ततोऽप्यधस्ताद्देवर्षे यक्षाणां च सरक्षसाम् । पिशाचप्रेतभूतानां विहाराजिरमुत्तमम्
अन्तरिक्षं च तत्प्रोक्तं यावद्वायुः प्रवाति हि । यावन्मेघास्ततोद्यन्ति तत्प्रोक्तं ज्ञानकोविदैः
ततोऽधस्ताद्योजनानां शतं यावद् द्विजोत्तम । पृथिवी परिसंख्याता सुपर्णश्येनसारसाः
हंसादयः प्रोत्पतन्ति पार्थिवाः पृथिवीभवाः । भूसन्निवेशावस्थानं यथावदुपवर्णितम्
अधस्तादवनेः सप्त देवर्षे विवराः स्मृताः । एकैकशो योजनानामायामोच्छ्रायतः पुनः
अयुतान्तरविख्याताः सर्वर्तुसुखदायकाः । अतलं प्रथमं प्रोक्तं द्वितीयं वितलं तथा
तृतीयं सुतलं प्रोक्तं चतुर्थं वै तलातलम् । महातलं पञ्चमं च षष्ठं प्रोक्तं रसातलम्
सप्तमं विप्र पातालं सप्तैते विवराः स्मृताः । एतेषु बिलस्वर्गेषु दिवोऽप्यधिकमेव च
कामभोगैश्वर्यसुखसमृद्धभुवनेषु च । नित्योद्यानविहारेषु सुखास्वादः प्रवर्तते
दैत्याश्च काद्रवेयाश्च दानवा बलशालिनः । नित्यप्रमुदिता रक्ताः कलत्रापत्यबन्धुभिः
सुहृद्भिरनुजीवाद्यैः संयुताश्च गृहेश्वराः । ईश्वरादप्रतिहतकामा मायाविनश्च ते
निवसन्ति सदा हृष्टाः सर्वर्तुसुखसंयुताः । मयेन मायाविभुना येषु येषु च निर्मिताः
पुरः प्रकामशो भक्ता मणिप्रवरशालिनः । विचित्रभवनाट्टालगोपुराद्याः सहस्रशः
सभाचत्वरचैत्यादिशोभाढ्याः सुरदुर्लभाः । नागासुराणां मिथुनैः सपारावतसारिकैः
कीर्णकृत्रिमभूमिश्च विवरेशगृहोत्तमैः । अलङ्कृताश्चकासन्ति उद्यानानि महान्ति च
मनःप्रसन्नकारीणि फलपुष्पविशालिभिः । ललनानां विलासार्हस्थानैः शोभितभाञ्जि च
नानाविहंगमव्रातसंयुक्तजलराशिभिः । स्वच्छार्णपूरितह्रदैः पाठीनसमलङ्कृतैः
जलजन्तुक्षुब्धनीरनीरजातैरनेकशः । कुमुदोत्पलकह्लारनीलरक्तोत्पलैस्तथा
तेषु कृतनिकेतानां विहारैः सङ्कुलानि च । इन्द्रियोत्सवकारैश्च तथैव विविधैः स्वरैः
अमराणां च परमां श्रियं चातिशयन्ति च । यत्र नैव भयं क्वापि कालाङ्गैर्दिनरात्रिभिः
यत्राहिप्रवराणां च शिरःस्थैर्मणिरश्मिभिः । नित्यं तमः प्रबाध्येत सदा प्रस्फुटकान्तिभिः
न वा एतेषु वसतां दिव्यौषधिरसायनैः । रसान्नपानस्नानाद्यैर्नाधयो न च व्याधयः
वलीपलितजीर्णत्ववैवर्ण्यस्वेदगन्धताः । अनुत्साहवयोऽवस्था न बाधन्ते कदाचन
कल्याणानां सदा तेषां न च मृत्युभयं कुतः । भगवत्तेजसोऽन्यत्र चक्राच्चैव सुदर्शनात्
यस्मिन्प्रविष्टे दैतेयवधूनां गर्भराशयः । प्रायो भयात्पतन्त्येव स्रवन्ति ब्रह्मपुत्रक
अतलवितलसुतललोकवर्णनम् श्रीनारायण उवाच प्रथमे विवरे विप्र अतलाख्ये मनोरमे । मयपुत्रो बलो नाम वर्ततेऽखर्वगर्वकृत्
षण्णवत्यो येन सृष्टा मायाः सर्वार्थसाधिकाः । मायाविनो याश्च सद्यो धारयन्ति च काश्चन
जृम्भमाणस्य यस्यैव बलस्य बलशालिनः । स्त्रीगणा उपपद्यन्ते त्रयोलोकविमोहनाः
पुंश्चल्यश्चैव स्वैरिण्यः कामिन्यश्चेति विश्रुताः । या वै बिलायनं प्रेष्ठं प्रविष्टं पुरुषं रहः
रसेन हाटकाख्येन साधयित्वा प्रयत्नतः । स्वविलासावलोकानुरागस्मितविगूहनैः