पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने । एवं ते कथितं सर्वं प्रकृतेश्चरितं शुभम्
यथागमं लक्षणं च किं भूयः श्रोतुमिच्छसि
पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् नारद उवाच समासेन श्रुतं सर्वं देवीनां चरितं प्रभो । विबोधनाय बोधस्य व्यासेन वक्तुमर्हसि
सृष्टेराद्या सृष्टिविधौ कथमाविर्बभूव ह । कथं वा पञ्चधा भूता वद वेदविदांवर
भूता ययांशकलया तया त्रिगुणया भवे । व्यासेन तासां चरितं श्रोतुमिच्छामि साम्प्रतम्
तासां जन्मानुकथनं पूजाध्यानविधिं बुध । स्तोत्रं कवचमैश्वर्यं शौर्यं वर्णय मङ्गलम्
श्रीनारायण उवाच नित्य आत्मा नभो नित्यं कालो नित्यो दिशो यथा । विश्वानां गोलकं नित्यं नित्यो गोलोक एव च
तदेकदेशो वैकुण्ठो नम्रभागानुसारकः । तथैव प्रकृतिर्नित्या ब्रह्मलीला सनातनी
यथाग्नौ दाहिका चन्द्रे पद्मे शोभा प्रभा रवौ । शश्वद्युक्ता न भिन्ना सा तथा प्रकृतिरात्मनि
विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः । विना मृदा घटं कर्तुं कुलालो हि नहीश्वरः
न हि क्षमस्तथात्मा च सृष्टिं स्रष्टुं तया विना । सर्वशक्तिस्वरूपा सा यया च शक्तिमान्सदा
ऐश्वर्यवचनः शश्च क्तिः पराक्रम एव च । तत्स्वरूपा तयोर्दात्री सा शक्तिः परिकीर्तिता
ज्ञानं समृद्धिः सम्पत्तिर्यशश्चैव बलं भगः । तेन शक्तिर्भगवती भगरूपा च सा सदा
तया युक्तः सदात्मा च भगवांस्तेन कथ्यते । स च स्वेच्छामयो देवः साकारश्च निराकृतिः
तेजोरूपं निराकारं ध्यायन्ते योगिनः सदा । वदन्ति च परं ब्रह्म परमानन्दमीश्वरम्
अदृश्यं सर्वद्रष्टारं सर्वज्ञं सर्वकारणम् । सर्वदं सर्वरूपं तं वैष्णवास्तन्न मन्वते
वदन्ति चैव ते कस्य तेजस्तेजस्विना विना । तेजोमण्डलमध्यस्थं ब्रह्म तेजस्विनं परम्
स्वेच्छामयं सर्वरूपं सर्वकारणकारणम् । अतीव सुन्दरं रूपं बिभ्रतं सुमनोहरम्
किशोरवयसं शान्तं सर्वकान्तं परात्परम् । नवीननीरदाभासधामैकं श्यामविग्रहम्
शरन्मध्याह्नपद्मौघशोभामोचनलोचनम् । मुक्ताच्छविविनिन्द्यैकदन्तपंक्तिमनोरमम्
मयूरपिच्छचूडं च मालतीमाल्यमण्डितम् । सुनसं सस्मितं कान्तं भक्तानुग्रहकारणम्
ज्वलदग्निविशुद्धैकपीतांशुकसुशोभितम् । द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम्
सर्वाधारं च सर्वेशं सर्वशक्तियुतं विभुम् । सर्वैश्वर्यप्रदं सर्वस्वतन्त्रं सर्वमङ्गलम्
परिपूर्णतमं सिद्धं सिद्धेशं सिद्धिकारकम् । ध्यायन्ते वैष्णवाः शश्वद्देवदेवं सनातनम्
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् । ब्रह्मणो वयसा यस्य निमेष उपचर्यते
स चात्मा स परं ब्रह्म कृष्ण इत्यभिधीयते । कृषिस्तद्भक्तिवचनो नश्च तद्दास्यवाचकः
भक्तिदास्यप्रदाता यः स च कृष्णः प्रकीर्तितः । कृषिश्च सर्ववचनो नकारो बीजमेव च
स कृष्णः सर्वस्रष्टाऽऽदौ सिसृक्षन्नेक एव च । सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः
स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह । स्त्रीरूपो वामभागांशो दक्षिणांशः पुमान्स्मृतः
तां ददर्श महाकामी कामाधारां सनातनः । अतीव कमनीया च चारुपङ्कजसन्निभाम्