व्यास उवाच विष्णोस्तद्वचनं श्रुत्वा महालक्ष्मीः स्मितानना । उवाच परया प्रीत्या वचनं चारुहासिनी
महालक्ष्मीरुवाच शृणु शौरे वचो मह्यं सगुणाहं चतुर्भुजा । मां जानासि न जानासि निर्गुणां सगुणालयाम्
त्वं जानीहि महाभाग तया तत्प्रकटीकृतम् । पुण्यं भागवतं विद्धि वेदसारं शुभावहम्
कृपां च महतीं मन्ये देव्याः शत्रुनिषूदन । यया प्रोक्तं परं गुह्यं हिताय तव सुव्रत
रक्षणीयं सदा चित्ते न विस्मार्यं कदाचन । सारं हि सर्वशास्त्राणां महाविद्याप्रकाशितम्
नातः परं वेदितव्यं वर्तते भुवनत्रये । प्रियोऽसि खलु देव्यास्त्वं तेन ते व्याहृतं वचः
व्यास उवाच इति श्रुत्वा वचो देव्या महालक्ष्याश्चतुर्भुजः । दधार हृदये नित्यं मत्वा मन्त्रमनुत्तमम्
कालेन कियता तत्र तन्नाभिकमलोद्भवः । ब्रह्मा दैत्यभयात्त्रस्तो जगाम शरणं हरेः
ततः कृत्वा महायुद्धं हत्वा तौ मधुकैटभौ । जजाप भगवान्विष्णुः श्लोकार्धं विशदाक्षरम्
जपन्तं वासुदेवं च दृष्ट्वा देवः प्रजापतिः । पप्रच्छ परमप्रीतः कञ्जजः कमलापतिम्
किं त्वं जपसि देवेश त्वत्तः कोऽप्यधिकोऽस्ति वै । यत्कृत्वा पुण्डरीकाक्ष प्रीतोऽसि जगदीश्वर
हरिरुवाच मयि त्वयि च या शक्तिः क्रियाकारणलक्षणा । विचारय महाभाग या सा भगवती शिवा
यस्याधारे जगत्सर्वं तिष्ठत्यत्र महार्णवे । साकारा या महाशक्तिरमेया च सनातनी
यया विसृज्यते विश्वं जगदेतच्चराचरम् । सैषा प्रसन्ना वरदा नृणां भवति मुक्तये
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी । संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी
अहं त्वमखिलं विश्वं तस्याश्चिच्छक्तिसम्भवम् । विद्धि ब्रह्मन्न सन्देहः कर्तव्यः सर्वदानघ
श्लोकार्धेन तया प्रोक्तं तद्वै भागवतं किल । विस्तरो भविता तस्य द्वापरादौ युगे तथा
व्यास उवाच ब्रह्मणा संगृहीतं च विष्णोस्तु नाभिपङ्कजे । नारदाय च तेनोक्तं पुत्रायामितबुद्धये
नारदेन तथा मह्यं दत्तं हि मुनिना पुरा । मया कृतमिदं पूर्णं द्वादशस्कन्धविस्तरम्
तत्पठस्व महाभाग पुराणं ब्रह्मसम्मितम् । पञ्चलक्षणयुक्तं च देव्याश्चरितमुत्तमम्
तत्त्वज्ञानरसोपेतं सर्वेषामुत्तमोत्तमम् । धर्मशास्त्रसमं पुण्यं वेदार्थेनोपबृंहितम्
वृत्रासुरवधोपेतं नानाख्यानकथायुतम् । ब्रह्मविद्यानिधानं तु संसारार्णवतारकम्
गृहाण त्वं महाभाग योग्योऽसि मतिमत्तरः । पुण्यं भागवतं नाम पुराणं पुरुषर्षभ
अष्टादशसहस्राणां श्लोकानां कुरु संग्रहम् । अज्ञाननाशनं दिव्यं ज्ञानभास्करबोधकम्
सुखदं शान्तिदं धन्यं दीर्घायुष्यकरं शिवम् । शृण्वतां पठतां चेदं पुत्रपौत्रविवर्धनम्
शिष्योऽयं मम धर्मात्मा लोमहर्षणसम्भवः । पठिष्यति त्वया सार्धं पुराणीं संहितां शुभाम्
सूत उवाच इत्युक्तं तेन पुत्राय मह्यं च कथितं किल । मया गृहीतं तत्सर्वं पुराणं चातिविस्तरम्
शुकोऽधीत्य पुराणं तु स्थितो व्यासाश्रमे शुभे । न लेभे शर्म धर्मात्मा ब्रह्मात्मज इवापरः
एकान्तसेवी विकलः स शून्य इव लक्ष्यते । नात्यन्तभोजनासक्तो नोपवासरतस्तथा
चिन्ताविष्टं शुकं दृष्ट्वा व्यासः प्राह सुतं प्रति । किं पुत्र चिन्त्यते नित्यं कस्माद्व्यग्रोऽसि मानद