योषितामवमानेन प्रकृतेश्च पराभवः । ब्राह्मणी पूजिता येन पतिपुत्रवती सती
प्रकृतिः पूजिता तेन वस्त्रालङ्कारचन्दनैः । कुमारी चाष्टवर्षीया वस्त्रालङ्कारचन्दनैः
पूजिता येन विप्रस्य प्रकृतिस्तेन पूजिता । सर्वाः प्रकृतिसम्भूता उत्तमाधममध्यमाः
सत्त्वांशाश्चोत्तमा ज्ञेयाः सुशीलाश्च पतिव्रताः । मध्यमा रजसश्चांशास्ताश्च भोग्याः प्रकीर्तिताः
सुखसम्भोगवश्याश्च स्वकार्ये तत्पराः सदा । अधमास्तमसश्चांशा अज्ञातकुलसम्भवाः
दुर्मुखाः कुलहा धूर्ताः स्वतन्त्राः कलहप्रियाः । पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः
प्रकृतेस्तमसश्चांशाः पुंश्चल्यः परिकीर्तिताः । एवं निगदितं सर्वं प्रकृते रूपवर्णनम्
ताः सर्वाः पूजिताः पृथ्व्यां पुण्यक्षेत्रे च भारते । पूजिता सुरथेनादौ दुर्गा दुर्गार्तिनाशिनी
ततः श्रीरामचन्द्रेण रावणस्य वधार्थिना । तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता
जाताऽऽदौ दक्षकन्या या निहत्य दैत्यदानवान् । ततो देहं परित्यज्य यज्ञे भर्तुश्च निन्दया
जज्ञे हिमवतः पत्न्यां लेभे पशुपतिं पतिम् । गणेशश्च स्वयं कृष्णः स्कन्दो विष्णुकलोद्भवः
बभूवतुस्तौ तनयौ पश्चात्तस्याश्च नारद । लक्ष्मीर्मङ्गलभूपेन प्रथमं परिपूजिता
त्रिषु लोकेषु तत्पश्चाद्देवतामुनिमानवैः । सावित्री चाश्वपतिना प्रथमं परिपूजिता
तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्गवैः । आदौ सरस्वती देवी ब्रह्मणा परिपूजिता
तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्गवैः । प्रथमं पूजिता राधा गोलोके रासमण्डले
पौर्णमास्यां कार्तिकस्य कृष्णेन परमात्मना । गोपिकाभिश्च गोपैश्च बालिकाभिश्च बालकैः
गवां गणैः सुरभ्या च तत्पश्चादाज्ञया हरेः । तदा ब्रह्मादिभिर्देवैर्मुनिभिः परया मुदा
पुष्पधूपादिभिर्भक्त्या पूजिता वन्दिता सदा । पृथिव्यां प्रथमं देवी सुयज्ञेनैव पूजिता
शङ्करेणोपदिष्टेन पुण्यक्षेत्रे च भारते । त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः
पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सदा । कला या याः समुद्भूता पूजितास्ताश्च भारते
पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने । एवं ते कथितं सर्वं प्रकृतेश्चरितं शुभम्
यथागमं लक्षणं च किं भूयः श्रोतुमिच्छसि
पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् नारद उवाच समासेन श्रुतं सर्वं देवीनां चरितं प्रभो । विबोधनाय बोधस्य व्यासेन वक्तुमर्हसि
सृष्टेराद्या सृष्टिविधौ कथमाविर्बभूव ह । कथं वा पञ्चधा भूता वद वेदविदांवर
भूता ययांशकलया तया त्रिगुणया भवे । व्यासेन तासां चरितं श्रोतुमिच्छामि साम्प्रतम्
तासां जन्मानुकथनं पूजाध्यानविधिं बुध । स्तोत्रं कवचमैश्वर्यं शौर्यं वर्णय मङ्गलम्
श्रीनारायण उवाच नित्य आत्मा नभो नित्यं कालो नित्यो दिशो यथा । विश्वानां गोलकं नित्यं नित्यो गोलोक एव च
तदेकदेशो वैकुण्ठो नम्रभागानुसारकः । तथैव प्रकृतिर्नित्या ब्रह्मलीला सनातनी
यथाग्नौ दाहिका चन्द्रे पद्मे शोभा प्रभा रवौ । शश्वद्युक्ता न भिन्ना सा तथा प्रकृतिरात्मनि
विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः । विना मृदा घटं कर्तुं कुलालो हि नहीश्वरः