सुहृद्भिरनुजीवाद्यैः संयुताश्च गृहेश्वराः । ईश्वरादप्रतिहतकामा मायाविनश्च ते
निवसन्ति सदा हृष्टाः सर्वर्तुसुखसंयुताः । मयेन मायाविभुना येषु येषु च निर्मिताः
पुरः प्रकामशो भक्ता मणिप्रवरशालिनः । विचित्रभवनाट्टालगोपुराद्याः सहस्रशः
सभाचत्वरचैत्यादिशोभाढ्याः सुरदुर्लभाः । नागासुराणां मिथुनैः सपारावतसारिकैः
कीर्णकृत्रिमभूमिश्च विवरेशगृहोत्तमैः । अलङ्कृताश्चकासन्ति उद्यानानि महान्ति च
मनःप्रसन्नकारीणि फलपुष्पविशालिभिः । ललनानां विलासार्हस्थानैः शोभितभाञ्जि च
नानाविहंगमव्रातसंयुक्तजलराशिभिः । स्वच्छार्णपूरितह्रदैः पाठीनसमलङ्कृतैः
जलजन्तुक्षुब्धनीरनीरजातैरनेकशः । कुमुदोत्पलकह्लारनीलरक्तोत्पलैस्तथा
तेषु कृतनिकेतानां विहारैः सङ्कुलानि च । इन्द्रियोत्सवकारैश्च तथैव विविधैः स्वरैः
अमराणां च परमां श्रियं चातिशयन्ति च । यत्र नैव भयं क्वापि कालाङ्गैर्दिनरात्रिभिः
यत्राहिप्रवराणां च शिरःस्थैर्मणिरश्मिभिः । नित्यं तमः प्रबाध्येत सदा प्रस्फुटकान्तिभिः
न वा एतेषु वसतां दिव्यौषधिरसायनैः । रसान्नपानस्नानाद्यैर्नाधयो न च व्याधयः
वलीपलितजीर्णत्ववैवर्ण्यस्वेदगन्धताः । अनुत्साहवयोऽवस्था न बाधन्ते कदाचन
कल्याणानां सदा तेषां न च मृत्युभयं कुतः । भगवत्तेजसोऽन्यत्र चक्राच्चैव सुदर्शनात्
यस्मिन्प्रविष्टे दैतेयवधूनां गर्भराशयः । प्रायो भयात्पतन्त्येव स्रवन्ति ब्रह्मपुत्रक
अतलवितलसुतललोकवर्णनम् श्रीनारायण उवाच प्रथमे विवरे विप्र अतलाख्ये मनोरमे । मयपुत्रो बलो नाम वर्ततेऽखर्वगर्वकृत्
षण्णवत्यो येन सृष्टा मायाः सर्वार्थसाधिकाः । मायाविनो याश्च सद्यो धारयन्ति च काश्चन
जृम्भमाणस्य यस्यैव बलस्य बलशालिनः । स्त्रीगणा उपपद्यन्ते त्रयोलोकविमोहनाः
पुंश्चल्यश्चैव स्वैरिण्यः कामिन्यश्चेति विश्रुताः । या वै बिलायनं प्रेष्ठं प्रविष्टं पुरुषं रहः
रसेन हाटकाख्येन साधयित्वा प्रयत्नतः । स्वविलासावलोकानुरागस्मितविगूहनैः
संलापविभ्रमाद्यैश्च रमयन्त्यपि ताः स्त्रियः । यस्मिन्नुपयुक्ते जनो मनुते बहुधा स्वयम्
ईश्वरोऽहमहं सिद्धो नागायुतबलो महान् । आत्मानं मन्यमानः सन्मदान्ध इव कथ्यते
एवं प्रोक्ता स्थितिश्चात्र अतलस्य च नारद । द्वितीयविवरस्यात्र वितलस्य निबोधत
भूतलाधस्तले चैव वितले भगवान्भवः । हाटकेश्वरनामायं स्वपार्षदगणैर्वृतः
प्रजापतिकृतस्यापि सर्गस्य बृंहणाय च । भवान्या मिथुनीभूय आस्ते देवाधिपूजितः
भवयोर्वीर्यसम्भूता हाटकी सरिदुत्तमा । समिद्धो मरुता वह्निरोजसा पिबतीव हि
तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं दैत्यवल्लभम् । दैत्याङ्गना भूषणार्हं सदा तं धारयन्ति हि
तद्बिलाधस्तलात्प्रोक्तं सुतलाख्यं बिलेश्वरम् । पुण्यश्लोको बलिर्नामा आस्ते वैरोचनिर्मुने
महेन्द्रस्य च देवस्य चिकीर्षुः प्रियमुत्तमम् । त्रिविक्रमोऽपि भगवान् सुतले बलिमानयत्
त्रैलोक्यलक्ष्मीमाक्षिप्य स्थापितः किल दैत्यराट् । इन्द्रादिष्वप्यलब्धा या सा श्रीस्तमनुवर्तते