आकल्पान्तं च क्रमन्ति खे श्येनाद्याः खगा इव । कर्मसारथयो वायुवशगाः सर्व एव ते
एवं ज्योतिर्गणाः सर्वे प्रकृतेः पुरुषस्य च । संयोगानुगृहीतास्ते भूमौ न निपतन्ति च
ज्योतिश्चक्रं केचिदेतच्छिशुमारस्वरूपकम् । सोपयोगं भगवतो योगधारणकर्मणि
यस्यार्वाक्शिरसः कुण्डलीभूतवपुषो मुने । पुच्छाग्रे कल्पितो योऽयं ध्रुव उत्तानपादजः
लाङ्गूलेऽस्य च सम्प्रोक्तः प्रजापतिरकल्मषः । अग्निरिन्द्रश्च धर्मश्च तिष्ठन्ते सुरपूजिताः
धाता विधाता पुच्छान्ते कट्यां सप्तर्षयस्ततः । दक्षिणावर्तभोगेन कुण्डलाकारमीयुषः
उत्तरायणभानीह दक्षपार्श्वेऽर्पितानि च । दक्षिणायनभानीह सव्ये पार्श्वेऽर्पितानि च
कुण्डलाभोगवेशस्य पार्श्वयोरुभयोरपि । समसंख्याश्चावयवा भवन्ति कजनन्दन
अजवीथी पृष्ठभागे आकाशसरिदौदरे । पुनर्वसुश्च पुष्यश्च श्रोण्यौ दक्षिणवामयोः
आर्द्राश्लेषे पश्चिमयोः पादयोर्दक्षवामयोः । अभिजिच्चोत्तराषाढा नासयोर्दक्षवामयोः
यथासंख्यं च देवर्षे श्रुतिश्च जलभं तथा । कल्पिते कल्पनाविद्भिर्नेत्रयोर्दक्षवामयोः
धनिष्ठा चैव मूलं च कर्णयोर्दक्षवामयोः । मघादीन्यष्टभानीह दक्षिणायनगानि च
युञ्जीत वामपार्श्वीयवंक्रिषु क्रमतो मुने । तथैव मृगशीर्षादीन्युदग्भानि च यानि हि
दक्षपार्श्वे वंक्रिकेषु प्रातिलोम्येन योजयेत् । शततारा तथा ज्येष्ठा स्कन्धयोर्दक्षवामयोः
अगस्तिश्चोत्तरहनावधरायां हनौ यमः । मुखेष्वङ्गारकः प्रोक्तो मन्दः प्रोक्त उपस्थके
बृहस्पतिश्च ककुदि वक्षस्यर्को ग्रहाधिपः । नारायणश्च हृदये चन्द्रो मनसि तिष्ठति
स्तनयोरश्विनौ नाभ्यामुशनाः परिकीर्तितः । बुधः प्राणापानयोश्च गले राहुश्च केतवः
सर्वाङ्गेषु तथा रोमकूपे तारागणाः स्मृताः । एतद्भगवतो विष्णोः सर्वदेवमयं वपुः
सन्ध्यायां प्रत्यहं ध्यायेत्प्रयतो वाग्यतो मुनिः । निरीक्षमाणश्चोत्तिष्ठेन्मन्त्रेणानेन धीश्वरः
नमो ज्योतिर्लोकाय कालायानिमिषां पतये महापुरुषायाभिधीमहीति
ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् । नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम्
राहुमण्डलाद्यवस्थानवर्णनम् श्रीनारायण उवाच अधस्तात्सवितुः प्रोक्तमयुतं राहुमण्डलम् । नक्षत्रवच्चरति च सैंहिकेयोऽतदर्हणः
सूर्याचन्द्रमसोरेव मर्दनः सिंहिकासुतः । अमरत्वं च खेटत्वं लेभे यो विष्ण्वनुग्रहात्
यददस्तरणेर्बिम्बं तपतो योजनायुतम् । तच्छादकोऽसुरो ज्ञेयोऽप्यर्कसाहस्रविस्तरम्
त्रयोदशसहस्रं तु सोमस्याच्छादको ग्रहः । यः पर्वसमये वैरानुबन्धी छादकोऽभवत्
सूर्याचन्द्रमसोर्दूराद्भवेच्छादनकारकः । तन्निशम्योभयत्रापि विष्णुना प्रेरितं स्वकम्
चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् । तत्तेजसा दुःसहेन समन्तात्परिवारितम्
मुहूर्तो द्विजमानस्तु दूराच्चकितमानसः । आरान्निवर्तते सोऽयमुपराग इतीव ह
उच्यते लोकमध्ये तु देवर्षे अवबुध्यताम् । ततोऽधस्तात्समाख्याता लोकाः परमपावनाः
सिद्धानां चारणानां च विद्याध्राणां च सत्तम । योजनायुतविख्याता लोकाः पुण्यनिषेविताः