द्वादश्यां पृथुकान्देव्यै दत्त्वाचार्याय यो ददेत् । तानेव च मुनिश्रेष्ठ स देवीप्रियतां व्रजेत्
त्रयोदश्यां च दुर्गायै चणकान्प्रददाति च । तानेव दत्त्वा विप्राय प्रजासन्ततिमान्भवेत्
चतुर्दश्यां च देवर्षे देव्यै सक्तून्प्रयच्छति । तानेव दद्याद्विप्राय शिवस्य दयितो भवेत्
पायसं पूर्णिमातिथ्यामपर्णायै प्रयच्छति । ददाति च द्विजाग्र्याय पितृनुद्धरतेऽखिलान्
तत्तिथौ हवनं प्रोक्तं देवीप्रीत्यै महामुने । तत्तत्तिथ्युक्तवस्तूनामशेषारिष्टनाशनम्
रविवारे पायसं च नैवेद्यं परिकीर्तितम् । सोमवारे पयः प्रोक्तं भौमे च कदलीफलम्
बुधवारे च सम्प्रोक्तं नवनीतं नवं द्विज । गुरुवारे शर्करां च सितां भार्गववासरे
शनिवारे घृतं गव्यं नैवेद्यं परिकीर्तितम् । सप्तविंशतिनक्षत्रनैवेद्यं श्रूयतां मुने
घृतं तिलं शर्करां च दधि दुग्धं किलाटकम् । दथिकूर्ची मोदकं च फेणिकां घृतमण्डकम्
कंसारं वटपत्रं च घृतपूरमतः परम् । वटकं कोकरसकं पूरणं मधु सूरणम्
गुडं पृथुकद्राक्षे च खर्जूरं चैव चारकम् । अपूपं नवनीतं च मुद्गं मोदक एव च
मातुलिङ्गमिति प्रोक्तं भनैवेद्यं च नारद । विष्कम्भादिषु योगेषु प्रवक्ष्यामि निवेदनम्
पदार्थानां कृतेष्वेषु प्रीणाति जगदम्बिका । गुडं मधु घृतं दुग्धं दधि तक्रं त्वपूपकम्
नवनीतं कर्कटीं च कूष्माण्डं चापि मोदकम् । पनसं कदलं जम्बुफलमाम्रफलं तिलम्
नारङ्गं दाडिमं चैव बदरीफलमेव च । धात्रीफलं पायसञ्च पृथुकं चणकं तथा
नारिकेलं जम्भफलं कसेरुं सूरणं तथा । एतानि क्रमशो विप्र नैवेद्यानि शुभानि च
विष्कम्भादिषु योगेषु निर्णीतानि मनीषिभिः । अथ नैवेद्यमाख्यास्ये करणानां पृथङ्मुने
कंसारं मण्डकं फेणी मोदकं वटपत्रकम् । लड्डुकं घृतपूरं च तिलं दधि घृतं मधु
करणानामिदं प्रोक्तं देवीनैवेद्यमादरात् । अथान्यत्सम्प्रवक्ष्यामि देवीप्रीतिकरं परम्
विधानं नारदमुने शृणु तत्सर्वमादृतः । चैत्रशुद्धतृतीयायां नरो मधुकवृक्षकम्
पूजयेत्पञ्च खाद्यं च नैवेद्यमुपकल्पयेत् । एवं द्वादशमासेषु तृतीयातिथिषु क्रमात्
शुक्लपक्षे विधानेन नैवेद्यमभिदध्महे । वैशाखमासे नैवेद्यं गुडयुक्तं च नारद
ज्येष्ठमासे मधु प्रोक्तं देवीप्रीत्यर्थमेव तु । आषाढे नवनीतं च मधुकस्य निवेदनम्
श्रावणे दधि नैवेद्यं भाद्रमासे च शर्करा । आश्विने पायसं प्रोक्तं कार्तिके पय उत्तमम्
मार्गे फेण्युत्तमा प्रोक्ता पौषे च दधिकूर्चिका । माघे मासि च नैवेद्यं मृतं गव्यं समाहरेत्
नारिकेलं च नैवेद्यं फाल्गुने परिकीर्तितम् । एवं द्वादशनैवेद्यैर्मासे च क्रमतोऽर्चयेत्
मङ्गला वैष्णवी माया कालरात्रिर्दुरत्यया । महामाया मतङ्गी च काली कमलवासिनी
शिवा सहस्रचरणा सर्वमङ्गलरूपिणी । एभिर्नामपदैर्देवीं मधूके परिपूजयेत्
ततः स्तुवीत देवेशीं मधूकस्थां महेश्वरीम् । सर्वकामसमृद्ध्यर्थं व्रतपूर्णत्वसिद्धये
नमः पुष्करनेत्रायै जगद्धात्र्यै नमोऽस्तु ते । माहेश्वर्यं महादेव्यै महामङ्गलमूर्तये