यया विना हविर्दानं न ग्रहीतुं सुराः क्षमाः । दक्षिणा यज्ञपत्नी च दीक्षा सर्वत्र पूजिता
यया विना हि विश्वेषु सर्वकर्म हि निष्फलम् । स्वधा पितॄणां पत्नी च मुनिभिर्मनुभिर्नरैः
पूजिता पितृदानं हि निष्कलं च यया विना । स्वस्तिदेवी वायुपत्नी प्रतिविश्वेषु पूजिता
आदानं च प्रदानं च निष्फलं च यया विना । पुष्टिर्गणपतेः पत्नी पूजिता जगतीतले
यया विना परिक्षीणाः पुमांसो योषितोऽपि च । अनन्तपत्नी तुष्टिश्च पूजिता वन्दिता भवेत्
यया विना न सन्तुष्टाः सर्वलोकाश्च सर्वतः । ईशानपत्नी सम्पत्तिः पूजिता च सुरैर्नरैः
सर्वे लोका दरिद्राश्च विश्वेषु च यया विना । धृतिः कपिलपत्नी च सर्वैः सर्वत्र पूजिता
सर्वे लोका अधैर्याश्च जगत्सु च यया विना । सत्यपत्नी सती मुक्तैः पूजिता च जगत्प्रिया
यया विना भवेल्लोको बन्धुतारहितः सदा । मोहपत्नी दया साध्वी पूजिता च जगत्प्रिया
सर्वे लोकाश्च सर्वत्र निष्फलाश्च यया विना । पुण्यपत्नी प्रतिष्ठा सा पूजिता पुण्यदा सदा
यया विना जगत्सर्वं जीवन्मृतसमं मुने । सुकर्मपत्नी संसिद्धा कीर्तिर्धन्यैश्च पूजिता
यया विना जगत्सर्वं यशोहीनं मृतं यथा । क्रिया तूद्योगपत्नी च पूजिता सर्वसम्मता
यया विना जगत्सर्वं विधिहीनं च नारद । अधर्मपत्नी मिथ्या सा सर्वधूर्तैश्च पूजिता
यया विना जगत्सर्वमुच्छिन्नं विधिनिर्मितम् । सत्ये अदर्शना या च त्रेतायां सूक्ष्मरूपिणी
अर्धावयवरूपा च द्वापरे चैव संवृता । कलौ महाप्रगल्भा च सर्वत्र व्यापिका बलात्
कपटेन समं भ्रात्रा भ्रमते च गृहे गृहे । शान्तिर्लज्जा च भार्ये द्वे सुशीलस्य च पूजिते
याभ्यां विना जगत्सर्वमुन्मत्तमिव नारद । ज्ञानस्य तिस्रो भार्याश्च बुद्धिर्मेधाधृतिस्तथा
याभिर्विना जगत्सर्वं मूढं मत्तसमं सदा । मूर्तिश्च धर्मपत्नी सा कान्तिरूपा मनोहरा
परमात्मा च विश्वौघो निराधारो यया विना । सर्वत्र शोभारूपा च लक्ष्मीर्मूर्तिमती सती
श्रीरूपा मूर्तिरूपा च मान्या धन्यातिपूजिता । कालाग्नी रुद्रपत्नी च निद्रा सा सिद्धयोगिनी
सर्वे लोकाः समाच्छन्ना यया योगेन रात्रिषु । कालस्य तिस्रो भार्याश्च संध्या रात्रिर्दिनानि च
याभिर्विना विधाता च संख्यां कर्तुं न शक्यते । क्षुत्पिपासे लोभभार्ये धन्ये मान्ये च पूजिते
याभ्यां व्याप्तं जगत्सर्वं नित्यं चिन्तातुरं भवेत् । प्रभा च दाहिका चैव द्वे भार्ये तेजसस्तथा
याभ्यां विना जगत्स्रष्टा विधातुं च न हीश्वरः । कालकन्ये मृत्युजरे प्रज्वारस्य प्रियाप्रिये
याभ्यां जगत्समुच्छिन्नं विधात्रा निर्मितं विधौ । निद्राकन्या च तन्द्रा सा प्रीतिरन्या सुखप्रिये
याभ्यां व्याप्तं जगत्सर्वं विधिपुत्र विधेर्विधौ । वैराग्यस्य च द्वे भार्ये श्रद्धा भक्तिश्च पूजिते
याभ्यां शश्वज्जगत्सर्वं यज्जीवन्मुक्तिमन्मुने । अदितिर्देवमाता च सुरभी च गवां प्रसूः
दितिश्च दैत्यजननी कद्रूश्च विनता दनुः । उपयुक्ताः सृष्टिविधावेतास्तु कीर्तिताः कलाः
कला अन्याः सन्ति बह्व्यस्तासु काश्चिन्निबोध मे । रोहिणी चन्द्रपत्नी च संज्ञा सूर्यस्य कामिनी
शतरूपा मनोर्भार्या शचीन्द्रस्य च गेहिनी । तारा बृहस्पतेर्भार्या वसिष्ठस्याप्यरुन्धती