आस्से ध्यानपरो नित्यमृणग्रस्त इवाधनः । का चिन्ता वर्तते पुत्र मयि ताते तु तिष्ठति
सुखं भुंक्ष्व यथाकामं मुञ्च शोकं मनोगतम् । ज्ञानं चिन्तय शास्त्रोक्तं विज्ञाने च मतिं कुरु
न चेन्मनसि ते शान्तिर्वचसा मम सुव्रत । गच्छ त्वं मिथिलां पुत्र पालितां जनकेन ह
स ते मोहं महाभाग नाशयिष्यति भूपतिः । जनको नाम धर्मात्मा विदेहः सत्यसागरः
तं गत्वा नृपतिं पुत्र सन्देहं स्वं निवर्तय । वर्णाश्रमाणां धर्मांस्त्वं पृच्छ पुत्र यथातथम्
जीवन्मुक्तः स राजर्षिर्बह्मज्ञानमतिः शुचिः । तथ्यवक्तातिशान्तश्च योगी योगप्रियः सदा
सूत उवाच तच्छ्रुत्वा वचनं तस्य व्यासस्यामिततेजसः । प्रत्युवाच महातेजाः शुकश्चारणिसम्भवः
दम्भोऽयं किल धर्मात्मन्भाति चित्ते ममाधुना । जीवन्मुक्तो विदेहश्च राज्यं शास्ति मुदान्वितः
वन्ध्यापुत्र इवाभाति राजासौ जनकः पितः । कुर्वन् राज्यं विदेहः किं सन्देहोऽयं ममाद्भुतः
द्रष्टुमिच्छाम्यहं भूपं विदेहं नृपसत्तमम् । कथं तिष्ठति संसारे पद्मपत्रमिवाम्भसि
सन्देहोऽयं महांस्तात विदेहे परिवर्तते । मोक्षः किं वदतां श्रेष्ठ सौगतानामिवापरः
कथं भुक्तमभुक्तं स्यादकृतं च कृतं कथम् । व्यवहारः कथं त्याज्य इन्द्रियाणां महामते
माता पुत्रस्तथा भार्या भगिनी कुलटा तथा । भेदाभेदः कथं न स्याद्यद्येतन्मुक्तता कथम्
कटु क्षारं तथा तीक्ष्णां कषायं मिष्टमेव च । रसना यदि जानाति भुंक्ते भोगाननुत्तमान्
शीतोष्णुसुखदुःखादिपरिज्ञानं यदा भवेत् । मुक्तता कीदृशी तात सन्देहोऽयं ममाद्भुतः
शत्रुमित्रपरिज्ञानं वैरं प्रीतिकरं सदा । व्यवहारे परे तिष्ठन्कथं न कुरुते नृपः
चौरं वा तापसं वापि समानं मन्यते कथम् । असमा यदि बुद्धिः स्यान्मुक्तता तर्हि कीदृशी
दृष्टपूर्वो न मे कश्चिज्जीवन्मुक्तश्च भूपतिः । शङ्केयं महती तात गृहे मुक्तः कथं नृपः
दिदृक्षा महती जाता श्रुत्वा तं भूपतिं तथा । सन्देहविनिवृत्त्यर्थं गच्छामि मिथिलां प्रति
शुकस्य राजमन्दिरप्रवेशवर्णनम् सूत उवाच इत्युक्त्वा पितरं पुत्रः पादयोः पतितः शुकः । बद्धाञ्जलिरुवाचेदं गन्तुकामो महामनाः
आपृच्छे त्वां महाभाग ग्राह्यं ते वचनं मया । विदेहान्द्रष्टुमिच्छामि पालिताञ्जनकेन तु
विना दण्डं कथं राज्यं करोति जनकः किल । धर्मे न वर्तते लोको दण्डश्चेन्न भवेद्यदि
धर्मस्य कारणं दण्डो मन्वादिप्रहितः सदा । स कथं वर्तते तात संशयोऽयं महान्मम
मम माता त्वियं वन्ध्या तद्वद्भाति विचेष्टितम् । पृच्छामि त्वां महाभाग गच्छामि च परन्तप
सूत उवाच तं दृष्ट्वा गन्तुकामं च शुकं सत्यवतीसुतः । आलिङ्ग्योवाच पुत्रं तं ज्ञानिनं निःस्पृहं दृढम्
व्यास उवाच स्वस्त्यस्तु शक दीर्घायुर्भव पुत्र महामते । सत्यां वाचं प्रदत्त्वा मे गच्छ तात यथासुखम्
आगन्तव्यं पुनर्गत्वा ममाश्रममनुत्तमम् । न कुत्रापि च गन्तव्यं त्वया पुत्र कथञ्चन
सुखं जीवामि पुत्राहं दृष्ट्वा ते मुखपङ्कजम् । अपश्यन्दुःखमाप्नोमि प्राणस्त्वमसि मे सुत
दृष्ट्वा त्वं जनकं पुत्र सन्देहं विनिवर्त्य च । अत्रागत्य सुखं तिष्ठ वेदाध्ययनतत्परः
सूत उवाच इत्युक्तः सोऽभिवाद्यार्यं कृत्वा चैव प्रदक्षिणाम् । चलितस्तरसातीव धनुर्मुक्तः शरो यथा