वसन्ति यस्यां स्वीयानां गोत्राणां परमाशिषः । सत्याः समाधिना शीघ्रं त्वाशासानाः परेण वै
पितृराजोऽपि भगवान् सम्परेतेषु जन्तुषु । विषयं प्रापितेष्वेषु स्वकीयैः पुरुषैरिह
सगणो भगवत्प्रोक्ताज्ञापरो दमधारकः । यथाकर्म यथादोषं विदधाति विचारदृक्
स्वान्गणान्धर्मतत्त्वज्ञान्सर्वानाज्ञाप्रवर्तकान् । सदा प्रेरयति प्राज्ञो यथादेशनियोजितान्
नरकानेकविंशत्या संख्यया वर्णयन्ति हि । अष्टाविंशमितान्केचित्ताननुक्रमतो ब्रुवे
तामिस्र अन्धतामिस्रो रौरवोऽपि तृतीयकः । महारौरवनामा च कुम्भीपाकोऽपरो मतः
कालसूत्रं तथा चासिपत्रारण्यमुदाहृतम् । सूकरस्य मुखं चान्धकूपोऽथ कृमिभोजनः
संदंशस्तप्तमूर्तिश्च वज्रकण्टक एव च । शाल्मली चाथ देवर्षे नाम्ना वैरतणी तथा
पूयोदः प्राणरोधश्च तथा विशसनं मतम् । लालाभक्षः सारमेयादनमुक्तमतः परम्
अवीचिरप्ययः पानं क्षारकर्दम एव च । रक्षोगणाख्यसम्भोजः शूलप्रोतोऽप्यतः परम्
दन्दशूकोऽवटारोधः पर्यावर्तनकः परम् । सूचीमुखमिति प्रोक्ता अष्टाविंशतिनारकाः
इत्येते नारका नाम यातनाभूमयः पराः । कर्मभिश्चापि भूतानां गम्याः पद्मजसम्भव
नरकप्रदपातकवर्णनम् नारद उवाच कर्मभेदाः कतिविधाः सनातनमुने मम । श्रोतव्याः सर्वथैवैते यातनाप्राप्तिभूमयः
श्रीनारायण उवाच यो वै परस्य वित्तानि दारापत्यानि चैव हि । हरते स हि दुष्टात्मा यमानुचरगोचरः
कालपाशेन सम्बद्धो याम्यैरतिभयानकैः । तामिस्रनामनरके पात्यते यातनास्पदे
ताडनं दण्डनं चैव सन्तर्जनमतः परम् । याम्याः कुर्वन्ति पाशाढ्याः कश्मलं याति चैव हि
मूर्च्छामायाति विवशो नारकी पद्मभूसुत । यः पतिं वञ्चयित्वा तु दारादीनुपभुज्यति
अन्धतामिस्रनरके पात्यते यमकिङ्करैः । पात्यमानो यत्र जन्तुर्वेदनापरवान्भवेत्
नष्टदृष्टिर्नष्टमतिर्भवत्येवाविलम्बतः । वनस्पतिर्भज्यमानमूलो यद्वद्भवेदिह
तस्मादप्यन्धतामिस्रनाम्ना प्रोक्तः पुरातनैः । एतन्ममाहमिति यो भूतद्रोहेण केवलम्
पुष्णाति प्रत्यहं स्वीयं कुटुम्बं कार्यलम्पटः । एतद्विहाय चात्रैव स्वाशुभेन पतेदिह
रौरवे नाम नरके सर्वसत्त्वभयावहे । इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा
त एव रुरवो भूत्वा परत्र पीडयन्ति तम् । तस्माद्रौरवमित्याहुः पुराणज्ञा मनीषिणः
रुरुः सर्पादतिक्रूरो जन्तुरुक्तः पुरातनैः । एवं महारौरवाख्यो नरको यत्र पूरुषः
यातनां प्राप्यमाणो हि यः परं देहसम्भवः । क्रव्यादा नाम रुरवस्तं क्रव्ये घातयन्ति च
य उग्रः पुरुषः क्रूरः पशुपक्षिगणानपि । उपरन्धयते मूढो याम्यास्तं रन्धयन्ति च
कुम्भीपाके तप्ततैले उपर्यपि च नारद । यावन्ति पशुरोमाणि तावद्वर्षसहस्रकम्
पितृविप्रब्राह्मणध्रुक्कालसूत्रे स नारके । अग्न्यर्काभ्यां तप्यमाने नारकी विनिवेशितः
क्षुत्पिपासादह्यमानोऽन्तःशरीरस्तथा बहिः । आस्ते शेते चेष्टते चावतिष्ठति च धावति
निजवेदपथाद्यो वै पाखण्डं चोपयाति च । अनापद्यपि देवर्षे तं पापं पुरुषं भटाः