सर्वशक्तिस्वरूपा च शक्तिरीशस्य सन्ततम् । सिद्धेश्वरी सिद्धिरूपा सिद्धिदा सिद्धिरीश्वरी
बुद्धिर्निद्रा क्षुत्पिपासा छाया तन्द्रा दया स्मृतिः । जातिः क्षान्तिश्च भ्रान्तिश्च शान्तिः कान्तिश्च चेतना
तुष्टिः पुष्टिस्तथा लक्ष्मीर्धृतिर्माया तथैव च । सर्वशक्तिस्वरूपा सा कृष्णस्य परमात्मनः
उक्तः श्रुतौ श्रुतगुणश्चातिस्वल्पो यथागमम् । गुणोऽस्त्यनन्तोऽनन्ताया अपरां च निशामय
शुद्धसत्त्वस्वरूपा या पद्मा सा परमात्मनः । सर्वसम्पत्स्वरूपा सा तदधिष्ठातृदेवता
कान्तातिदान्ता शान्ता च सुशीला सर्वमङ्गला । लोभमोहकामरोषमदाहङ्कारवर्जिता
भक्तानुरक्ता पत्युश्च सर्वाभ्यश्च पतिव्रता । प्राणतुल्या भगवतः प्रेमपात्रं प्रियंवदा
सर्वसस्यात्मिका देवी जीवनोपायरूपिणी । महालक्ष्मीश्च वैकुण्ठे पतिसेवारता सती
स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु । गृहेषु गृहलक्ष्मीश्च मर्त्यानां गृहिणां तथा
सर्वप्राणिषु द्रव्येषु शोभारूपा मनोहरा । कीर्तिरूपा पुण्यवतां प्रभारूपा नृपेषु च
वाणिज्यरूपा वणिजां पापिनां कलहाङ्कुरा । दयारूपा च कथिता वेदोक्ता सर्वसम्मता
सर्वपूज्या सर्ववन्द्या चान्यां मत्तो निशामय । वाग्बुद्धिविद्याज्ञानाधिष्ठात्री च परमात्मनः
सर्वविद्यास्वरूपा या सा च देवी सरस्वती । सा बुद्धिः कविता मेधा प्रतिभा स्मृतिदा नृणाम्
नानाप्रकारसिद्धान्तभेदार्थकलना मता । व्याख्याबोधस्वरूपा च सर्वसन्देहभञ्जिनी
विचारकारिणी ग्रन्थकारिणी शक्तिरूपिणी । स्वरसङ्गीतसन्धानतालकारणरूपिणी
विषयज्ञानवाग्रूपा प्रतिविश्वोपजीविनी । व्याख्यावादकरी शान्ता वीणापुस्तकधारिणी
शुद्धसत्त्वस्वरूपा च सुशीला श्रीहरिप्रिया । हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभा
यजन्ती परमात्मानं श्रीकृष्णं रत्नमालया । तपःस्वरूपा तपसां फलदात्री तपस्विनाम्
सिद्धिविद्यास्वरूपा च सर्वसिद्धिप्रदा सदा । यया विना तु विप्रौघो मूको मृतसमः सदा
देवी तृतीया गदिता श्रुत्युक्ता जगदम्बिका । यथागमं यथाकिञ्चिदपरां त्वं निबोध मे
माता चतुर्णां वर्णानां वेदाङ्गानां च छन्दसाम् । सन्ध्यावन्दनमन्त्राणां तन्त्राणां च विचक्षणा
द्विजातिजातिरूपा च जपरूपा तपस्विनी । ब्रह्मण्यतेजोरूपा च सर्वसंस्काररूपिणी
पवित्ररूपा सावित्री गायत्री ब्रह्मणः प्रिया । तीर्थानि यस्याः संस्पर्शं वाञ्छन्ति ह्यात्मशुद्धये
शुद्धस्फटिकसंकाशा शुद्धसत्त्वस्वरूपिणी । परमानन्दरूपा च परमा च सनातनी
परब्रह्मस्वरूपा च निर्वाणपददायिनी । ब्रह्मतेजोमयी शक्तिस्तदधिष्ठातृदेवता
यत्पादरजसा पूतं जगत्सर्वं च नारद । देवी चतुर्थी कथिता पञ्चमीं वर्णयामि ते
पञ्चप्राणाधिदेवी या पञ्चप्राणस्वरूपिणी । प्राणाधिकप्रियतमा सर्वाभ्यः सुन्दरी परा
सर्वयुक्ता च सौभाग्यमानिनी गौरवान्विता । वामाङ्गार्धस्वरूपा च गुणेन तेजसा समा
परावरा सारभूता परमाद्या सनातनी । परमानन्दरूपा च धन्या मान्या च पूजिता
रासक्रीडाधिदेवी श्रीकृष्णस्य परमात्मनः । रासमण्डलसम्भूता रासमण्डलमण्डिता