ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् श्रीनारायण उवाच अथ डिम्भो जले तिष्ठन्यावद्वै ब्रह्मणो वयः । ततः स काले सहसा द्विधाभूतो बभूव ह
तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः। क्षणं रोरूयमाणश्च स्तनान्धः पीडितः क्षुधा
पित्रा मात्रा परित्यक्तो जलमध्ये निराश्रयः। ब्रह्माण्डासंख्यनाथो यो ददर्शोर्ध्वमनाथवत्
स्थूलास्थूलतमः सोऽपि नाम्ना देवो महाविराट्। परमा्णुर्यथा सूक्ष्मात्परः स्थूलात्तथाप्यसौ
तेजसा षोडशांशोऽयं कृष्णस्य परमात्मनः। आधारः सर्वविश्वानां महाविष्णुश्च प्राकृतः
प्रत्येकं लोमकूपेषु विश्वानि निखिलानि च। अस्यापि तेषां संख्यां च कृष्णो वक्तुं नहि क्षमः
संख्या चेद्रजसामस्ति विश्वानां न कदाचन। ब्रह्मविष्णुशिवादीनां तथा संख्या न विद्यते
प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः। पातालाद् ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्तितम्
तत ऊर्ध्वं च वैकुण्ठो ब्रह्माण्डाद् बहिरेव सः। तत ऊर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनः
नित्यः सत्यस्वरूपश्च यथा कृष्णस्तथाप्ययम्। सप्तद्वीपमिता पृध्वी सप्तसागरसंयुता
ऊनपञ्चाशदुपद्वीपासंख्यशैलवनान्विता । ऊर्ध्वं सप्त स्वर्गलोका ब्रह्यलोकसमन्विताः
पातालानि च सप्ताधश्चैवं ब्रह्माण्डमेव च। ऊर्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परम्
ततः परश्च स्वर्लोको जनलोकस्तथा परः । ततः परस्तपोलोकः सत्यलोकस्ततः परः
ततः परं ब्रह्मलोकस्तप्तकाञ्चनसन्निभः । एवं सर्वं कृत्रिमं च बाह्याभ्यन्तरमेव च
तद्विनाशे विनाशश्च सर्वेषामेव नारद । जलबुद्बुदवत्सर्वं विश्वसंघमनित्यकम्
नित्यौ गोलोकवैकुण्ठौ प्रोक्तौ शश्वदकृत्रिमौ । प्रत्येकं लोमकूपेषु ब्रह्माण्डं परिनिश्चितम्
एषां संख्यां न जानाति कृष्णोऽन्यस्यापि का कथा । प्रत्येकं प्रतिब्रह्माण्डं ब्रह्मविष्णुशिवादयः
तिस्रः कोट्यः सुराणां च संख्या सर्वत्र पुत्रक। दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः
भुवि वर्णाश्च चत्वारोऽप्यधो नागाश्चराचराः । अथ कालेऽत्र स विराडूर्ध्वं दृष्ट्वा पुनः पुनः
डिम्भान्तरे च शून्यं च न द्वितीयं च किञ्चन । चिन्तामवाप क्षुद्युक्तो रुरोद च पुनः पुनः
ज्ञानं प्राप्य तदा दध्यौ कृष्णं परमपूरुषम्। ततो ददर्श तत्रैव ब्रह्मज्योतिः सनातनम्
नवीनजलदश्यामं द्विभुजं पीतवाससम् । सस्मितं मुरलीहस्तं भक्तानुग्रहकातरम्
जहास बालकस्तुष्टो दृष्ट्वा जनकमीश्वरम् । वरं तदा ददौ तस्मै वरेशः समयोचितम्
मत्समो ज्ञानयुक्तश्च क्षुत्पिपासादिवर्जितः । ब्रह्माण्डासंख्यनिलयो भव वत्स लयावधि
निष्कामो निर्भयश्चैव सर्वेषां वरदो भव । जरामृत्युरोगशोकपीडादिवर्जितो भव
इत्युक्त्वा तस्य कर्णे स महामन्त्रं षडक्षरम् । त्रिःकृत्वश्च प्रजजाप वेदाङ्गप्रवरं परम्
प्रणवादिचतुर्थ्यन्तं कृष्ण इत्यक्षरद्वयम् । वह्निजायान्तमिष्टं च सर्वविघ्नहरं परम्
मन्त्रं दत्त्वा तदाहारं कल्पयामास वै विभुः। श्रूयतां तद् ब्रह्मपुत्र निबोध कथयामि ते
प्रतिविश्वं यन्नैवेद्यं ददाति वैष्णवो जनः । तत्षोडशांशो विषयिणो विष्णोः पज्वदशास्य वै
निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य च । नैवेद्ये चैव कृष्णस्य न हि किञ्चित्प्रयोजनम्