सर्वं समाचरेद्यस्तु पूजनं मधुकाह्वयम् । न तस्य रोगबाधादिभयमुद्भवतेऽनघ
अथान्यदपि वक्ष्यामि प्रकृतेः पञ्चकं परम् । नाम्ना रूपेण चोत्पत्त्या जगदानन्ददायकम्
साख्यानं च समाहात्म्यं प्रकृतेः पञ्चकं मुने । कुतूहलकर चैव शृणु मुक्तिविधायकम्
प्रकृतिचरित्रवर्णनम् श्रीनारायण उवाच गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती । सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता
नारद उवाच आविर्बभूव सा केन का वा सा ज्ञानिनांवर । किं वा तल्लक्षणं साधो बभूव पञ्चधा कथम्
सर्वासां चरितं पूजाविधानं गुण ईप्सितः । अवतारः कुत्र कस्यास्तन्मे व्याख्यातुमर्हसि
श्रीनारायण उवाच प्रकृतेर्लक्षणं वत्स को वा वक्तुं क्षमो भवेत् । किञ्चित्तथापि वक्ष्यामि यच्छ्रुतं धर्मवक्त्रतः
प्रकृष्टवाचकः प्रश्न कृतिश्च सृष्टिवाचकः । सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्तिता
गुणे सत्त्वे प्रकृष्टे च प्रशब्दो वर्तते श्रुतः । मध्यमे रजसि कृश्च तिशब्दस्तमसि स्मृतः
त्रिगुणात्मस्वरूपा या सा च शक्तिसमन्विता । प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते
प्रथमे वर्तते प्रश्न कृतिश्च सृष्टिवाचकः । सृष्टेरादौ च या देवी प्रकृतिः सा प्रकीर्तिता
योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव सः । पुमांश्च दक्षिणार्धाङ्गो वामार्धा प्रकृतिः स्मृता
सा च ब्रह्मस्वरूपा च नित्या सा च सनातनी । यथाऽऽत्मा च तथा शक्तिर्यथाग्नौ दाहिका स्थिता
अत एव हि योगीन्द्रैः स्त्रीपुम्भेदो न मन्यते । सर्वं ब्रह्ममयं ब्रह्मञ्छश्वत्सदपि नारद
स्वेच्छामयस्येच्छया च श्रीकृष्णस्य सिसृक्षया । साऽऽविर्बभूव सहसा मूलप्रकृतिरीश्वरी
तदाज्ञया पञ्चविधा सृष्टिकर्मविभेदिका । अथ भक्तानुरोधाद्वा भक्तानुग्रहविग्रहा
गणेशमाता दुर्गा या शिवरूपा शिवप्रिया । नारायणी विष्णुमाया पूर्णब्रह्मस्वरूपिणी
ब्रह्मादिदेवैर्मुनिभिर्मनुभिः पूजिता स्तुता । सर्वाधिष्ठातृदेवी सा शर्वरूपा सनातनी
धर्मसत्यपुण्यकीर्तिर्यशोमङ्गलदायिनी । सुखमोक्षहर्षदात्री शोकार्तिदुःखनाशिनी
शरणागतदीनार्तपरित्राणपरायणा । तेजःस्वरूपा परमा तदधिष्ठातृदेवता
सर्वशक्तिस्वरूपा च शक्तिरीशस्य सन्ततम् । सिद्धेश्वरी सिद्धिरूपा सिद्धिदा सिद्धिरीश्वरी
बुद्धिर्निद्रा क्षुत्पिपासा छाया तन्द्रा दया स्मृतिः । जातिः क्षान्तिश्च भ्रान्तिश्च शान्तिः कान्तिश्च चेतना
तुष्टिः पुष्टिस्तथा लक्ष्मीर्धृतिर्माया तथैव च । सर्वशक्तिस्वरूपा सा कृष्णस्य परमात्मनः
उक्तः श्रुतौ श्रुतगुणश्चातिस्वल्पो यथागमम् । गुणोऽस्त्यनन्तोऽनन्ताया अपरां च निशामय
शुद्धसत्त्वस्वरूपा या पद्मा सा परमात्मनः । सर्वसम्पत्स्वरूपा सा तदधिष्ठातृदेवता
कान्तातिदान्ता शान्ता च सुशीला सर्वमङ्गला । लोभमोहकामरोषमदाहङ्कारवर्जिता
भक्तानुरक्ता पत्युश्च सर्वाभ्यश्च पतिव्रता । प्राणतुल्या भगवतः प्रेमपात्रं प्रियंवदा
सर्वसस्यात्मिका देवी जीवनोपायरूपिणी । महालक्ष्मीश्च वैकुण्ठे पतिसेवारता सती
स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु । गृहेषु गृहलक्ष्मीश्च मर्त्यानां गृहिणां तथा
सर्वप्राणिषु द्रव्येषु शोभारूपा मनोहरा । कीर्तिरूपा पुण्यवतां प्रभारूपा नृपेषु च