स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः । देवतिर्यङ्मनुष्याणां सरीसृपसवीरुधाम्
सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः । एतावान्भूमण्डलस्य सन्निवेश उदाहृतः
एतेन हि दिवो मानं वर्णयन्ति च तद्विदः । द्विदलानां च निष्पावादीनां च दलयोर्यथा
अन्तरेण तयोरन्तरिक्षं तदुभयसन्धितम् । यन्मध्यगश्च भगवान् भानुर्वै तपतां वरः
आतपेन त्रिलोकं च प्रतपत्येव भासयन् । उत्तरायणमासाद्य गतिमान्द्यं वितन्वते
आरोहणस्थानमसौ गत्वाहो दैर्ध्यमाचरेत् । दक्षिणायनमासाद्य गतिशैघ्र्यं वितन्वते
अवरोहस्थानमसौ गच्छन्ह्रस्वं दिनं चरेत् । विषुवत्संज्ञमासाद्य गतिसाम्यं वितन्वते
समस्थानमथासाद्य दिनसाम्यं करोति च । यदा च मेषतुलयोः सञ्चरेद्धि दिवाकरः
समानानि त्वहोरात्राण्यातनोति त्रयीमयः । वृषादिपञ्चसु यदा राशिष्वर्को विरोचते
तदाहानि च वर्धन्ते रात्रयोऽपि ह्रसन्ति च । वृश्चिकादिषु सूर्यो हि यदा सञ्चरते रविः
तदापीमान्यहोरात्राणि भवन्ति विपर्ययात्
भुवनकोशवर्णने सूर्यगतिवर्णनम् श्रीनारायण उवाच अतः परं प्रवक्ष्यामि भानोर्गमनमुत्तमम् । शीघ्रमन्दादिगतिभिस्त्रिविधं गमनं रवेः
सर्वग्रहाणां त्रीण्येव स्थानानि सुरसत्तम । स्थानं जारद्गवं मध्यं तथैरावतमुत्तरम्
वैश्वानरं दक्षिणतो निर्दिष्टमिति तत्त्वतः । अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता
रोहिण्यार्द्रा मृगशिरो गजवीथ्यभिधीयते । पुष्याश्लेषा तथाऽऽदित्या वीथी चैरावती स्मृता
एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते । तथा द्वे चापि फल्गुन्यौ मघा चैवार्षभी मता
हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता । ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता
एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते । मूलाषाढोत्तराषाढा अजवीथ्यभिशब्दिता
श्रवणं च धनिष्ठा च मार्गी शतभिषक् तथा । वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता
एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते । उत्तरायणमासाद्य युगाक्षान्तर्निबद्धयोः
कर्षणं पाशयोर्वायुबद्धयो रोहणं स्मृतम् । तदाभ्यन्तरगान्मण्डलाद्रथस्य गतेर्भवेत्
मान्द्यं दिवसवृद्धिश्च जायते सुरसत्तम । रात्रिह्रासश्च भवति सौम्यायनक्रमो ह्ययम्
दक्षिणायनके पाशे प्रेरणादवरोहणम् । बहिर्मण्डलवेशेन गतिशैघ्र्यं तदा भवेत्
तदा दिनाल्पता रात्रिवृद्धिश्च परिकीर्तिता । वैषुवे पाशसाम्यात्तु समावस्थानतो रवेः
मध्यमण्डलवेशश्च साम्यं रात्रिदिनादिके । आकृष्येते यदा तौ तु ध्रुवेण समधिष्ठितौ
तदाभ्यन्तरतः सूर्यो भ्रमते मण्डलानि च । ध्रुवेण मुच्यमानेन पुना रश्मियुगेन तु
तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि च । तस्मिन्मेरौ पूर्वभागे पुर्यैन्द्री देवधानिका
दक्षिणे वै संयमनी नाम याम्या महापुरी । पश्चान्निम्लोचनी नाम वारुणी वै महापुरी
तदुत्तरे पुरी सौम्या प्रोक्ता नाम विभावरी । ऐन्द्रपुर्यां रवेः प्रोक्त उदयो ब्रह्मवादिभिः
संयमन्यां च मध्याह्ने निम्लोचन्यां निमीलनम् । विभावर्यां निशीथः स्यात्तिग्मांशोः सुरपूजितः