पुष्णाति प्रत्यहं स्वीयं कुटुम्बं कार्यलम्पटः । एतद्विहाय चात्रैव स्वाशुभेन पतेदिह
रौरवे नाम नरके सर्वसत्त्वभयावहे । इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा
त एव रुरवो भूत्वा परत्र पीडयन्ति तम् । तस्माद्रौरवमित्याहुः पुराणज्ञा मनीषिणः
रुरुः सर्पादतिक्रूरो जन्तुरुक्तः पुरातनैः । एवं महारौरवाख्यो नरको यत्र पूरुषः
यातनां प्राप्यमाणो हि यः परं देहसम्भवः । क्रव्यादा नाम रुरवस्तं क्रव्ये घातयन्ति च
य उग्रः पुरुषः क्रूरः पशुपक्षिगणानपि । उपरन्धयते मूढो याम्यास्तं रन्धयन्ति च
कुम्भीपाके तप्ततैले उपर्यपि च नारद । यावन्ति पशुरोमाणि तावद्वर्षसहस्रकम्
पितृविप्रब्राह्मणध्रुक्कालसूत्रे स नारके । अग्न्यर्काभ्यां तप्यमाने नारकी विनिवेशितः
क्षुत्पिपासादह्यमानोऽन्तःशरीरस्तथा बहिः । आस्ते शेते चेष्टते चावतिष्ठति च धावति
निजवेदपथाद्यो वै पाखण्डं चोपयाति च । अनापद्यपि देवर्षे तं पापं पुरुषं भटाः
असिपत्रवनं नाम नरकं वेशयन्ति च । कशया प्रहरन्त्येव नारकी तद्गतस्तदा
इतस्ततो धावमान उत्तालमतिवेगतः । असिपत्रैश्छिद्यमान उभयत्र च धारभिः
संछिद्यमानसर्वाङ्गो हाहतोऽस्मीति मूर्च्छितः । वेदनां परमां प्राप्तः पतत्येव पदे पदे
स्वधर्मानुगतं भुङ्क्ते पाखण्डफलमल्पधीः । यो राजा राजपुरुषो दण्डयेद्वै त्वधर्मतः
द्विजे शरीरदण्डं च पापीयान्नारकी च सः । नरके सूकरमुखे पात्यते यमकिङ्करैः
विनिष्यिष्टावयवको बलवद्भिस्तथेक्षुवत् । आर्तस्वरेण स्वनयन्मूर्च्छितः कश्मलङ्गतः
स पीड्यमानो बहुधा वेदनां यात्यतीव हि । विविक्तपरपीडो योऽप्यविविक्तपरव्यथाम्
ईश्वराङ्कितवृत्तीनां व्यथामाचरते स्वयम् । स चान्धकूपे पतति तदभिद्रोहयन्त्रिते
तत्रासौ जन्तुभिः क्रूरैः पशुभिर्मृगपक्षिभिः । सरीसृपैश्च मशकैर्यूकामत्कुणजातिभिः
मक्षिकाभिश्च तमसि दन्दशूकैश्च पीड्यते । परिक्रामति चैवात्र कुशरीरे च जन्तुवत्
यस्तु संविहितैः पञ्चयज्ञैः काकैश्च संस्तुतः । अश्नाति चासंविभज्य यत्किंञ्चिदुपपद्यते
स पापपुरुषः क्रूरैर्याम्यैश्च कृमिभोजने । नरकाधमके दुष्टकर्मणा परिपात्यते
लक्षयोजनविस्तीर्णे कृमिकुण्डे भयङ्करे । कृमिरूपं समासाद्य भक्ष्यमाणश्च तैः स्वयम्
अप्रत्ताप्रहुतादो यः पातमाप्नोति तत्र वै । यस्तु स्तेयेन च बलाद्धिरण्यं रत्नमेव च
ब्राह्मणस्यापहरति अन्यस्यापि च कस्यचित् । अनापदि च देवर्षे तममुत्र यमानुगाः
अयस्मयैरग्निपिण्डैः सदृशैर्नित्कुषन्ति च । योऽगम्यां योषितं गच्छेदगम्यं पुरुषं च या
तावमुत्रापि कशया ताडयन्तो यमानुगाः । तिग्मया लोहमय्या च सूर्म्याप्यालिङ्गयन्ति तम्
तां चापि योषितं सूर्म्यालिङ्गयन्ति यमानुगाः । यस्तु सर्वाभिगमनः पुरुषः पापसञ्चयी
निरयेऽमुत्र तं याम्याः शाल्मलीं रोपयन्ति तम् । वज्रकण्टकसंयुक्तां शाल्मलीं तामयस्मयीम्
राजन्या राजपुरुषा ये वा पाखण्डवर्तिनः । धर्मसेतुं विभिन्दन्ति ते परेत्य गता नराः