माता चतुर्णां वर्णानां वेदाङ्गानां च छन्दसाम् । सन्ध्यावन्दनमन्त्राणां तन्त्राणां च विचक्षणा
द्विजातिजातिरूपा च जपरूपा तपस्विनी । ब्रह्मण्यतेजोरूपा च सर्वसंस्काररूपिणी
पवित्ररूपा सावित्री गायत्री ब्रह्मणः प्रिया । तीर्थानि यस्याः संस्पर्शं वाञ्छन्ति ह्यात्मशुद्धये
शुद्धस्फटिकसंकाशा शुद्धसत्त्वस्वरूपिणी । परमानन्दरूपा च परमा च सनातनी
परब्रह्मस्वरूपा च निर्वाणपददायिनी । ब्रह्मतेजोमयी शक्तिस्तदधिष्ठातृदेवता
यत्पादरजसा पूतं जगत्सर्वं च नारद । देवी चतुर्थी कथिता पञ्चमीं वर्णयामि ते
पञ्चप्राणाधिदेवी या पञ्चप्राणस्वरूपिणी । प्राणाधिकप्रियतमा सर्वाभ्यः सुन्दरी परा
सर्वयुक्ता च सौभाग्यमानिनी गौरवान्विता । वामाङ्गार्धस्वरूपा च गुणेन तेजसा समा
परावरा सारभूता परमाद्या सनातनी । परमानन्दरूपा च धन्या मान्या च पूजिता
रासक्रीडाधिदेवी श्रीकृष्णस्य परमात्मनः । रासमण्डलसम्भूता रासमण्डलमण्डिता
रासेश्वरी सुरसिका रासावासनिवासिनी । गोलोकवासिनी देवी गोपीवेषविधायिका
परमाह्लादरूपा च सन्तोषहर्षरूपिणी । निर्गुणा च निराकारा निर्लिप्ताऽऽत्मस्वरूपिणी
निरीहा निरहङ्कारा भक्तानुग्रहविग्रहा । वेदानुसारिध्यानेन विज्ञाता मा विचक्षणैः
दृष्टिदृष्टा न सा चेशैः सुरेन्द्रैर्मुनिपुङ्गवैः । वह्निशुद्धांशुकधरा नानालङ्कारभूषिता
कोटिचन्द्रप्रभा पुष्टसर्वश्रीयुक्तविग्रहा । श्रीकृष्णभक्तिदास्यैककरा च सर्वसम्पदाम्
अवतारे च वाराहे वृषभानुसुता च या । यत्पादपद्मसंस्पर्शात्पवित्रा च वसुन्धरा
ब्रह्मादिभिरदृष्टा या सर्वैर्दृष्टा च भारते । स्त्रीरत्नसारसम्भूता कृष्णवक्षःस्थले स्थिता
यथाम्बरे नवघने लोला सौदामनी मुने । षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा
यत्पादपद्मनखरदृष्टये चात्मशुद्धये । न च दृष्टं च स्वप्नेऽपि प्रत्यक्षस्यापि का कथा
तेनैव तपसा दृष्टा भुवि वृन्दावने वने । कथिता पञ्चमी देवी सा राधा च प्रकीर्तिता
अंशरूपाः कलारूपाः कलांशांशांशसम्भवाः । प्रकृतेः प्रतिविश्वेषु देव्यश्च सर्वयोषितः
परिपूर्णतमाः पञ्च विद्यादेव्यः प्रकीर्तिताः । या याः प्रधानांशरूपा वर्णयामि निशामय
प्रधानांशस्वरूपा सा गङ्गा भुवनपावनी । विष्णुविग्रहसम्भूता द्रवरूपा सनातनी
पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिणी । सुखस्पर्शा स्नानपानैर्निर्वाणपददायिनी
गोलोकस्थानप्रस्थानसुखसोपानरूपिणी । पवित्ररूपा तीर्थानां सरितां च परावरा
शम्भुमौलिजटामेरुमुक्तापंक्तिस्वरूपिणी । तपःसम्पादिनी सद्यो भारतेषु तपस्विनाम्
चन्द्रपद्मक्षीरनिभा शुद्धसत्त्वस्वरूपिणी । निर्मला निरहङ्कारा साध्वी नारायणप्रिया
प्रधानांशस्वरूपा च तुलसी विष्णुकामिनी । विष्णुभूषणरूपा च विष्णुपादस्थिता सती
तपःसंकल्पपूजादिसङ्घसम्पादिनी मुने । सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा
दर्शनस्पर्शनाभ्यां च सद्यो निर्वाणदायिनी । कलौ कलुषशुष्केध्मदहनायाग्निरूपिणी