यस्तु संविहितैः पञ्चयज्ञैः काकैश्च संस्तुतः । अश्नाति चासंविभज्य यत्किंञ्चिदुपपद्यते
स पापपुरुषः क्रूरैर्याम्यैश्च कृमिभोजने । नरकाधमके दुष्टकर्मणा परिपात्यते
लक्षयोजनविस्तीर्णे कृमिकुण्डे भयङ्करे । कृमिरूपं समासाद्य भक्ष्यमाणश्च तैः स्वयम्
अप्रत्ताप्रहुतादो यः पातमाप्नोति तत्र वै । यस्तु स्तेयेन च बलाद्धिरण्यं रत्नमेव च
ब्राह्मणस्यापहरति अन्यस्यापि च कस्यचित् । अनापदि च देवर्षे तममुत्र यमानुगाः
अयस्मयैरग्निपिण्डैः सदृशैर्नित्कुषन्ति च । योऽगम्यां योषितं गच्छेदगम्यं पुरुषं च या
तावमुत्रापि कशया ताडयन्तो यमानुगाः । तिग्मया लोहमय्या च सूर्म्याप्यालिङ्गयन्ति तम्
तां चापि योषितं सूर्म्यालिङ्गयन्ति यमानुगाः । यस्तु सर्वाभिगमनः पुरुषः पापसञ्चयी
निरयेऽमुत्र तं याम्याः शाल्मलीं रोपयन्ति तम् । वज्रकण्टकसंयुक्तां शाल्मलीं तामयस्मयीम्
राजन्या राजपुरुषा ये वा पाखण्डवर्तिनः । धर्मसेतुं विभिन्दन्ति ते परेत्य गता नराः
वैतरण्यां पतन्त्येव भिन्नमर्यादपातकाः । नद्यां निरयदुर्गस्य परिखायां च नारद
यादोगणैः समन्तात्तु भक्ष्यमाणा इतस्ततः । नात्मना वियुजन्त्येव नासुभिश्चापि नारद
स्वीयेन कर्मपाकेनोपतपन्ति च सर्वतः । विण्मूत्रपूयरक्तैश्च केशास्थिनखमांसकैः
मेदोवसासंयुतायां नद्यामुपपतन्ति ते । वृषलीपतयो ये च नष्टशौचा गतत्रपाः
आचारनियमैस्त्यक्ताः पशुचर्यापरायणाः । तेऽत्रानुकष्टगतयो विण्मूत्रश्लेष्मरक्तकैः
श्लेष्ममलसमापूर्णे निपतन्ति दुराग्रहाः । तदेव खादयन्त्येतान्यमानुचरवर्गकाः
ये श्वानगर्दभादीनां पतयो वै द्विजातयः । मृगयारसिका नित्यमतीर्थे मृगघातकाः
परेतांस्तान्यमभटा लक्षीभूतान्नराधमान् । इषुभिश्च विभिन्दन्ति तांस्तान्दुर्नयमागतान्
ये दम्भा दम्भयज्ञेषु पशून्घ्नन्ति नराधमाः । तानमुष्मिन्यमभटा नरके वैशसे तदा
निपात्य पीडयन्त्येव कशाघातैर्दुरासदैः । यो भार्यां च सवर्णां वै द्विजो मदनमोहितः
रेतः पाययति मूढोऽमुत्र तं यमकिङ्कराः । रेतःकुण्डे पातयन्ति रेतः सम्पाययन्ति च
ये दस्यवोऽग्निदाश्चैव गरदा सार्थघातकाः । ग्रामान्सार्थान्विलुम्पन्ति राजानो राजपूरुषाः
तान्परेतान्यमभटा नयन्ति श्वानकादनम् । विंशत्यथिकसंख्याताः सारमेया महाद्भुताः
सप्तशत्या समाख्याता रभसं खादयन्ति ते । सारमेयादनं नाम नरकं दारुणं मुने । अतः परं प्रवक्ष्यामि अवीचिप्रभुखान्मुने
अवशिष्टनरकवर्णनम् श्रीनारायण उवाच ये नराः सर्वदा साक्ष्ये अनृतं भाषयन्ति च । दाने विनिमयेऽर्थस्य देवर्षे पापबुद्धयः
ते प्रेत्यामुत्र नरके अवीच्याख्येऽतिदारुणे । योजनानां शतोच्छ्रायाद्गिरिमूर्ध्नः पतन्ति हि
अनाकाशेऽधःशिरसस्तदवीचीतिनामके । यत्र स्थलं दृश्यते च जलवद्वीचिसंयुतम्
अवीचिमत्ततस्तत्र तिलशश्छिन्नविग्रहः । म्रियते नैव देवर्षे पुनरेवाऽवरोप्यते
यो वा द्विजो वा राजन्यो वैश्यो वा ब्रह्मसम्भव । सोमपीथस्तत्कलत्रं सुरां वा पिबतीव हि
प्रमादतस्तु तेषां वै निरये परिपातनम् । कुर्वन्ति यमदूतास्ते पानं कार्ष्णायसो मुने