पूजयेत्पञ्च खाद्यं च नैवेद्यमुपकल्पयेत् । एवं द्वादशमासेषु तृतीयातिथिषु क्रमात्
शुक्लपक्षे विधानेन नैवेद्यमभिदध्महे । वैशाखमासे नैवेद्यं गुडयुक्तं च नारद
ज्येष्ठमासे मधु प्रोक्तं देवीप्रीत्यर्थमेव तु । आषाढे नवनीतं च मधुकस्य निवेदनम्
श्रावणे दधि नैवेद्यं भाद्रमासे च शर्करा । आश्विने पायसं प्रोक्तं कार्तिके पय उत्तमम्
मार्गे फेण्युत्तमा प्रोक्ता पौषे च दधिकूर्चिका । माघे मासि च नैवेद्यं मृतं गव्यं समाहरेत्
नारिकेलं च नैवेद्यं फाल्गुने परिकीर्तितम् । एवं द्वादशनैवेद्यैर्मासे च क्रमतोऽर्चयेत्
मङ्गला वैष्णवी माया कालरात्रिर्दुरत्यया । महामाया मतङ्गी च काली कमलवासिनी
शिवा सहस्रचरणा सर्वमङ्गलरूपिणी । एभिर्नामपदैर्देवीं मधूके परिपूजयेत्
ततः स्तुवीत देवेशीं मधूकस्थां महेश्वरीम् । सर्वकामसमृद्ध्यर्थं व्रतपूर्णत्वसिद्धये
नमः पुष्करनेत्रायै जगद्धात्र्यै नमोऽस्तु ते । माहेश्वर्यं महादेव्यै महामङ्गलमूर्तये
परमा पापहन्त्री च परमार्गप्रदायिनी । परमेश्वरी प्रजोत्पत्तिः परब्रह्मस्वरूपिणी
मददात्री मदोन्मत्ता मानगम्या महोन्नता । मनस्विनी मुनिध्येया मार्तण्डसहचारिणी
जय लोकेश्वरि प्राज्ञे प्रलयाम्बुदसन्निभे । महामोहविनाशार्थं पूजितासि सुरासुरैः
यमलोकाभावकर्त्री यमपूज्या यमाग्रजा । यमनिग्रहरूपा च यजनीये नमो नमः
समस्वभावा सर्वेशी सर्वसङ्गविवर्जिता । सङ्गनाशकरी काम्यरूपा कारुण्यविग्रहा
कङ्कालक्रूरा कामाक्षी मीनाक्षी मर्मभेदिनी । माधुर्यरूपशीला च मधुरस्वरपूजिता
महामन्त्रवती मन्त्रगम्या मन्त्रप्रियङ्करी । मनुष्यमानसगमा मन्मथारिप्रियङ्करी
अश्वत्थवटनिम्बाम्रकपित्थबदरीगते । पनसार्ककरीरादिक्षीरवृक्षस्वरूपिणी
दुग्धवल्लीनिवासार्हे दयनीये दयाधिके । दाक्षिण्यकरुणारूपे जय सर्वज्ञवल्लभे
एवं स्तवेन देवेशीं पूजनान्ते स्तुवीत ताम् । व्रतस्य सकलं पुण्यं लभते सर्वदा नरः
नित्यं यः पठते स्तोत्रं देवीप्रीतिकरं नरः । आधिव्याधिभयं नास्ति रिपुभीतिर्न तस्य हि
अर्थार्थी चार्थमाप्नोति धर्मार्थी धर्ममाप्नुयात् । कामानवाप्नुयात्कामी मोक्षार्थी मोक्षमाजप्नुयात्
ब्राह्मणो वेदसम्पनो विजयी क्षत्रियो भवेत् । वैश्यश्च धनधान्याढ्यो भवेच्छूद्रः सुखाधिकः
स्तोत्रमेतच्छ्राद्धकाले यः पठेत्प्रयतो नरः । पितॄणामक्षया तृप्तिर्जायते कल्पवर्तिनी
एवमाराधनं देव्याः समुक्तं सुरपूजितम् । यः करोति नरो भक्त्या स देवीलोकभाग्भवेत्
देवीपूजनतो विप्र सर्वे कामा भवन्ति हि । सर्वपापहतिः शुद्धा मतिरन्ते प्रजायते
यत्र तत्र भवेत्पूज्यो मान्यो मानधनेषु च । जायते जगदम्बायाः प्रसादेन विरञ्चिज
नरकाणां न तस्यास्ति भयं स्वप्नेऽपि कुत्रचित् । महामायाप्रसादेन पुत्रपौत्रादिवर्धनः
देवीभक्तो भवत्येव नात्र कार्या विचारणा । इत्येवं ते समाख्यातं नरकोद्धारलक्षणम्
पूजनं हि महादेव्याः सर्वमङ्गलकारकम् । मधूकपूजनं तद्वन्मासानां क्रमतो मुने