तमेव देवदेवेशमाराधयति भक्तितः । व्यपेतसाध्वसोऽद्यापि वर्तते सुतलाधिपः
भूमिदानफलं ह्येतत्पात्रभूतेऽखिलेश्वरे । वर्णयन्ति महात्मानो नैतद्युक्तं च नारद
वासुदेवे भगवति पुरुषार्थप्रदे हरौ । एतद्दानफलं विप्र सर्वथा नहि युज्यते
यस्यैव देवदेवस्य नामापि विवशो गृणन् । स्वकीयकर्मबन्धीयगुणान्विधुनुतेऽञ्जसा
यत्क्लेशबन्धहानाय सांख्ययोगादिसाधनम् । कुर्वते यतयो नित्यं भगवत्यखिलेश्वरे
न चायं भगवानस्माननुजग्राह नारद । मायामयं च भोगानामैश्वर्यं व्यतनोत्परम्
सर्वक्लेशाधिहेतुं तदात्मानुस्मृतिमोषणम् । यं साक्षाद्भगवान् विष्णुः सर्वोपायविदीश्वरः
याञ्जाछलेनापहृतं सर्वस्वं देहशेषकम् । अप्राप्तान्योपाय ईशः पाशैर्वारुणसंभवैः
बन्धयित्वावमुच्यापि गिरिदर्यामिवाब्रवीत् । असाविन्द्रो महामूढो यस्य मन्त्री बृहस्पतिः
प्रसन्नमिममत्यर्थमयाचल्लोकसम्पदम् । त्रैलोक्यमिदमैश्वर्यं कियदेवातितुच्छकम्
आशिषां प्रभवं मुक्त्वा यो मूढो लोकसम्पदि । अस्मत्पितामहः श्रीमान् प्रह्लादो भगवत्प्रियः
दास्यं वव्रे विभोस्तस्य सर्वलोकोपकारकः । पित्र्यमैश्वर्यमतुलं दीयमानं च विष्णुना
पितर्युपरते वीरे नैवैच्छद्भगवत्प्रियः । तस्यातुलानुभावस्य सर्वलोकोपधीमतः
अस्मद्विधो नाल्पपक्वेतरदोषोऽवगच्छति । एवं दैत्यपतिः सोऽयं बलिः परमपूजितः
सुतले वर्तते यस्य द्वारपालो हरिः स्वयम् । एकदा दिग्विजये राजा रावणो लोकरावणः
प्रविशन्सुतले येन भक्तानुग्रहकारिणा । पादाङ्गुष्ठेन प्रक्षिप्तो योजनायुतमत्र हि
एवंभूतानुभावोऽयं बलिः सर्वसुखैकभुक् । आस्ते सुतलराजस्थो देवदेवप्रसादतः
तलातलादिलोकवर्णनेऽनन्तवर्णनम् श्रीनारायण उवाच ततोऽधस्ताद्विवरकं तलातलमुदीरितम् । दानवेन्द्रो मयो नाम त्रिपुराधिपतिर्महान्
त्रिलोक्याः शङ्करेणायं पालितो दग्धपूस्त्रयः । देवदेवप्रसादात्तु लब्धराज्यसुखास्पदः
आचार्यो मायिनां सोऽयं नानामायाविशारदः । पूज्यते राक्षसैर्घोरैः सर्वकार्यसमृद्धये
ततोऽधस्तास्तुविख्यातं महातलमिति स्फुटम् । सर्पाणां काद्रवेयाणां गणः क्रोधवशो महान्
अनेकशिरसां विप्र प्रधानान्कीर्तयामि ते । कुहकस्तक्षकश्चैव सुषेणः कालियस्तथा
महाभोगा महासत्त्वाः क्रूराः क्रूरस्वजातयः । पतत्रिराजाधिपतेरुद्विग्नाः सर्व एव ते
स्वकलत्रापत्यसुहृत्कुटुम्बस्य च सङ्गताः । प्रमत्ता विहरन्त्येव नानाक्रीडाविशारदाः
ततोऽधस्ताच्च विवरे रसातलसमाह्वये । दैतेया निवसन्त्येव पणयो दानवाश्च ये
निवातकवचा नाम हिरण्यपुरवासिनः । कालेया इति च प्रोक्ताः प्रत्यनीका हविर्भुजाम्
महौजसश्चोत्पत्त्यैव महासाहसिनस्तथा । सकलेशस्य च हरेस्तेजसा हतविक्रमाः
बिलेशया इव सदा विवरे निवसन्ति हि । ये वै वाग्भिः सरमया शक्रदूत्या निरन्तरम्
मन्त्रवर्णाभिरसुरास्ताडिता बिभ्यति स्म ह । ततोऽप्यधस्तात्पाताले नागलोकाधिपालकाः
वासुकिप्रमुखाः शङ्खः कुलिकः श्वेत एव च । धनञ्जयो महाशङ्खो धृतराष्ट्रस्तथैव च