एकदा कुंभयोनिस्तु लोपामुद्रापतिर्मुनिः । गत्वा कुमारमभ्यर्च्य पप्रच्छ विविधाः कथाः
स तस्मै भगवान्स्कन्दः कथयामास भूरिशः । दानतीर्थव्रतादीनां माहात्म्योपचिताः कथाः
वाराणस्याश्च माहात्म्यं मणिकर्णीभवं तथा । गंगायाश्चापि तीर्थानां वर्णितं बहुविस्तरम्
श्रुत्वाथ स मुनिः प्रीतः कुमारं भूरिवर्चसम् । पुनः पप्रच्छ लोकानां हितार्थं कुंभसंभवः
अगस्त्य उवाच। भगवंस्तारकाराते देवीभागवतस्य तु । माहात्म्यश्रवणे तस्य विधिं चापि वद प्रभो
देवीभागवतं नाम पुराणं परमोत्तमम् । त्रैलोक्यजननी साक्षाद्गीयते यत्र शाश्वती
स्कन्द उवाच। श्रीभागवतमाहात्म्यं को वक्तुं विस्तरात्क्षमः । शृणु संक्षेपतो ब्रह्मन्कथयिष्यामि सांप्रतम्
या नित्या सच्चिदानन्दरूपिणी जगदम्बिका । साक्षात्समाश्रिता यत्र भुक्तिमुक्तिप्रदायिनी
अतस्तद्वाङ्मयी मूर्तिर्देवीभागवते मुने । पठनाच्छ्रवणाद्यस्य न किंचिदिह दुर्लभम्
आसीद्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः । सोऽनपत्योऽकरोदिष्टिं वसिष्ठानुमतो नृपः
होतारं प्रार्थयामास श्रद्धाऽथ दयिता मनोः । कन्या भवतु मे ब्रह्मंस्तथोपायो विधीयताम्
मनसा चिन्तयन्होता कन्यामेवाजुहोद्धविः । ततस्तद्व्यभिचारेण कन्येला नाम चाभवत्
अथ राजा सुतां दृष्ट्वा प्रोवाच विमना गुरुम् । कथं सङ्कल्पवैषम्यमिह जातं प्रभो तव
तच्छ्रुत्वा स मुनिर्दध्यौ ज्ञात्वा होतुर्व्यतिक्रमम् । ईश्वरं शरणं यात इलायाः पुंस्त्वकाम्यया
मुनेस्तपःप्रभावाच्च परेशानुग्रहात्तथा । पश्यतां सर्वलोकानामिला पुरुषतामगात्
गुरुणा कृतसंस्कारः सुद्युम्नोऽथ मनोः सुतः । निधिर्बभूव विद्यानां सरितामिव सागरः
अथ कालेन सुद्युम्नस्तारुण्यं समवाप्य च । मृगयार्थं वनं यातो हयमारुह्य सैन्धवम्
वनाद्वनांतरं गच्छन्बहु बभ्राम सानुगः । दैवादधस्ताद्धेमाद्रेः स कुमारो वनं ययौ
कस्मिंश्चित्समये यत्र भार्ययाऽपर्णया सह । अरमद्देवदेवस्तु शङ्करो भगवान्मुदा
तदा तु मुनयस्तत्र शिवदर्शनलालसाः । आजग्मुरथ तान्दृष्ट्वा गिरिजा व्रीडिताऽभवत्
रममाणौ तु तौ दृष्ट्वा गिरिशौ संशितव्रताः । निवृत्ता मुनयो जग्मुर्वैकुण्ठनिलयं तदा
प्रियायाः प्रियमन्विच्छञ्छिवोऽरण्यं शशाप ह । अद्यारभ्य विशेद्योऽत्र पुमान् योषिद्भवेदिति
तत आरभ्य तं देशं पुरुषा वर्जयंति हि । तत्र प्रविष्टः सुद्युम्नो बभूव प्रमदोत्तमा
स्त्रीभूतानुगानश्वं वडवां वीक्ष्य विस्मितः । अथ सा सुन्दरी योषा विचचार वने वने
एकदा सा जगामाथ बुधस्याश्रमसन्निधौ । दृष्ट्वा तां चारुसर्वाङ्गीं पीनोन्नतपयोधराम्
बिंबोष्ठीं कुन्ददशनां सुमुखीमुत्पलेक्षणाम् । अनङ्गशरविद्धांगश्चकमे भगवान्बुधः
सापि तं चकमे सुभ्रूः कुमारं सोमनंदनम् । ततस्तस्याश्रमेऽवात्सीद्रममाणा बुधेन सा
अथ कालेन कियता पुरूरवसमात्मजम् । स तस्यां जनयामास मित्रावरुणसंभवः
अथ वर्षेषु यातेषु कदाचित्सा बुधाश्रमे । स्मृत्वा स्वं पूर्ववृत्तान्तं दुःखिता निर्जगाम ह
गुरोरथाश्रमं गत्वा वसिष्ठस्य प्रणम्य तम् । निवेद्य वृत्तं शरणं ययौ पुंस्त्वमभीप्सती