अंशरूपाः कलारूपाः कलांशांशांशसम्भवाः । प्रकृतेः प्रतिविश्वेषु देव्यश्च सर्वयोषितः
परिपूर्णतमाः पञ्च विद्यादेव्यः प्रकीर्तिताः । या याः प्रधानांशरूपा वर्णयामि निशामय
प्रधानांशस्वरूपा सा गङ्गा भुवनपावनी । विष्णुविग्रहसम्भूता द्रवरूपा सनातनी
पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिणी । सुखस्पर्शा स्नानपानैर्निर्वाणपददायिनी
गोलोकस्थानप्रस्थानसुखसोपानरूपिणी । पवित्ररूपा तीर्थानां सरितां च परावरा
शम्भुमौलिजटामेरुमुक्तापंक्तिस्वरूपिणी । तपःसम्पादिनी सद्यो भारतेषु तपस्विनाम्
चन्द्रपद्मक्षीरनिभा शुद्धसत्त्वस्वरूपिणी । निर्मला निरहङ्कारा साध्वी नारायणप्रिया
प्रधानांशस्वरूपा च तुलसी विष्णुकामिनी । विष्णुभूषणरूपा च विष्णुपादस्थिता सती
तपःसंकल्पपूजादिसङ्घसम्पादिनी मुने । सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा
दर्शनस्पर्शनाभ्यां च सद्यो निर्वाणदायिनी । कलौ कलुषशुष्केध्मदहनायाग्निरूपिणी
यत्पादपद्मसंस्पर्शात्सद्यः पूता वसुन्धरा । यत्स्पर्शदर्शने चैवेच्छन्ति तीर्थानि शुद्धये
यया विना च विश्वेषु सर्वकर्म च निष्फलम् । मोक्षदा या मुमुक्षूणां कामिनी सर्वकामदा
कल्पवृक्षस्वरूपा या भारते वृक्षरूपिणी । भारतीनां प्रीणनाय जाता या परदेवता
प्रधानांशस्वरूपा या मनसा कश्यपात्मजा । शङ्करप्रियशिष्या च महाज्ञानविशारदा
नागेश्वरस्यानन्तस्य भगिनी नागपूजिता । नागेश्वरी नागमाता सुन्दरी नागवाहिनी
नागेन्द्रगणसंयुक्ता नागभूषणभूषिता । नागेन्द्रवन्दिता सिद्धा योगिनी नगशायिनी
विष्णुरूपा विष्णुभक्ता विष्णुपूजापरायणा । तपःस्वरूपा तपसां फलदात्री तपस्विनी
दिव्यं त्रिलक्षवर्षं च तपस्तप्त्वा च या हरेः । तपस्विनीषु पूज्या च तपस्विषु च भारते
सर्वमन्त्राधिदेवी च ज्वलन्ती ब्रह्मतेजसा । ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा
जरत्कारुमुनेः पत्नी कृष्णांशस्य पतिव्रता । आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम्
प्रधानांशस्वरूपा या देवसेना च नारद । मातृकासु पूज्यतमा सा षष्ठी च प्रकीर्तिता
पुत्रपौत्रादिदात्री च धात्री त्रिजगतां सती । षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्तिता
स्थाने शिशूनां परमा वृद्धरूपा च योगिनी । पूजा द्वादशमासेषु यस्या विश्वेषु सन्ततम्
पूजा च सूतिकागारे पुरा षष्ठदिने शिशोः । एकविंशतिमे चैव पूजा कल्याणहेतुकी
मुनिभिर्नमिता चैषा नित्यकामाप्यतः परा । मातृका च दयारूपा शश्वद्रक्षणकारिणी
जले स्थले चान्तरिक्षे शिशूनां सद्मगोचरे । प्रधानांशस्वरूपा च देवीमङ्गलचण्डिका
प्रकृतेर्मुखसम्भूता सर्वमङ्गलदा सदा । सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी
तेन मङ्गलचण्डी सा पण्डितैः परिकीर्तिता । प्रतिमङ्गलवारेषु प्रतिविश्वेषु पूजिता
पुत्रपौत्रधनैश्वर्ययशोमङ्गलदायिनी । परितुष्टा सर्ववाञ्छाप्रदात्री सर्वयोषिताम्
रुष्टा क्षणेन संहर्तुं शक्ता विश्वं महेश्वरी । प्रधानांशस्वरूपा सा काली कमललोचना