सर्वे लोकाः समाच्छन्ना यया योगेन रात्रिषु । कालस्य तिस्रो भार्याश्च संध्या रात्रिर्दिनानि च
याभिर्विना विधाता च संख्यां कर्तुं न शक्यते । क्षुत्पिपासे लोभभार्ये धन्ये मान्ये च पूजिते
याभ्यां व्याप्तं जगत्सर्वं नित्यं चिन्तातुरं भवेत् । प्रभा च दाहिका चैव द्वे भार्ये तेजसस्तथा
याभ्यां विना जगत्स्रष्टा विधातुं च न हीश्वरः । कालकन्ये मृत्युजरे प्रज्वारस्य प्रियाप्रिये
याभ्यां जगत्समुच्छिन्नं विधात्रा निर्मितं विधौ । निद्राकन्या च तन्द्रा सा प्रीतिरन्या सुखप्रिये
याभ्यां व्याप्तं जगत्सर्वं विधिपुत्र विधेर्विधौ । वैराग्यस्य च द्वे भार्ये श्रद्धा भक्तिश्च पूजिते
याभ्यां शश्वज्जगत्सर्वं यज्जीवन्मुक्तिमन्मुने । अदितिर्देवमाता च सुरभी च गवां प्रसूः
दितिश्च दैत्यजननी कद्रूश्च विनता दनुः । उपयुक्ताः सृष्टिविधावेतास्तु कीर्तिताः कलाः
कला अन्याः सन्ति बह्व्यस्तासु काश्चिन्निबोध मे । रोहिणी चन्द्रपत्नी च संज्ञा सूर्यस्य कामिनी
शतरूपा मनोर्भार्या शचीन्द्रस्य च गेहिनी । तारा बृहस्पतेर्भार्या वसिष्ठस्याप्यरुन्धती
अहल्या गौतमस्त्री साप्यनसूयात्रिकामिनी । देवहूतिः कर्दमस्य प्रसूतिर्दक्षकामिनी
पितॄणां मानसी कन्या मेनका साम्बिकाप्रसूः । लोपामुद्रा तथा कुन्ती कुबेरकामिनी तथा
वरुणानी प्रसिद्धा च बलेर्विन्ध्यावलिस्तथा । कान्ता च दमयन्ती च यशोदा देवकी तथा
गान्धारी द्रौपदी शैव्या सा च सत्यवती प्रिया । वृषभानुप्रिया साध्वी राधामाता कुलोद्वहा
मन्दोदरी च कौसल्या सुभद्रा कौरवी तथा । रेवती सत्यभामा च कालिन्दी लक्ष्मणा तथा
जाम्बवती नाग्नजितिर्मित्रविन्दा तथापरा । लक्ष्मणा रुक्मिणी सीता स्वयं लक्ष्मीः प्रकीर्तिता
काली योजनगन्धा च व्यासमाता महासती । बाणपुत्री तथोषा च चित्रलेखा च तत्सखी
प्रभावती भानुमती तथा मायावती सती । रेणुका च भृगोर्माता राममाता च रोहिणी
एकनन्दा च दुर्गा सा श्रीकृष्णभगिनी सती । बह्व्यः सत्यः कलाश्चैव प्रकृतेरेव भारते
या याश्च ग्रामदेव्यः स्युस्ताः सर्वाः प्रकृतेः कलाः । कलांशांशसमुद्भूताः प्रतिविश्वेषु योषितः
योषितामवमानेन प्रकृतेश्च पराभवः । ब्राह्मणी पूजिता येन पतिपुत्रवती सती
प्रकृतिः पूजिता तेन वस्त्रालङ्कारचन्दनैः । कुमारी चाष्टवर्षीया वस्त्रालङ्कारचन्दनैः
पूजिता येन विप्रस्य प्रकृतिस्तेन पूजिता । सर्वाः प्रकृतिसम्भूता उत्तमाधममध्यमाः
सत्त्वांशाश्चोत्तमा ज्ञेयाः सुशीलाश्च पतिव्रताः । मध्यमा रजसश्चांशास्ताश्च भोग्याः प्रकीर्तिताः
सुखसम्भोगवश्याश्च स्वकार्ये तत्पराः सदा । अधमास्तमसश्चांशा अज्ञातकुलसम्भवाः
दुर्मुखाः कुलहा धूर्ताः स्वतन्त्राः कलहप्रियाः । पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः
प्रकृतेस्तमसश्चांशाः पुंश्चल्यः परिकीर्तिताः । एवं निगदितं सर्वं प्रकृते रूपवर्णनम्
ताः सर्वाः पूजिताः पृथ्व्यां पुण्यक्षेत्रे च भारते । पूजिता सुरथेनादौ दुर्गा दुर्गार्तिनाशिनी
ततः श्रीरामचन्द्रेण रावणस्य वधार्थिना । तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता
जाताऽऽदौ दक्षकन्या या निहत्य दैत्यदानवान् । ततो देहं परित्यज्य यज्ञे भर्तुश्च निन्दया