एकैकराशौ पर्येति सर्वान् राशीन्महाग्रहः । सर्वेषामशुभो मन्दः प्रोक्तः कालविदां वरैः
तत उत्तरतः प्रोक्तमेकादशसुलक्षकैः । योजनैः परिसंख्यातं सप्तर्षीणां च मण्डलम्
ध्रुवमण्डलसंस्थानवर्णनम् श्रीनारायण उवाच अथर्षिमण्डलादूर्ध्वं योजनानां प्रमाणतः । लक्षैस्त्रयोदशमितैः परमं वैष्णवं पदम्
महाभागवतः श्रीमान् वर्तते लोकवन्दितः । औत्तानपादिरिन्द्रेण वह्निना कश्यपेन च
धर्मेण सह चैवास्ते समकालयुजा ध्रुवः । बहुमानं दक्षिणतः कुर्वद्भिः प्रेक्षकैः सदा
आजीव्यः कल्पजीविनामुपास्ते भगवत्पदम् । ज्योतिर्गणानां सर्वेषां ग्रहनक्षत्रभादिनाम्
कालेनानिमिषेणायं भ्राम्यतां व्यक्तरंहसा । अवष्टम्भस्थाणुरिव विहितश्चेश्वरेण सः
भासते भासयन्भासा स्वीयया देवपूजितः । मेढिस्तम्भे यथा युक्ताः पशवः कर्षणार्थकाः
मण्डलानि चरन्तीमे सवनत्रितयेन च । एवं ग्रहादयः सर्वे भगणाद्या यथाक्रमम्
अन्तर्बहिर्विभागेन कालचक्रे नियोजिताः । ध्रुवमेवावलम्ब्याशु वायुनोदीरिताश्च ते
आकल्पान्तं च क्रमन्ति खे श्येनाद्याः खगा इव । कर्मसारथयो वायुवशगाः सर्व एव ते
एवं ज्योतिर्गणाः सर्वे प्रकृतेः पुरुषस्य च । संयोगानुगृहीतास्ते भूमौ न निपतन्ति च
ज्योतिश्चक्रं केचिदेतच्छिशुमारस्वरूपकम् । सोपयोगं भगवतो योगधारणकर्मणि
यस्यार्वाक्शिरसः कुण्डलीभूतवपुषो मुने । पुच्छाग्रे कल्पितो योऽयं ध्रुव उत्तानपादजः
लाङ्गूलेऽस्य च सम्प्रोक्तः प्रजापतिरकल्मषः । अग्निरिन्द्रश्च धर्मश्च तिष्ठन्ते सुरपूजिताः
धाता विधाता पुच्छान्ते कट्यां सप्तर्षयस्ततः । दक्षिणावर्तभोगेन कुण्डलाकारमीयुषः
उत्तरायणभानीह दक्षपार्श्वेऽर्पितानि च । दक्षिणायनभानीह सव्ये पार्श्वेऽर्पितानि च
कुण्डलाभोगवेशस्य पार्श्वयोरुभयोरपि । समसंख्याश्चावयवा भवन्ति कजनन्दन
अजवीथी पृष्ठभागे आकाशसरिदौदरे । पुनर्वसुश्च पुष्यश्च श्रोण्यौ दक्षिणवामयोः
आर्द्राश्लेषे पश्चिमयोः पादयोर्दक्षवामयोः । अभिजिच्चोत्तराषाढा नासयोर्दक्षवामयोः
यथासंख्यं च देवर्षे श्रुतिश्च जलभं तथा । कल्पिते कल्पनाविद्भिर्नेत्रयोर्दक्षवामयोः
धनिष्ठा चैव मूलं च कर्णयोर्दक्षवामयोः । मघादीन्यष्टभानीह दक्षिणायनगानि च
युञ्जीत वामपार्श्वीयवंक्रिषु क्रमतो मुने । तथैव मृगशीर्षादीन्युदग्भानि च यानि हि
दक्षपार्श्वे वंक्रिकेषु प्रातिलोम्येन योजयेत् । शततारा तथा ज्येष्ठा स्कन्धयोर्दक्षवामयोः
अगस्तिश्चोत्तरहनावधरायां हनौ यमः । मुखेष्वङ्गारकः प्रोक्तो मन्दः प्रोक्त उपस्थके
बृहस्पतिश्च ककुदि वक्षस्यर्को ग्रहाधिपः । नारायणश्च हृदये चन्द्रो मनसि तिष्ठति
स्तनयोरश्विनौ नाभ्यामुशनाः परिकीर्तितः । बुधः प्राणापानयोश्च गले राहुश्च केतवः
सर्वाङ्गेषु तथा रोमकूपे तारागणाः स्मृताः । एतद्भगवतो विष्णोः सर्वदेवमयं वपुः
सन्ध्यायां प्रत्यहं ध्यायेत्प्रयतो वाग्यतो मुनिः । निरीक्षमाणश्चोत्तिष्ठेन्मन्त्रेणानेन धीश्वरः
नमो ज्योतिर्लोकाय कालायानिमिषां पतये महापुरुषायाभिधीमहीति