प्रधानांशस्वरूपा या देवसेना च नारद । मातृकासु पूज्यतमा सा षष्ठी च प्रकीर्तिता
पुत्रपौत्रादिदात्री च धात्री त्रिजगतां सती । षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्तिता
स्थाने शिशूनां परमा वृद्धरूपा च योगिनी । पूजा द्वादशमासेषु यस्या विश्वेषु सन्ततम्
पूजा च सूतिकागारे पुरा षष्ठदिने शिशोः । एकविंशतिमे चैव पूजा कल्याणहेतुकी
मुनिभिर्नमिता चैषा नित्यकामाप्यतः परा । मातृका च दयारूपा शश्वद्रक्षणकारिणी
जले स्थले चान्तरिक्षे शिशूनां सद्मगोचरे । प्रधानांशस्वरूपा च देवीमङ्गलचण्डिका
प्रकृतेर्मुखसम्भूता सर्वमङ्गलदा सदा । सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी
तेन मङ्गलचण्डी सा पण्डितैः परिकीर्तिता । प्रतिमङ्गलवारेषु प्रतिविश्वेषु पूजिता
पुत्रपौत्रधनैश्वर्ययशोमङ्गलदायिनी । परितुष्टा सर्ववाञ्छाप्रदात्री सर्वयोषिताम्
रुष्टा क्षणेन संहर्तुं शक्ता विश्वं महेश्वरी । प्रधानांशस्वरूपा सा काली कमललोचना
दुर्गाललाटसम्भूता रणे शुम्भनिशुम्भयोः । दुर्गार्धांशस्वरूपा सा गुणेन तेजसा समा
कोटिसूर्यसमाजुष्टपुष्टजाज्वलविग्रहा । प्रधाना सर्वशक्तीनां बला बलवती परा
सर्वसिद्धिप्रदा देवी परमा योगरूपिणी । कृष्णभक्ता कृष्णतुल्या तेजसा विक्रमैर्गुणैः
कृष्णभावनया शश्वत्कृष्णवर्णा सनातनी । संहर्तुं सर्वब्रह्माण्डं शक्ता निःश्वासमात्रतः
रणं दैत्यैः समं तस्याः क्रीडया लोकशिक्षया । धर्मार्थकाममोक्षांश्च दातुं शक्ता च पूजिता
ब्रह्मादिभिः स्तूयमाना मुनिभिर्मनुभिर्नरैः । प्रधानांशस्वरूपा सा प्रकृतेश्च वसुन्धरा
आधाररूपा सर्वेषां सर्वसस्या प्रकीर्तिता । रत्नाकरा रत्नगर्भा सर्वरत्नाकराश्रया
प्रजाभिश्च प्रजेशैश्च पूजिता वन्दिता सदा । सर्वोपजीव्यरूपा च सर्वसम्पद्विधायिनी
यया विना जगत्सर्वं निराधारं चराचरम् । प्रकृतेश्च कला या यास्ता निबोध मुनीश्वर
यस्य यस्य च या पत्नी तत्सर्वं वर्णयामि ते । स्वाहादेवी वह्निपत्नी प्रतिविश्वेषु पूजिता
यया विना हविर्दानं न ग्रहीतुं सुराः क्षमाः । दक्षिणा यज्ञपत्नी च दीक्षा सर्वत्र पूजिता
यया विना हि विश्वेषु सर्वकर्म हि निष्फलम् । स्वधा पितॄणां पत्नी च मुनिभिर्मनुभिर्नरैः
पूजिता पितृदानं हि निष्कलं च यया विना । स्वस्तिदेवी वायुपत्नी प्रतिविश्वेषु पूजिता
आदानं च प्रदानं च निष्फलं च यया विना । पुष्टिर्गणपतेः पत्नी पूजिता जगतीतले
यया विना परिक्षीणाः पुमांसो योषितोऽपि च । अनन्तपत्नी तुष्टिश्च पूजिता वन्दिता भवेत्
यया विना न सन्तुष्टाः सर्वलोकाश्च सर्वतः । ईशानपत्नी सम्पत्तिः पूजिता च सुरैर्नरैः
सर्वे लोका दरिद्राश्च विश्वेषु च यया विना । धृतिः कपिलपत्नी च सर्वैः सर्वत्र पूजिता
सर्वे लोका अधैर्याश्च जगत्सु च यया विना । सत्यपत्नी सती मुक्तैः पूजिता च जगत्प्रिया
यया विना भवेल्लोको बन्धुतारहितः सदा । मोहपत्नी दया साध्वी पूजिता च जगत्प्रिया
सर्वे लोकाश्च सर्वत्र निष्फलाश्च यया विना । पुण्यपत्नी प्रतिष्ठा सा पूजिता पुण्यदा सदा