जम्बाख्येन यथा मेरुस्तथा क्षारोदकेन च । क्षारोदधिस्तु द्विगुणः प्लक्षाख्येनोपवेष्टितः
यथैव परिखा बाह्योपवनेन हि वेष्ट्यते । प्लक्षाख्यश्च स्वयं जम्बुप्रमाणो द्वीपरूपधृक्
हिरण्मयोऽग्निस्तत्रैव तिष्ठतीति विनिश्चयः । प्रियवतात्मजस्तत्र सप्तजिह्व इति स्मृतः
अग्निस्तदधिपस्त्विध्मजिह्वः स्वं द्वीपमेव च । विभज्य सप्तवर्षाणि स्वपुत्रेभ्यो ददौ विभुः
स्वयमात्मविदां मान्यां योगचर्यां समाश्रितः । तेनैव चात्मयोगेन भगवन्तमुपागतः
शिवं च यवसं भद्रं शान्तं क्षेमामृते तथा । अभयं चेति सप्तैव तद्वर्षाणि सदेक्षताम्
तेषु प्रोक्ता नदीः सप्त गिरयः सप्त चैव हि । अरुणा नृम्णाङ्गिरसी सावित्री सुप्रभातिका
ऋतम्भरा सत्यम्भरा इति नद्यः प्रकीर्तिताः । मणिकूटो वज्रकूट इन्द्रसेनस्तथैव च
ज्योतिष्मान्वै सुपर्णश्च हिरण्यष्ठीव एव च । मेघमाल इति ख्याताः प्लक्षद्वीपस्य पर्वताः
नदीनां जलमात्रेण दर्शनस्पर्शनादिभिः । निर्धूताशेषरजसो निस्तमस्काः प्रजास्तथा
हंसश्चैव पतङ्गश्च ऊर्ध्वायन इतीव च । सत्याङ्गसंज्ञाश्चत्वारो वर्णाः प्लक्षस्य द्वीपके
सहस्रायुप्रमाणाश्च विविधोपमदर्शनाः । स्वर्गद्वारं त्रयीविद्याविधिनार्कं यजन्ति ते
प्रत्नस्य विष्णो रूपं च सत्यर्तस्य च ब्रह्मणः । अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहि
प्लक्षादिषु च सर्वेषु पज्जद्वीपेषु नारद । आयुरिन्द्रियमोजश्च बलं बुद्धिः सहोऽपि च
विक्रमः सर्वलोकानां सिद्धिरौत्पत्तिकी सदा । प्लक्षद्वीपात्परं चेक्षुरसोदः सरिताम्पतिः
प्लक्षद्वीपं समग्रं च परिवार्यावतिष्ठते । शाल्मलाख्यस्ततो द्वीपश्चास्माद् द्विगुणविस्तरः
समानेन सुरोदेन सिन्धुना परिवेष्टितः । यत्र वै शाल्मलीवृक्षः प्लक्षायामः प्रकीर्तितः
स्थानं तत्पक्षिराजस्य गरुडस्य महात्मनः । तस्य द्वीपस्य नाथो हि यज्ञबाहुः प्रियव्रतात्
जातः स एव सप्तभ्यः स्वपुत्रेभ्यो ददौ धराम् । तद्वर्षाणां च नामानि कथितानि निबोधत
सुरोचनं सौमनस्यं रमणं देववर्षकम् । पारिभद्रे तथा चाप्यायनं विज्ञातनामकम्
तेषु वर्षाद्रयः सप्त सप्तैव सरितः स्मृताः । सरसः शतशृङ्गश्च वामदेवश्च कन्दकः
कुमुदः पुष्पवर्षश्च सहस्रश्रुतिरेव च । एते च पर्वताः सप्त नदीनामानि चोच्यते
अनुमतिः सिनीवाली सरस्वती कुहूस्तथा । रजनी चैव नन्दा च राकेति परिकीर्तिताः
तद्वर्षपुरुषाः सर्वे चातुर्वर्ण्यसमाह्वयाः । श्रुतधरो वीर्यधरो वसुन्धर इषुन्धरः
भगवन्तं वेदमयं यजन्ते सोममीश्वरम् । स्वगोभिः पितृदेवेभ्यो विभजत्कृष्णशुक्लयोः
सर्वासां च प्रजानां च राजा सोमः प्रसीदतु । एवं सुरोदाद् द्विगुणः स्वमानेन प्रकीर्तितः
घृतोदेनावृतः सोऽयं कुशद्वीपः प्रकाशते । यस्मिन्नास्ते कुशस्तम्बो द्वीपाख्याकारणो ज्वलन्
स्वशष्परोचिषा काष्ठा भासयन्परितिष्ठते । हिरण्यरेतास्तद्द्वीपपतिः प्रैयव्रत स्वराट्
स्वपुत्रेभ्यश्च सप्तभ्यस्तद्द्वीपं सन्तधाभजत् । वसुश्च वसुदानश्च तथा दृढरुचिः परः
नाभिगुप्तस्तुत्यव्रतौ विविक्तनामदेवकौ । तेषां वर्षेषु सप्तैव सीमागिरिवराः स्मृताः