प्रवृत्तेश्च निमित्तानि भूतानां तानि सर्वशः । मेरोश्चतुर्दिशं भानोः कीर्तितानि मया मुने
मेरुस्थानां सदा मध्यं गत एव विभाति हि । सव्यं गच्छन्दक्षिणेन करोति स्वर्णपर्वतम्
उदयास्तमये चैव सर्वकालं तु सम्मुखे । दिशास्वशेषासु तथा सुरर्षे विदिशासु च
यैर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः
नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः
शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान्द्वे पुरे तथा
सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थितः । यैर्यत्र दृश्यते भानुः सैव प्राचीति चोच्यते
तद्वामभागतो मेरुर्वर्ततेति विनिर्णयः । यदि चैन्द्र्याः प्रचलते घटिका दशपञ्चभिः
याम्यां तदा योजनानां सपादं कोटियुग्मकम् । सार्धद्वादशलक्षाणि पञ्चनेत्रसहस्रकम्
प्रक्रामति सहस्रांशुः कालमार्गप्रदर्शकः । एवं ततो वारुणीं च सौम्यामैन्द्रीं सहस्रदृक्
पर्येति कालचक्रात्मा द्युमणिः कालबुद्धये । तथा चान्ये ग्रहाः सोमादयो ये दिग्विचारिणः
नक्षत्रैः सह चोद्यन्ति सह चास्तं व्रजन्ति ते । एवं मुहूर्तेन रथो भानोरष्टशताधिकम्
योजनानां चतुस्त्रिंशल्लक्षाणि भ्रमति प्रभुः । त्रयीमयश्चतुर्दिक्षु पुरीषु च समीरणात्
प्रवहाख्यात्सदा कालचक्रं पर्येति भानुमान् । यस्य चक्रं रथस्यैकं द्वादशारं त्रिनाभिकम्
षण्नेमि कवयस्तं च वत्सरात्मकमूचिरे । मेरुमूर्धनि तस्याक्षो मानसोत्तरपर्वते
कृतेतरविभागो यः प्रोतं तत्र रथाङ्गकम् । तैलकारकयन्त्रेण चक्रसाम्यं परिभ्रमन्
मानसोत्तरनाम्नीह गिरौ पर्येति चांशुमान् । तस्मिन्नक्षे कृतं मूलं द्वितीयोऽक्षो ध्रुवे कृतः
तुर्यमानेन तैलस्य यन्त्राक्षवदितीरितः । कृतोपरितनो भागः सूर्यस्य जगतां पतेः
रथनीडस्तु षट्त्रिंशल्लक्षयोजनमायतः । तत्तुर्यभागतः सोऽयं परिणाहेन कीर्तितः
तावानर्करथस्यात्र युगस्तस्मिन्हयाः शुभाः । सप्तच्छन्दोऽभिधानाश्च सूरसूतेन योजिताः
वहन्ति देवमादित्यं लोकानां सुखहेतवे । पुरस्तात्सवितुः सूतोऽरुणः पश्चान्नियोजितः
सौत्ये कर्मणि संयुक्तो वर्तते गरुडाग्रजः । तथैव बालखिल्याख्या ऋषयोऽङ्गुष्ठपर्वकाः
प्रमाणेन परिख्याताः षष्टिसाहस्रसंख्यकाः । स्तुवन्ति पुरतः सूर्यं सूक्तवाक्यैः सुशोभनैः
तथा चान्ये च ऋषयो गन्धर्वा अप्सरोरगाः । ग्रामण्यो यातुधानाश्च देवाः सर्वे परेश्वरम्
एकैकशः सप्त सप्त मासि मासि विरोचनम् । सार्धलक्षोत्तरं कोटिनवकं भूमिमण्डलम्
द्विसहस्रं योजनानां स गव्यूत्युत्तरं क्षणात् । पर्येति देवदेवेशो विश्वव्यापी निरन्तरम्
सोमादिगतिवर्णनम् श्रीनारायण उवाच अथातः श्रूयतां चित्रं सोमादीनां गमादिकम् । तद्गत्यनुसृता नॄणां शुभाशुभनिदर्शना
यथा कुलालचक्रेण भ्रमता भ्रमतां सह । तदाश्रयाणां च गतिरन्या कीटादिनां भवेत्
एवं हि राशिवृन्देन कालचक्रेण तेन च । मेरुं धुरं च सरतां प्रादक्षिण्येन सर्वदा
ग्रहाणां भानुमुख्यानां गतिरन्यैव दृश्यते । नक्षत्रान्तरगामित्वाद्भान्तरे गमनं तथा