नद्यः सप्तैव सन्तीह तन्नामानि निबोधत । चक्रस्तथा चतुःशृङ्गः कपिलश्चित्रकूटकः
देवानीकश्चोर्ध्वरोमा द्रविण सप्त पर्वताः । रसकुल्या मधुकुल्या मित्रविन्दा तथैव च
श्रुतविन्दा देवगर्भा घृतच्युन्मन्दमालिके । यत्पयोभिः कुशद्वीपवासिनः सर्व एव ते
कुशलः कोविदश्चैवाप्यभियुक्तस्तथैव च । कुलकश्चेति संज्ञाभिश्चतुर्वर्णाः प्रकीर्तिताः
जातवेदसरूपं तं देवं कर्मजकौशलैः । यजन्ते देववर्याभाः सर्वे सर्वविदो जनाः
परस्यब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् । देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यज । एवं यजन्ते ज्वलनं सर्वे द्वीपाधिवासिनः
भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् नारद उवाच शिष्टद्वीपप्रमाणं च वद सर्वार्थदर्शन । येन विज्ञातमात्रेण परानन्दमयो भवेत्
श्रीरानारायण उवाच कुशद्वीपस्य परितो घृतोदावरणं महत् । ततो बहिः क्रौंचद्वीपो द्विगुणः स्यात्स्वमानतः
क्षीरोदेनावृतो भाति यस्मिन्क्रौंचाद्रिरस्ति च । नामनिर्वर्तकः सोऽयं द्वीपस्य परिवर्तते
योऽसौ गुहस्य शक्त्या च भिन्नकुक्षिः पुराभवत् । क्षीरोदेनासिच्यमानो वरुणेन च रक्षितः
घृतपृष्ठो नाम यस्य विभाति किल नायकः । प्रियव्रतात्मजः श्रीमान् सर्वलोकनमस्कृतः
स्वद्वीपं तु विभज्यैव सप्तधा स्वात्मजान्ददौ । पुत्रनामसु वर्षेषु वर्षपान्सन्निवेशयन्
स्वयं भगवतस्तस्य शरणं सञ्जगाम ह । आमो मधुरुहश्चैव मेघपृष्ठः सुधामकः
भ्राजिष्ठो लोहितार्णश्च वनस्पतिरितीव च । नगा नद्यश्च सप्तैव विख्याता भुवि सर्वतः
शुक्लो वै वर्धमानश्च भोजनश्चोपबर्हणः । नन्दश्च नन्दनः सर्वतोभद्र इति कीर्तिताः
अभया अमृतौघा चार्यका तीर्थवतीति च । वृत्तिरूपवती शुक्ला पवित्रवतिका तथा
एतासामुदकं पुण्यं चातुर्वर्ण्येन पीयते । पुरुषऋषभौ तद्वद् द्रविणाख्यश्च देवकः
एते चतुर्वर्णजाताः पुरुषा निवसन्ति हि । तत्रत्याः पुरुषा आपोमयं देवमपां पतिम्
पूर्णेनाञ्जलिना भक्त्या यजन्ते विविधक्रियाः । आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवः स्वरः
ता नः पुनीतामीवघ्नीः स्पृशतामात्मना भुवः । इति मन्त्रजपान्ते च स्तुवन्ति विविधैः स्तवैः
एवं परस्तात्क्षीरोदात्परितश्चोपवेशितः । द्वात्रिंशल्लक्षसंख्याकयोजनायाममाश्रितः
स्वमानेन च द्वीपोऽयं दधिमण्डोदकेन च । शाकद्वीपो विशिष्टोऽयं यस्मिच्छाको महीरुहः
स्वक्षेत्रव्यपदेशस्य कारणं स हि नारद । प्रैयव्रतोऽधिपस्तस्य मेधातिथिरिति स्मृतः
विभज्य सप्त वर्षाणि पुत्रनामानि तेषु च । सप्त पुत्रान्निजान् स्थाप्य स्वयं योगगतिं गतः
पुरोजवो मनःपूर्वजवोऽथ पवमानकः । धूम्रानीकश्चित्ररेफो बहुरूपोऽथ विश्वधृक्
मर्यादागिरयः सप्त नद्यः सप्तैव कीर्तिताः । ईशान ऊरुशृङ्गोऽथ बलभद्रः शतकेशरः
सहस्रस्रोतको देवपालोऽप्यन्ते महाशनः । एतेऽद्रयः सप्त चोक्ताः सरिन्नामानि सप्त च
अनघा प्रथमाऽऽयुर्दा उभयस्पृष्टिरेव च । अपराजिता पञ्चपदी सहस्रश्रुतिरेव च
ततो निजधृतिश्चोक्ताः सप्त नद्यो महोज्ज्वलाः । तद्वर्षपुरुषाः सर्वे सत्यव्रतक्रतुव्रतौ
दानव्रतानुव्रतौ च चतुर्वर्णा उदीरिताः । भगवन्तं प्राणवायुं प्राणायामेन संयुताः