अनारतमदोन्मत्तलोकविह्वललोचनः । वाक्यामृतेन विबुधान्स्वपार्षदगणानपि
आप्यायमानः स विभुर्वैजयन्तीं स्रजं दधत् । अम्लानाभिनवैः स्वच्छैस्तुलसीदलसञ्चयैः
माद्यन्मधुकरव्रातघोषश्रीसंयुतां सदा । नीलवासा देवदेव एककुण्डलभूषितः
हलस्य ककुदि न्यस्तसुपीवरभुजोऽव्ययः । महेन्द्रः काञ्चनीं यद्वद्वरत्रां च मतङ्गमः । उदारलीलो देवेशो वर्णितः सात्त्वतर्षभैः
नरकस्वरूपवर्णनम् श्रीनारायण उवाच तस्यानुभावं भगवान् ब्रह्मपुत्रः सनातनः । सभायां ब्रह्मदेवस्य गायमान उपासते
उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः सत्त्वाद्याः प्रकृतिगुणा यदीक्षयाऽऽसन् । यद्रूपं ध्रुवमकृतं यदेकमात्मन्- नानाधात्कथमुह वेद तस्य वर्त्म
मूर्तिं नः पुरुकृपया बभार सत्त्वं संशुद्धं सदसदिदं विभाति यत्र । यल्लीलां मृगपतिराददेऽनवद्या- मादातुं स्वजनमनांस्युदारवीर्यः
यन्नाम श्रुतमनुकीर्तयेदकस्मा- दार्तो वा यदि पतितः प्रलम्भनाद्वा । हन्त्यंहः सपदि नृणामशेषमन्यं कं शेषाद्भगवत आश्रयेत्युमुक्षुः
मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो भूगोलं सगिरिसरित्समुद्रसत्त्वम् । आनन्त्यादनमितविक्रमस्य भूम्नः को वीर्याण्यधिगणयेत्सहस्रजिह्वः
एवंप्रभावो भगवाननन्तो दुरन्तवीर्योरुगुणानुभावः । मूले रसायाः स्थित आत्मतन्त्रो यो लीलया क्ष्मां स्थितये बिभर्ति
एता ह्येवेह तु नृभिर्गतयो मुनिसत्तम । गन्तव्या बहुशो यद्वद्यथाकर्मविनिर्मिताः
यथोपदेशं च कामान्सदा कामयमानकैः । एतावतीर्हि राजेन्द्र मनुष्यमृगपक्षिषु
विपाकगतयः प्रोक्ता धर्मस्य वशगास्तथा । उच्चावचा विसदृशा यथाप्रश्नं निबोधत
नारद उवाच वैचित्र्यमेतल्लोकस्य कथं भगवता कृतम् । समानत्वे कर्मणां च तन्नो ब्रूहि यथातथम्
श्रीनारायण उवाच कर्तुः श्रद्धावशादेव गतयोऽपि पृथग्विधाः । त्रिगुणत्वात्सदा तासां फलं विसदृशं त्विह
सात्त्विक्या श्रद्धया कर्तुः सुखित्वं जायते सदा । दुःखित्वं च तथा कर्तू राजस्या श्रद्धया भवेत्
दुःखित्वं चैव मूढत्वं तामस्या श्रद्धयोदितम् । तारतम्यात्तु श्रद्धानां फलवैचित्र्यमीरितम्
अनाद्यविद्याविहितकर्मणां परिणामजाः । सहस्रशः प्रवृत्तास्तु गतयो द्विजपुङ्गव
तद्भेदान्वर्णयिष्यामि प्राचुर्येण द्विजोत्तम । त्रिजगत्या अन्तराले दक्षिणस्यां दिशीह वै
भूमेरधस्तादुपरि त्वतलस्य च नारद । अग्निष्वात्ताः पितृगणा वर्तन्ते पितरश्च ह
वसन्ति यस्यां स्वीयानां गोत्राणां परमाशिषः । सत्याः समाधिना शीघ्रं त्वाशासानाः परेण वै
पितृराजोऽपि भगवान् सम्परेतेषु जन्तुषु । विषयं प्रापितेष्वेषु स्वकीयैः पुरुषैरिह
सगणो भगवत्प्रोक्ताज्ञापरो दमधारकः । यथाकर्म यथादोषं विदधाति विचारदृक्
स्वान्गणान्धर्मतत्त्वज्ञान्सर्वानाज्ञाप्रवर्तकान् । सदा प्रेरयति प्राज्ञो यथादेशनियोजितान्
नरकानेकविंशत्या संख्यया वर्णयन्ति हि । अष्टाविंशमितान्केचित्ताननुक्रमतो ब्रुवे
तामिस्र अन्धतामिस्रो रौरवोऽपि तृतीयकः । महारौरवनामा च कुम्भीपाकोऽपरो मतः
कालसूत्रं तथा चासिपत्रारण्यमुदाहृतम् । सूकरस्य मुखं चान्धकूपोऽथ कृमिभोजनः
संदंशस्तप्तमूर्तिश्च वज्रकण्टक एव च । शाल्मली चाथ देवर्षे नाम्ना वैरतणी तथा
पूयोदः प्राणरोधश्च तथा विशसनं मतम् । लालाभक्षः सारमेयादनमुक्तमतः परम्
अवीचिरप्ययः पानं क्षारकर्दम एव च । रक्षोगणाख्यसम्भोजः शूलप्रोतोऽप्यतः परम्