे च ब्रह्माण्डगोलकाप्लुते । यल्लोमकूपे ब्रह्माण्डं तं च तत्परमीश्वरम्
श्रीकृष्णं चापि गोलोकं गोपगोपीसमन्वितम् । तं संस्तूय वरं प्राप ततः सृष्टिं चकार सः
बभूवुर्ब्रह्मणः पुत्रा मानसाः सनकादयः । ततो रुद्रकलाश्चापि शिवस्यैकादश स्मृताः
बभूव पाता विष्णुश्च क्षुद्रस्य वामपार्श्वतः। चतुर्भुजश्च भगवान् श्वेतद्वीपे स चावसत्
क्षुद्रस्य नाभिपद्मे च ब्रह्मा विश्वं ससर्ज ह। स्वर्गं मर्त्यं च पातालं त्रिलोकीं सचराचराम्