शुक उवाच यदर्थमागतोऽस्म्यत्र तत्प्राप्तं वचनात्तव । विदेहनगरं द्रष्टुं प्रवेशो यत्र दुर्लभः
मोहोऽयं मम दुर्बुद्धेः समुल्लङ्घ्य गिरिद्वयम् । राजानं द्रष्टुकामोऽहं पर्यटन्समुपागतः
वञ्चितोऽहं स्वयं पित्रा दूषणं कस्य दीयते । भ्रामितोऽहं महाभाग कर्मणा वा महीतले
धनाशा पुरुषस्येह परिभ्रमणकारणम् । सा मे नास्ति तथाप्यत्र सम्प्राप्तोऽस्मि भ्रमात्किल
निराशस्य सुखं नित्यं यदि मोहे न मज्जति । निराशोऽहं महाभाग मग्नोऽस्मिन्मोहसागरे
क्व मेरुर्मिथिला क्वेयं पद्भ्यां च समुपागतः । परिश्रमफलं किं मे वञ्चितो विधिना किल
प्रारब्धं किल भोक्तव्यं शुभं वाप्यथवाशुभम् । उद्यमस्तद्वशे नित्यं कारयत्येव सर्वथा
न तीर्थं न च वेदोऽत्र यदर्थमिह मे श्रमः । अप्रवेशः पुरे जातो विदेहो नाम भूपतिः
इत्युक्त्या विररामाशु मौनीभूत इव स्थितः । ज्ञातो हि प्रतिहारेण ज्ञानी कश्चिद्द्विजोत्तमः
सामपूर्वमुवाचासौ तं क्षत्ता संस्थितं मुनिम् । गच्छ भो यत्र ते कार्यं यथेष्टं द्विजसत्तम
अपराधो मम ब्रह्मन्यन्निवारितवानहम् । तत्क्षन्तव्यं महाभाग विमुक्तानां क्षमा बलम्
शुक उवाच किं तेऽत्र दूषणं क्षत्तः परतन्त्रोऽसि सर्वदा । प्रभुकार्यं प्रकर्तव्यं सेवकेन यथोचितम्
न भूपदूषणं चात्र यदहं रक्षितस्त्वया । चोरशत्रुपरिज्ञानं कर्तव्यं सर्वथा बुधैः
ममैव सर्वथा दोषो यदहं समुपागतः । गमनं परगेहे यल्लघुतायाश्च कारणम्
प्रतीहार उवाच किं सुखं द्विज किं दुःखं किं कार्यं शुभमिच्छता । कः शत्रुर्हितकर्ता को ब्रूहि सर्वं ममाद्य वै
शुक उवाच द्वैविध्यं सर्वलोकेषु सर्वत्र द्विविधो जनः । रागी चैव विरागी च तयोश्चित्तं द्विधा पुनः
विरागी त्रिविधः कामं ज्ञातोऽज्ञातश्च मध्यमः । रागी च द्विविधः प्रोक्तो मूर्खश्च चतुरस्तथा
चातुर्यं द्विविधं प्रोक्तं शास्त्रजं मतिजं तथा । मतिस्तु द्विविधा लोके युक्तायुक्तेति सर्वथा
प्रतीहार उवाच यदुक्तं भवता विद्वन्नार्थज्ञोऽहं द्विजोत्तम । तत्सर्वं विस्तरेणाद्य यथार्थं वद सत्तम
शुक उवाच रागो यस्यास्ति संसारे स रागीत्युच्यते ध्रुवम् । दुःखं बहुविधं तस्य सुखं च विविधं पुनः
धनं प्राप्य सुतान्दारान्मानं च विजयं तथा । तदप्राप्य महद्दुःखं भवत्येव क्षणे क्षणे
कार्यस्तस्य सुखोपायः कर्तव्यं सुखसाधनम् । तस्यारातिः स विज्ञेयः सुखविघ्नं करोति यः
सुखोत्पादयिता मित्रं रागयुक्तस्य सर्वदा । चतुरो नैव मुह्येत मूर्खः सर्वत्र मुह्यति
विरक्तस्यात्मरक्तस्य सुखमेकान्तसेवनम् । आत्मानुचिन्तनं चैव वेदान्तस्य च चिन्तनम्
दुःखं तदेतत्सर्वं हि संसारकथनादिकम् । शत्रवो बहवस्तस्य विज्ञस्य शुभमिच्छतः
कामः क्रोधः प्रमादश्च शत्रवो विविधाः स्मृताः । बन्धुः सन्तोष एवास्य नान्योऽस्ति भुवनत्रये
सूत उवाच तच्छ्रुत्वा वचनं तस्य मत्वा तं ज्ञानिनं द्विजम् । क्षत्ता प्रवेशयामास कक्षां चातिमनोरमाम्
नगरं वीक्षमाणः संस्त्रैविध्यजनसङ्कुलम् । नानाविपणिद्रव्याढ्यं क्रयविक्रयकारकम्
रागद्वेषयुतं कामलोभमोहाकुलं तथा । विवदत्सुजनाकीर्णं वसुपूर्णं महत्तरम्
पश्यन्स त्रिविधाँल्लोकान्प्रासरद्राजमन्दिरम् । प्राप्तः परमतेजस्वी द्वितीय इव भास्करः