वह्निना द्रवमाणस्य नितरां ब्रह्मसम्भव । सम्भावनेन स्वस्यैव योऽधमोऽपि नराधमः
विद्याजन्मतपोवर्णाश्रमाचारवतो नरान् । वरीयसोऽपि न बहु मन्यते पुरुषाधमः
स नीयते यमभटैः क्षारकर्दमनामके । निरयेऽर्वाक्शिरा घोरा दुरन्तयातनाश्नुते
ये वै नरा यजन्त्यन्यं नरमेधेन मोहिताः । स्त्रियोऽपि वा नरपशुं खादन्त्यत्र महामुने
पशवो निहितास्ते तु यमसद्यनि सङ्गताः । सौनिका इव ते सर्वे विदार्य शितधारया
असृक्पिबन्ति नृत्यन्ति गायन्ति बहुधा मुने । यथेह मांसभोक्तारः पुरुषादा दुरासदाः
अनागसोऽपि येऽरण्ये ग्रामे वा ब्रह्मपुत्रक । वैश्रम्भकैरुपसृतान्विश्रम्भय्यजिजीविषून्
शूलसूत्रादिषु प्रोतान्क्रीडनोत्कारकानिव । पातयन्ति च ते प्रेत्य शूलपाते पतन्ति ह
शूलादिषु प्रोतदेहाः क्षुत्तृड्भ्यां चातिपीडिताः । तिग्मतुण्डैः कङ्कबकैरितश्चेतश्च ताडिताः
पीडिता आत्मशमलं बहुधा संस्मरन्ति हि । ये भूतानुद्वेजयन्ति नरा उल्बणवृत्तयः
यथा सर्पादिकास्तेऽपि नरके निपतन्ति हि । दन्दशूकाभिधाने च यत्रोत्तिष्ठन्ति सर्वतः
पञ्चाननः सप्तमुखा ग्रसन्ति नरकागतान् । यथा बिलेशया विप्र क्रूरबुद्धिसमन्विताः
येऽवटेषु कुसूलादिगुहादिषु निरुन्धते । तानमुत्रोद्यतकराः कीनाशपरिसेवकाः ॥ १९ तेष्वेवोपविशित्वा च सगरेण च वह्निना । धूमेन च निरुन्धन्ति पापकर्मरतान्नरान्
योऽतिथीन्समयप्राप्तान्दिधक्षुरिव चक्षुषा । पापेनेहालोकयेच्च स्वयं गृहपतिर्द्विजः
तस्यापि पापदृष्टेर्हि निरये यमकिङ्कराः । अक्षिणी वज्रतुण्डा ये कङ्काः काकवटादयः
गृध्राः क्रूरतराश्चापि प्रसह्योत्पाटयन्ति हि । य आढ्याभिमतिर्याति अहङ्कृत्यातिगर्वितः
तिर्यक्प्रेक्षण एवात्राभिविशङ्की नराधमः । चिन्तयार्थस्य सर्वत्रायतिव्ययस्वरूपया
शुष्यद्धृदयवक्त्रश्च निर्वृतिं नैव गच्छति । ग्रहवद्रक्षते चार्थं स प्रेतो यमकिङ्करैः
सूचीमुखे च नरके पात्यते निजकर्मणा । वित्तग्रहं च पुरुषं वायका इव याम्यकाः
किङ्कराः सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति हि । एते बहुविधा विप्र नरकाः पापकर्मणाम्
नराणां शतशः सन्ति यातनास्थानभूमयः । सहस्रशोऽपि देवर्षे उक्तानुक्तांस्तथापि हि
विशन्ति नरकानेतान्यातनाबहुलान्मुने । तथा धर्मपराश्चापि लोकान्यान्ति सुखोद्गतान्
स्वधर्मो बहुधा गीतो यथा तव महामुने । देवीपूजनरूपो हि देव्याराधनलक्षणः
येनानुष्ठितमात्रेण नरो न नरकं व्रजेत् । सा देवी भवपाथोधेरुद्धर्त्री पूजिता नृणाम्
देवीपूजनविधिनिरूपणम् नारद उवाच धर्मश्च कीदृशस्तात देव्याराधनलक्षणः । कथमाराधिता देवी सा ददाति परं पदम्
आराधनविधिः को वा कथमाराधिता कदा । केन सा दुर्गनरकाद्दुर्गा त्राणप्रदा भवेत्
श्रीनारायण उवाच देवर्षे शृणु चित्तैकाग्र्येण मे विदुषां वर । यथा प्रसीदते देवी धर्माराधनतः स्वयम्
स्वधर्मो यादृशः प्रोक्तस्तं च मे शृणु नारद । अनादाविह संसारे देवी सशृजिता स्वयम्
परिपालयते घोरसङ्कटादिषु सा मुने । सा देवी पूज्यते लोकैर्यथावत्तद्विधिं शृणु
प्रतिपत्तिथिमासाद्य देवीमाज्येन पूजयेत् । घृतं दद्याद् ब्राह्मणाय रोगहीनो भवेत्सदा