ततोऽधस्तास्तुविख्यातं महातलमिति स्फुटम् । सर्पाणां काद्रवेयाणां गणः क्रोधवशो महान्
अनेकशिरसां विप्र प्रधानान्कीर्तयामि ते । कुहकस्तक्षकश्चैव सुषेणः कालियस्तथा
महाभोगा महासत्त्वाः क्रूराः क्रूरस्वजातयः । पतत्रिराजाधिपतेरुद्विग्नाः सर्व एव ते
स्वकलत्रापत्यसुहृत्कुटुम्बस्य च सङ्गताः । प्रमत्ता विहरन्त्येव नानाक्रीडाविशारदाः
ततोऽधस्ताच्च विवरे रसातलसमाह्वये । दैतेया निवसन्त्येव पणयो दानवाश्च ये
निवातकवचा नाम हिरण्यपुरवासिनः । कालेया इति च प्रोक्ताः प्रत्यनीका हविर्भुजाम्
महौजसश्चोत्पत्त्यैव महासाहसिनस्तथा । सकलेशस्य च हरेस्तेजसा हतविक्रमाः
बिलेशया इव सदा विवरे निवसन्ति हि । ये वै वाग्भिः सरमया शक्रदूत्या निरन्तरम्
मन्त्रवर्णाभिरसुरास्ताडिता बिभ्यति स्म ह । ततोऽप्यधस्तात्पाताले नागलोकाधिपालकाः
वासुकिप्रमुखाः शङ्खः कुलिकः श्वेत एव च । धनञ्जयो महाशङ्खो धृतराष्ट्रस्तथैव च
शङ्खचूडः कम्बलाश्वतरो देवोपदत्तकः । महामर्षा महाभोगा निवसन्ति विषोल्बणाः
पञ्चमस्तकवन्तश्च फणासप्तकभूषिताः । केचिद्दशफणाः केचिच्छतशीर्षास्तथापरे
सहस्रशिरसः केऽपि रोचिष्णुमणिधारकाः । पातालरन्ध्रतिमिरनिकरं स्वमरीचिभिः
विधमन्ति च देवर्षे सदा सञ्जातमन्यवः । अस्य मूलप्रदेशे हि त्रिंशत्साहस्रकेऽन्तरे
योजनैः परिसंख्याते तामसी भगवत्कला । अनन्ताख्या समास्ते हि सर्वदेवप्रपूजिता
अहमित्यभिमानस्य लक्षणं यं प्रचक्षते । सङ्कर्षणं सात्वतीयाः कर्षणं द्रष्ट्टदृश्ययोः
इदं भूमण्डलं यस्य सहस्रशिरसः प्रभोः । अनन्तमूर्तेः शेषस्य ध्रियमाणं च शीर्षके
पृध्वीगोलमशेषं हि सिद्धार्थ इव लक्ष्यते । यस्य कालेन देवस्य सञ्जिहीर्षोः समं विभोः
चराचरं भ्रुवोरन्तर्विवरादुदपद्यत । साङ्कर्षणो नाम रुद्रो व्यूहैकादशशोभितः
त्रिलोचनश्च त्रिशिखं शूलमुत्तम्भयन्स्वयम् । उदतिष्ठन्महासत्त्वो महाभूतक्षयङ्करः
यस्याङ्घ्रिकमलद्वन्द्वशोणाच्छनखमण्डले । विराजन्मणिबिम्बेषु महाहिपतयोऽनिशम्
एकान्तभक्तियोगेन सह सात्त्वतपुङ्गवैः । प्रणमन्तः स्वमूर्ध्ना ते स्वमुखानि समीक्षते
स्फुरत्कुण्डलमाणिक्यप्रभामण्डलभाञ्ज्यपि । सुकपोलानि चारूणि गण्डस्थलद्युमन्ति च
नागराजकुमार्योऽपि चार्वङ्गविलसत्त्विषः । विशदैर्विपुलैस्तद्वद्धवलैः सुभगैस्तथा
रुचिरैर्भुजदण्डैश्च शोभमाना इतस्ततः । चन्दनागुरुकाश्मीरपङ्कलेपेन भूषिताः
तदभिमर्षसञ्जातकामावेशसमायुताः । ललितस्मितसंयुक्ताः सव्रीडं लोकयन्ति च
अनुरागमदोन्मत्तविघूर्णारुणलोचनम् । करुणावलोकनेत्रं च आशासानास्तथाशिषः
सोऽनन्तो भगवान्देवोऽनन्तसत्त्वो महाशयः । अनन्तगुणवार्धिश्च आदिदेवो महाद्युतिः
संहृतामर्षरोषादिवेगो लोकशुभाय च । आस्ते महासत्त्वनिधिः सर्वदेवप्रपूजितः
ध्यायमानः सुरैः सिद्धैरसुरैश्चोरगैस्तथा । विद्याधरैश्च गन्धर्वैर्मुनिसङ्घैश्च नित्यशः