यत्पादपद्मसंस्पर्शात्सद्यः पूता वसुन्धरा । यत्स्पर्शदर्शने चैवेच्छन्ति तीर्थानि शुद्धये
यया विना च विश्वेषु सर्वकर्म च निष्फलम् । मोक्षदा या मुमुक्षूणां कामिनी सर्वकामदा
कल्पवृक्षस्वरूपा या भारते वृक्षरूपिणी । भारतीनां प्रीणनाय जाता या परदेवता
प्रधानांशस्वरूपा या मनसा कश्यपात्मजा । शङ्करप्रियशिष्या च महाज्ञानविशारदा
नागेश्वरस्यानन्तस्य भगिनी नागपूजिता । नागेश्वरी नागमाता सुन्दरी नागवाहिनी
नागेन्द्रगणसंयुक्ता नागभूषणभूषिता । नागेन्द्रवन्दिता सिद्धा योगिनी नगशायिनी
विष्णुरूपा विष्णुभक्ता विष्णुपूजापरायणा । तपःस्वरूपा तपसां फलदात्री तपस्विनी
दिव्यं त्रिलक्षवर्षं च तपस्तप्त्वा च या हरेः । तपस्विनीषु पूज्या च तपस्विषु च भारते
सर्वमन्त्राधिदेवी च ज्वलन्ती ब्रह्मतेजसा । ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा
जरत्कारुमुनेः पत्नी कृष्णांशस्य पतिव्रता । आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम्
प्रधानांशस्वरूपा या देवसेना च नारद । मातृकासु पूज्यतमा सा षष्ठी च प्रकीर्तिता
पुत्रपौत्रादिदात्री च धात्री त्रिजगतां सती । षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्तिता
स्थाने शिशूनां परमा वृद्धरूपा च योगिनी । पूजा द्वादशमासेषु यस्या विश्वेषु सन्ततम्
पूजा च सूतिकागारे पुरा षष्ठदिने शिशोः । एकविंशतिमे चैव पूजा कल्याणहेतुकी
मुनिभिर्नमिता चैषा नित्यकामाप्यतः परा । मातृका च दयारूपा शश्वद्रक्षणकारिणी
जले स्थले चान्तरिक्षे शिशूनां सद्मगोचरे । प्रधानांशस्वरूपा च देवीमङ्गलचण्डिका
प्रकृतेर्मुखसम्भूता सर्वमङ्गलदा सदा । सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी
तेन मङ्गलचण्डी सा पण्डितैः परिकीर्तिता । प्रतिमङ्गलवारेषु प्रतिविश्वेषु पूजिता
पुत्रपौत्रधनैश्वर्ययशोमङ्गलदायिनी । परितुष्टा सर्ववाञ्छाप्रदात्री सर्वयोषिताम्
रुष्टा क्षणेन संहर्तुं शक्ता विश्वं महेश्वरी । प्रधानांशस्वरूपा सा काली कमललोचना
दुर्गाललाटसम्भूता रणे शुम्भनिशुम्भयोः । दुर्गार्धांशस्वरूपा सा गुणेन तेजसा समा
कोटिसूर्यसमाजुष्टपुष्टजाज्वलविग्रहा । प्रधाना सर्वशक्तीनां बला बलवती परा
सर्वसिद्धिप्रदा देवी परमा योगरूपिणी । कृष्णभक्ता कृष्णतुल्या तेजसा विक्रमैर्गुणैः
कृष्णभावनया शश्वत्कृष्णवर्णा सनातनी । संहर्तुं सर्वब्रह्माण्डं शक्ता निःश्वासमात्रतः
रणं दैत्यैः समं तस्याः क्रीडया लोकशिक्षया । धर्मार्थकाममोक्षांश्च दातुं शक्ता च पूजिता
ब्रह्मादिभिः स्तूयमाना मुनिभिर्मनुभिर्नरैः । प्रधानांशस्वरूपा सा प्रकृतेश्च वसुन्धरा
आधाररूपा सर्वेषां सर्वसस्या प्रकीर्तिता । रत्नाकरा रत्नगर्भा सर्वरत्नाकराश्रया
प्रजाभिश्च प्रजेशैश्च पूजिता वन्दिता सदा । सर्वोपजीव्यरूपा च सर्वसम्पद्विधायिनी
यया विना जगत्सर्वं निराधारं चराचरम् । प्रकृतेश्च कला या यास्ता निबोध मुनीश्वर
यस्य यस्य च या पत्नी तत्सर्वं वर्णयामि ते । स्वाहादेवी वह्निपत्नी प्रतिविश्वेषु पूजिता