कमण्डलुधरः श्रीमांस्तपस्वी ज्ञानिनां वरः । चतुर्मुखैस्तं तुष्टाव प्रज्वलन्ब्रह्मतेजसा
सा तदा सुन्दरी सृष्टा शतचन्द्रसमप्रभा । वह्निशुद्धांशुकाधाना रत्नभूषणभूषणा
रत्नसिंहासने रम्ये संस्तूय सर्वकारणम् । उवास स्वामिना सार्धं कृष्णस्य पुरतो मुदा
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः । वामार्धाङ्गो महादेवो दक्षिणे गोपिकापतिः
शुद्धस्फटिकसंकाशः शतकोटिरविप्रभः । त्रिशूलपट्टिशधरो व्याघ्रचर्माम्बरो हरः
तप्तकाञ्चनवर्णाभो जटाभारधरः परः । भस्मभूषितगात्रश्च सस्मितश्चन्द्रशेखरः
दिगम्बरो नीलकण्ठः सर्पभूषणभूषितः । बिभ्रद्दक्षिणहस्तेन रत्नमालां सुसंस्कृताम्
प्रजपन्पञ्चवक्त्रेण ब्रह्मज्योतिः सनातनम् । सत्यस्वरूपं श्रीकृष्णं परमात्मानमीश्वरम्
कारणं कारणानां च सर्वमङ्गलमङ्गलम् । जन्ममृत्युजराव्याधिशोकभीतिहरं परम्
संस्तूय मृत्योर्मृत्युं तं यतो मृत्युञ्जयाभिधः । रत्नसिंहासने रम्ये समुवास हरेः पुरः
ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् श्रीनारायण उवाच अथ डिम्भो जले तिष्ठन्यावद्वै ब्रह्मणो वयः । ततः स काले सहसा द्विधाभूतो बभूव ह
तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः। क्षणं रोरूयमाणश्च स्तनान्धः पीडितः क्षुधा
पित्रा मात्रा परित्यक्तो जलमध्ये निराश्रयः। ब्रह्माण्डासंख्यनाथो यो ददर्शोर्ध्वमनाथवत्
स्थूलास्थूलतमः सोऽपि नाम्ना देवो महाविराट्। परमा्णुर्यथा सूक्ष्मात्परः स्थूलात्तथाप्यसौ
तेजसा षोडशांशोऽयं कृष्णस्य परमात्मनः। आधारः सर्वविश्वानां महाविष्णुश्च प्राकृतः
प्रत्येकं लोमकूपेषु विश्वानि निखिलानि च। अस्यापि तेषां संख्यां च कृष्णो वक्तुं नहि क्षमः
संख्या चेद्रजसामस्ति विश्वानां न कदाचन। ब्रह्मविष्णुशिवादीनां तथा संख्या न विद्यते
प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः। पातालाद् ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्तितम्
तत ऊर्ध्वं च वैकुण्ठो ब्रह्माण्डाद् बहिरेव सः। तत ऊर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनः
नित्यः सत्यस्वरूपश्च यथा कृष्णस्तथाप्ययम्। सप्तद्वीपमिता पृध्वी सप्तसागरसंयुता
ऊनपञ्चाशदुपद्वीपासंख्यशैलवनान्विता । ऊर्ध्वं सप्त स्वर्गलोका ब्रह्यलोकसमन्विताः
पातालानि च सप्ताधश्चैवं ब्रह्माण्डमेव च। ऊर्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परम्
ततः परश्च स्वर्लोको जनलोकस्तथा परः । ततः परस्तपोलोकः सत्यलोकस्ततः परः
ततः परं ब्रह्मलोकस्तप्तकाञ्चनसन्निभः । एवं सर्वं कृत्रिमं च बाह्याभ्यन्तरमेव च
तद्विनाशे विनाशश्च सर्वेषामेव नारद । जलबुद्बुदवत्सर्वं विश्वसंघमनित्यकम्
नित्यौ गोलोकवैकुण्ठौ प्रोक्तौ शश्वदकृत्रिमौ । प्रत्येकं लोमकूपेषु ब्रह्माण्डं परिनिश्चितम्
एषां संख्यां न जानाति कृष्णोऽन्यस्यापि का कथा । प्रत्येकं प्रतिब्रह्माण्डं ब्रह्मविष्णुशिवादयः
तिस्रः कोट्यः सुराणां च संख्या सर्वत्र पुत्रक। दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः
भुवि वर्णाश्च चत्वारोऽप्यधो नागाश्चराचराः । अथ कालेऽत्र स विराडूर्ध्वं दृष्ट्वा पुनः पुनः
डिम्भान्तरे च शून्यं च न द्वितीयं च किञ्चन । चिन्तामवाप क्षुद्युक्तो रुरोद च पुनः पुनः