यजन्ति निर्धूतरजस्तमसः परमं हरिम् । अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः
अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे इदम् । परस्ताद्दधिमण्डोदात्ततस्तु बहुविस्तरः
पुष्करद्वीपनामायं शाकद्वीपद्विसंगुणः । स्वसमानेन स्वादूदकेनायं परिवेष्टितः
यत्रास्ते पुष्करं भ्राजदग्निचूडानिभानि च । पत्राणि विशदानीह स्वर्णपत्रायुतायुतम्
श्रीमद्भगवतश्चेदमासनं परमेष्ठिनः । कल्पितं लोकगुरुणा सर्वलोकसिसृक्षया
तद्द्वीप एक एवायं मानसोत्तरनामकः । अर्वाचीनपराचीनवर्षयोरवधिर्गिरिः
उच्छ्रायायामयोः संख्यायुतयोजनसम्मिता । यत्र दिक्षु च चत्वारि चतसृषु पुराणि ह
इन्द्रादिलोकपालानां यदुपर्यर्कनिर्गमः । मेरुं प्रदक्षिणीकुर्वन् भानुः पर्येति यत्र हि
संवत्सरात्मकं चक्रं देवाहोरात्रतो भ्रमन् । प्रैयव्रतोऽधिपो वीतिहोत्रः स्वात्मजकद्वयम्
वर्षद्वये परिस्थाप्य वर्षनामधरं क्रमात् । रमणो धातकिश्चैव तत्तद्वर्षपती उभौ
कृताः स्वयं पूर्वजवद्भगवद्भक्तितत्पराः । तद्वर्षपुरुषा ब्रह्मरूपिणं परमेश्वरम्
सकर्मकेन योगेन यजन्ति परिशीलिताः । यत्तत्कर्ममयं लिङ्ग ब्रह्मलिङ्गं जनोऽर्चयेत् । एकान्तमद्वयं शान्तं तस्मै भगवते नमः
सूर्यगतिवर्णनम् नारायण उवाच ततः परस्तादचलो लोकालोकेति नामकः । अन्तराले च लोकालोकयोर्यः परिकल्पितः
यावदस्ति च देवर्षे ह्यन्तरं मानसोत्तरात् । सुमेरोस्तावती शुद्धा काञ्चनी भूमिरस्ति हि
दर्पणोदरतुल्या सा सर्वप्राणिविवर्जिता । यस्यां पदार्थः प्रहितो न किञ्चित्प्रत्युदीयते
अतः सर्वप्राणिसङ्घरहिता सा च नारद । लोकालोक इति व्याख्या यदत्र परिकल्पिता
लोकालोकान्तरे चास्य वर्तते सर्वदा स्थितिः । ईश्वरेण स लोकानां त्रयाणामन्तगः कृतः
सूर्यादीनां ध्रुवान्तानां रश्मयो यद्वशादिह । अर्वाचीनाश्च त्रीँल्लोकानातन्वानाः कदापि हि
पराचीनत्वभाजो हि न भवन्ति च नारद । तावदुन्नहनायामः पर्वतेन्द्रो महोदयः
एतावाँल्लोकविन्यासोऽयं संस्थामानलक्षणैः । कविभिः स तु पञ्चाशत्कोटिभिर्गणितस्य च
भूगोलस्य चतुर्थांशो लोकालोकाचलो मुने । तस्योपरि चतुर्दिक्षु ब्रह्मणा चात्मयोनिना
निवेशिता दिग्गजा ये तन्नामानि निबोधत । ऋषभः पुष्पचूडोऽथ वामनोऽथापराजितः
एते समस्तलोकस्य स्थितिहेतव ईरिताः । तेषां च स्वविभूतीनां बहुवीर्योपबृंहणम्
विशुद्धसत्त्वं चैश्वर्यं वर्धयन्भगवान् हरिः । आस्ते सिद्ध्यष्टकोपेतो विष्वक्सेनादिसंवृतः
निजायुधैः परिवृतो भुजदण्डैः समन्ततः । आस्ते सकललोकस्य स्वस्तये परमेश्वरः
आकल्पमेवं वेषं स गतो विष्णुः सनातनः । स्वमायारचितस्यास्य गोपीथायात्मसाधनः
योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणकम् । व्याख्यातं यद्बहिर्लोकालोकाचल इतीरणात्
ततः परस्ताद्योगेशगतिं शुद्धा वदन्ति हि । अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम्
सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः । मृतेऽण्ड एष एतस्मिञ्जातो मार्तण्डशब्दभाक्
हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भवः । सूर्येण हि विभज्यन्ते दिशः खं द्यौर्महीभिदा