गतिद्वयं चाविरुद्धं सर्वत्रैष विनिर्णयः । स एव भगवानादिपुरुषो लोकभावनः
नारायणोऽखिलाधारो लोकानां स्वस्तये भ्रमन् । कर्मशुद्धिनिमित्तं तु आत्मानं वै त्रयीमयम्
कविभिश्चैव वेदेन विजिज्ञास्योऽर्कधाभवत् । षट्सु क्रमेण ऋतुषु वसन्तादिषु च स्वयम्
यथोपजोषमृतुजान् गुणान् वै विदधाति च । तमेनं पुरुषाः सर्वे त्रय्या च विद्यया सदा
वर्णाश्रमाचारपथा तथाम्नातैश्च कर्मभिः । उच्चावचैः श्रद्धया च योगानां च वितानकैः
अञ्जसा च यजन्ते ये श्रेयो विन्दन्ति ते मतम् । अथैष आत्मा लोकानां द्यावाभूम्यन्तरेण च
कालचक्रगतो भुङ्क्ते मासान्द्वादशराशिभिः । संवत्सरस्यावयवान्मासः पक्षद्वयं दिवा
नक्तं चेति स पादर्क्षद्वयमित्युपदिश्यते । यावता षष्ठमंशं स भुञ्जीत ऋतुरुच्यते
संवत्सरस्यावयवः कविभिश्चोपवर्णितः । यावतार्धेन चाकाशवीथ्यां प्रचरते रविः
तं प्राक्तना वर्णयन्ति अयनं मुनिपूजिताः । अथ यावन्नभोमण्डलं सह प्रतिगच्छति
कार्त्स्न्येन सह भुञ्जीत कालं तं वत्सरं विदुः । संवत्सरं परिवत्सरमिडावत्सरमेव च
अनुवत्सरमिद्वत्सरमिति पञ्चकमीरितम् । भानोर्मान्द्यशैघ्र्यसमगतिभिः कालवित्तमैः
एवं भानोर्गतिः प्रोक्ता चन्द्रादीनां निबोधत । एवं चन्द्रोऽर्करश्मिभ्यो लक्षयोजनमूर्ध्वतः
उपलभ्यमानो मित्रस्य संवत्सरभुजिं च सः । पक्षाभ्यां चौषधीनाथो भुङ्क्ते मासभुजिं च सः
सपादमाभ्यां दिवसभुक्तिं पक्षभुजिं चरेत् । एवं शीघ्रगतिः सोमो भुङ्क्ते नूनं भचक्रकम्
पूर्यमाणकलाभिश्चामराणां प्रीतिमावहन् । क्षीयमाणकलाभिश्च पितॄणां चित्तरञ्जकः
अहोरात्राणि तन्वानः पूर्वापरसुघस्रकैः । सर्वजीवनिकायस्य प्राणो जीवः स एव हि
भुङ्क्ते चैकैकनक्षत्रं मुहूर्तत्रिंशता विभुः । स एव षोडशकलः पुरुषोऽनादिसत्तमः
मनोमयोऽप्यन्नमयोऽमृतधामा सुधाकरः । देवपितृमनुष्यादिसरीसृपसवीरुधाम्
प्राणाप्यायनशीलत्वात्स सर्वमय उच्यते । ततो भचक्रं भ्रमति योजनानां त्रिलक्षतः
मेरुप्रदक्षिणेनैव योजितं चेश्वरेण तु । अष्टाविंशतिसंख्यानि गणितानि सहाभिजित्
ततः शुक्रो द्विलक्षेण योजनानामथोपरि । पुरः पश्चात्सहैवासावर्कस्य परिवर्तते
शीघ्रमन्दसमानाभिर्गतिभिर्विचरन्विभुः । लोकानामनुकूलोऽयं प्रायः प्रोक्तः शुभावहः
वृष्टिविष्टम्भशमनो भार्गवः सर्वदा मुने । शुक्राद् बुधः समाख्यातो योजनानां द्विलक्षतः
शीघ्रमन्दसमानाभिर्गतिभिः शुक्रवत्सदा । यदार्काद्व्यतिरिच्येत सौम्यः प्रायेण तत्र तु
अतिवाताभ्रपातानां वृष्ट्यादिभयसूचकः । उपरिष्ठात्ततो भौमो योजनानां द्विलक्षतः
पक्षैस्त्रिभिस्त्रिभिः सोऽयं भुङ्क्ते राशीनथैकशः । द्वादशापि च देवर्षे यदि वक्रो न जायते
प्रायेणाशुभकृत्सोऽयं ग्रहौघानां च सूचकः । नतो द्विलक्षमानेन योजनानां च गीष्पतिः
एकैकस्मिन्नथो राशौ भुङ्गे संवत्सरं चरन् । यदि वक्रो भवेन्नैवानुकूलो ब्रह्मवादिनाम्
ततः शनैश्चरो घोरो लक्षद्वयपरो मितः । योजनैः सूर्यपुत्रोऽयं त्रिंशन्मासैः परिभ्रमन्