मयूरपिच्छचूडं च मालतीमाल्यमण्डितम् । सुनसं सस्मितं कान्तं भक्तानुग्रहकारणम्
ज्वलदग्निविशुद्धैकपीतांशुकसुशोभितम् । द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम्
सर्वाधारं च सर्वेशं सर्वशक्तियुतं विभुम् । सर्वैश्वर्यप्रदं सर्वस्वतन्त्रं सर्वमङ्गलम्
परिपूर्णतमं सिद्धं सिद्धेशं सिद्धिकारकम् । ध्यायन्ते वैष्णवाः शश्वद्देवदेवं सनातनम्
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् । ब्रह्मणो वयसा यस्य निमेष उपचर्यते
स चात्मा स परं ब्रह्म कृष्ण इत्यभिधीयते । कृषिस्तद्भक्तिवचनो नश्च तद्दास्यवाचकः
भक्तिदास्यप्रदाता यः स च कृष्णः प्रकीर्तितः । कृषिश्च सर्ववचनो नकारो बीजमेव च
स कृष्णः सर्वस्रष्टाऽऽदौ सिसृक्षन्नेक एव च । सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः
स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह । स्त्रीरूपो वामभागांशो दक्षिणांशः पुमान्स्मृतः
तां ददर्श महाकामी कामाधारां सनातनः । अतीव कमनीया च चारुपङ्कजसन्निभाम्
चन्द्रबिम्बविनिन्द्यैकनितम्बयुगलां पराम् । सुचारुकदलीस्तम्भनिन्दितश्रोणिसुन्दरीम्
श्रीयुक्तश्रीफलाकारस्तनयुग्ममनोरमाम् । पुष्पजुष्टां सुवलितां मध्यक्षीणां मनोहराम्
अतीव सुन्दरीं शान्तां सस्मितां वक्रलोचनाम् । वह्निशुद्धांशुकाधारां रत्नभूषणभूषिताम्
शश्वच्चक्षुश्चकोराभ्यां पिबन्तीं सततं मुदा । कृष्णस्य मुखचन्द्रं च चन्द्रकोटिविनिन्दितम्
कस्तूरीबिन्दुना सार्धमधश्चन्दनबिन्दुना । समं सिन्दूरबिन्दुं च भालमध्ये च बिभ्रतीम्
वक्रिमं कबरीभारं मालतीमाल्यभूषितम् । रत्नेन्द्रसारहारं च दधतीं कान्तकामुकीम्
कोटिचन्द्रप्रभामृष्टपुष्टशोभासमन्विताम् । गमनेन राजहंसगजगर्वविनाशिनीम्
दृष्ट्वा तां तु तया सार्धं रासेशो रासमण्डले । रासोल्लासे सुरसिको रासक्रीडाञ्चकार ह
नानाप्रकारशृङ्गारं शृङ्गारो मूर्तिमानिव । चकार सुखसम्भोगं यावद्वै ब्रह्मणो दिनम्
ततः स च परिश्रान्तस्तस्या योनौ जगत्पिता । चकार वीर्याधानं च नित्यानन्दे शुभक्षणे
गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत । निःससार श्रमजलं श्रान्तायास्तेजसा हरेः
महाक्रमणक्लिष्टाया निःश्वासश्च बभूव ह । तदा वव्रे श्रमजलं तत्सर्वं विश्वगोलकम्
स च निःश्वासवायुश्च सर्वाधारो बभूव ह । निःश्वासवायुः सर्वेषां जीविनां च भवेषु च
बभूव मूर्तिमद्वायोर्वामाङ्गात्प्राणवल्लभा । तत्पत्नी सा च तत्पुत्राः प्राणाः पञ्च च जीविनाम्
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः । बभूवुरेव तत्पुत्रा अधः प्राणाश्च पञ्च च
घर्मतोयाधिदेवश्च बभूव वरुणो महान् । तद्वामाङ्गाच्च तत्पत्नी वरुणानी बभूव सा
अथ सा कृष्णचिच्छक्तिः कृष्णगर्भं दधार ह । शतमन्वन्तरं यावज्ज्वलन्ती ब्रह्मतेजसा
कृष्णप्राणाधिदेवी सा कृष्णप्राणाधिकप्रिया । कृष्णस्य सङ्गिनी शश्वत्कृष्णवक्षःस्थलस्थिता
शतमन्वन्तरान्ते च कालेऽतीते तु सुन्दरी । सुषाव डिम्भं स्वर्णाभं विश्वाधारालयं परम्
दृष्ट्वा डिम्भं च सा देवी हृदयेन व्यदूयत । उत्ससर्ज च कोपेन ब्रह्माण्डगोलके जले