सम्पश्यन्विविधान्देशाँल्लोकांश्च वित्तधर्मिणः । वनानि पादपांश्चैव क्षेत्राणि फलितानि च
तापसांस्तप्यमानांश्च याजकान्दीक्षयान्वितान् । योगाभ्यासरतान्योगिवानप्रस्थान्वनौकसः
शैवान्पाशुपतांश्चैव सौराञ्छाक्तांश्च वैष्णवान् । वीक्ष्य नानाविधान्धर्माञ्जगामातिस्मयन्मुनिः
वर्षद्वयेन मेरुं च समुल्लङ्घ्य महामतिः । हिमाचलं च वर्षेण जगाम मिथिलां प्रति
प्रविष्टो मिथिलां मध्ये पश्यन्सर्वर्द्धिमुत्तमाम् । प्रजाश्च सुखिताः सर्वाः सदाचाराः सुसंस्थिताः
क्षत्रा निवारितस्तत्र कस्त्वमत्र समागतः । किं ते कार्यं वदस्वेति पृष्टस्तेन न चाब्रवीत्
निःसृत्य नगरद्वारात्स्थितः स्थाणुरिवाचलः । विस्मितोऽतिहसंस्तस्थौ वचो नोवाच किञ्चन
प्रतीहार उवाच ब्रूहि मूकोऽसि किं ब्रह्मन्किमर्थं त्वमिहागतः । चलनं च विना कार्यं न भवेदिति मे मतिः
राजाज्ञया प्रवेष्टव्यं नगरेऽस्मिन्सदा द्विज । अज्ञातकुलशीलस्य प्रवेशो नात्र सर्वथा
तेजस्वी भासि नूनं त्वं ब्राह्मणो वेदवित्तमः । कुलं कार्यं च मे ब्रूहि यथेष्टं गच्छ मानद
शुक उवाच यदर्थमागतोऽस्म्यत्र तत्प्राप्तं वचनात्तव । विदेहनगरं द्रष्टुं प्रवेशो यत्र दुर्लभः
मोहोऽयं मम दुर्बुद्धेः समुल्लङ्घ्य गिरिद्वयम् । राजानं द्रष्टुकामोऽहं पर्यटन्समुपागतः
वञ्चितोऽहं स्वयं पित्रा दूषणं कस्य दीयते । भ्रामितोऽहं महाभाग कर्मणा वा महीतले
धनाशा पुरुषस्येह परिभ्रमणकारणम् । सा मे नास्ति तथाप्यत्र सम्प्राप्तोऽस्मि भ्रमात्किल
निराशस्य सुखं नित्यं यदि मोहे न मज्जति । निराशोऽहं महाभाग मग्नोऽस्मिन्मोहसागरे
क्व मेरुर्मिथिला क्वेयं पद्भ्यां च समुपागतः । परिश्रमफलं किं मे वञ्चितो विधिना किल
प्रारब्धं किल भोक्तव्यं शुभं वाप्यथवाशुभम् । उद्यमस्तद्वशे नित्यं कारयत्येव सर्वथा
न तीर्थं न च वेदोऽत्र यदर्थमिह मे श्रमः । अप्रवेशः पुरे जातो विदेहो नाम भूपतिः
इत्युक्त्या विररामाशु मौनीभूत इव स्थितः । ज्ञातो हि प्रतिहारेण ज्ञानी कश्चिद्द्विजोत्तमः
सामपूर्वमुवाचासौ तं क्षत्ता संस्थितं मुनिम् । गच्छ भो यत्र ते कार्यं यथेष्टं द्विजसत्तम
अपराधो मम ब्रह्मन्यन्निवारितवानहम् । तत्क्षन्तव्यं महाभाग विमुक्तानां क्षमा बलम्
शुक उवाच किं तेऽत्र दूषणं क्षत्तः परतन्त्रोऽसि सर्वदा । प्रभुकार्यं प्रकर्तव्यं सेवकेन यथोचितम्
न भूपदूषणं चात्र यदहं रक्षितस्त्वया । चोरशत्रुपरिज्ञानं कर्तव्यं सर्वथा बुधैः
ममैव सर्वथा दोषो यदहं समुपागतः । गमनं परगेहे यल्लघुतायाश्च कारणम्
प्रतीहार उवाच किं सुखं द्विज किं दुःखं किं कार्यं शुभमिच्छता । कः शत्रुर्हितकर्ता को ब्रूहि सर्वं ममाद्य वै
शुक उवाच द्वैविध्यं सर्वलोकेषु सर्वत्र द्विविधो जनः । रागी चैव विरागी च तयोश्चित्तं द्विधा पुनः
विरागी त्रिविधः कामं ज्ञातोऽज्ञातश्च मध्यमः । रागी च द्विविधः प्रोक्तो मूर्खश्च चतुरस्तथा
चातुर्यं द्विविधं प्रोक्तं शास्त्रजं मतिजं तथा । मतिस्तु द्विविधा लोके युक्तायुक्तेति सर्वथा
प्रतीहार उवाच यदुक्तं भवता विद्वन्नार्थज्ञोऽहं द्विजोत्तम । तत्सर्वं विस्तरेणाद्य यथार्थं वद सत्तम
शुक उवाच रागो यस्यास्ति संसारे स रागीत्युच्यते ध्रुवम् । दुःखं बहुविधं तस्य सुखं च विविधं पुनः