दृष्ट्वा कृष्णश्च तत्त्यागं हाहाकारं चकार ह । शशाप देवीं देवेशस्तत्क्षणं च यथोचितम्
यतोऽपत्यं त्वया त्यक्तं कोपशीले च निष्ठुरे । भव त्वमनपत्यापि चाद्यप्रभृति निश्चितम्
या यास्त्वदंशरूपाश्च भविष्यन्ति सुरस्त्रियः । अनपत्याश्च ताः सर्वास्त्वत्समा नित्ययौवनाः
एतस्मिन्नन्तरे देवी जिह्वाग्रात्सहसा ततः । आविर्बभूव कन्यैका शुक्लवर्णा मनोहरा
श्वेतवस्त्रपरीधाना वीणापुस्तकधारिणी । रत्नभूषणभूषाढ्या सर्वशास्त्राधिदेवता
अथ कालान्तरे सा च द्विधारूपो बभूव ह । वामार्धाङ्गाच्च कमला दक्षिणार्धाच्च राधिका
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः । दक्षिणार्धश्च द्विभुजो वामार्धश्च चतुर्भुजः
उवाच वाणीं कृष्णस्तां त्वमस्य कामिनी भव । अत्रैव मानिनी राधा तव भद्रं भविष्यति
एवं लक्ष्मीं च प्रददौ तुष्टो नारायणाय च । स जगाम च वैकुण्ठं ताभ्यां सार्धं जगत्पतिः
अनपत्ये च ते द्वे च जाते राधांशसम्भवे । भूता नारायणाङ्गाच्च पार्षदाश्च चतुर्भुजाः
तेजसा वयसा रूपगुणाभ्यां च समा हरेः । बभूवुः कमलाङ्गाच्च दासीकोट्यश्च तत्समाः
अथ गोलोकनाथस्य लोम्नां विवरतो मुने । भूताश्चासंख्यगोपाश्च वयसा तेजसा समाः
रूपेण च गुणेनैव बलेन विक्रमेण च । प्राणतुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः
राधाङ्गलोमकूपेभ्यो बभूवुर्गोपकन्यकाः । राधातुल्याश्च ताः सर्वा राधादास्यः प्रियंवदाः
रत्नभूषणभूषाढ्याः शश्वत्सुस्थिरयौवनाः । अनपत्याश्च ताः सर्वाः पुंसः शापेन सन्ततम्
एतस्मिन्नन्तरे विप्र सहसा कृष्णदेवता । आविर्बभूव दुर्गा सा विष्णुमाया सनातनी
देवी नारायणीशाना सर्वशक्तिस्वरूपिणी । बुद्ध्यधिष्ठात्री देवी सा कृष्णस्य परमात्मनः
देवीनां बीजरूपा च मूलप्रकृतिरीश्वरी । परिपूर्णतमा तेजःस्वरूपा त्रिगुणात्मिका
तप्तकाञ्चनवर्णाभा कोटिसूर्यसमप्रभा । ईषद्धास्यप्रसन्नास्या सहस्रभुजसंयुता
नानाशस्त्रास्त्रनिकरं बिभ्रती सा त्रिलोचना । वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता
यस्याश्चांशांशकलया बभूवुः सर्वयोषितः । सर्वे विश्वस्थिता लोका मोहिताः स्युश्च मायया
सर्वैश्वर्यप्रदात्री च कामिनां गृहवासिनाम् । कृष्णभक्तिप्रदा या च वैष्णवानां च वैष्णवी
मुमुक्षूणां मोक्षदात्री सुखिनां सुखदायिनी । स्वर्गेषु स्वर्गलक्ष्मीश्च गृहलक्ष्यीर्गृहेषु च
तपस्विषु तपस्या च श्रीरूपा तु नृपेषु च । या वह्नौ दाहिकारूपा प्रभारूपा च भास्करे
शोभारूपा च चन्द्रे च सा पद्मेषु च शोभना । सर्वशक्तिस्वरूपा या श्रीकृष्णे परमात्मनि
यया च शक्तिमानात्मा यया च शक्तिमज्जगत् । यया विना जगत्सर्वं जीवन्मृतमिव स्थितम्
या च संसारवृक्षस्य बीजरूपा सनातनी । स्थितिरूपा वृद्धिरूपा फलरूपा च नारद
क्षुत्पिपासादयारूपा निद्रा तन्द्रा क्षमा मतिः । शान्तिलज्जातुष्टिपुष्टिभ्रान्तिकान्त्यादिरूपिणी
सा च संस्तूय सर्वेशं तत्पुरः समुवास ह । रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः
एतस्मिन्नन्तरे तत्र सस्त्रीकश्च चतुर्मुखः । पद्मनाभेर्नाभिपद्मान्निःससार महामुने