गोदावरी भीमरथी निर्विन्ध्या च पयोष्णिका । तापी रेवा च सुरसा नर्मदा च सरस्वती
चर्मण्वती च सिन्धुश्च अन्धशोणौ महानदौ । ऋषिकुल्या त्रिसामा च वेदस्मृतिर्महानदी
कौशिकी यमुना चैव मन्दाकिनी दृषद्वती । गोमती सरयू रोधवती सप्तवती तथा
सुषोमा च शतद्रुश्च चन्द्रभागा मरुद्वृधा । वितस्ता च असिक्नी च विश्वा चेति प्रकीर्तिताः
अस्मिन्वर्षे लब्धजन्मपुरुषैः स्वस्वकर्मभिः । शुक्ललोहितकृष्णाख्यैर्दिव्यमानुषनारकाः
भवन्ति विविधा भोगाः सर्वेषां च निवासिनाम् । यथा वर्णविधानेनापवर्गो भवति स्फुटम्
एतदेव च वर्षस्य प्राधान्यं कार्यसिद्धितः । वदन्ति मुनयो वेदवादिनः स्वर्गवासिनः
अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः । यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि नः
किं दुष्करैर्नः क्रतुभिस्तपोव्रतै- र्दानादिभिर्वा द्युजयेन फल्गुना । न यत्र नारायणपदपङ्कज- स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात्
कल्पायुषां स्थानजयात्पुनर्भवा- त्क्षणायुषां भारतभूजयो वरम् । क्षणेन मर्त्येन कृतं मनस्विनः संन्यस्य संयान्त्यभयं पदं हरेः
न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः । न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम्
प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताम् । न वै यतेरन्न पुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम्
यैः श्रद्धया बर्हिषि भागशो हवि- र्निरुप्तमिष्टं विधिमन्त्रवस्तुतः । एकः पृथङ्नामभिराहुतो मुदा गृह्णाति पूर्णः स्वयमाशिषां प्रभुः
सत्यं दिशत्यर्थितमर्थितो नृणां नैवार्थदो यत्पुनरर्थिता यतः । स्वयं विधत्ते भजतामनिच्छता- मिच्छापिधानं निजपादपल्लवम्
(यद्यत्र नः स्वर्गसुखावशेषितं स्विष्टस्य पूर्तस्य कृतस्य शोभनम् । तेनाब्जनाभे स्मृतिमज्जन्म नः स्या- द्वर्षे हरिर्भजतां शं तनोति ॥) श्रीनारायण उवाच एवं स्वर्गगता देवाः सिद्धाश्च परमर्षयः । प्रवदन्ति च माहात्म्यं भारतस्य सुशोभनम्
जम्बुद्वीपस्य चाष्टौ हि उपद्वीपाः स्मृताः परे । हयमार्गान्विशोधद्भिः सागरैः परिकल्पिताः
स्वर्णप्रस्थश्चन्द्रशुक्र आवर्तनरमाणकौ । मन्दरोपाख्यहरिणः पाञ्चजन्यस्तथैव च
सिंहलश्चैव लङ्केति उपद्वीपाष्टकं स्मृतम् । जम्बुद्वीपस्य मानं हि कीर्तितं विस्तरेण च
अतः परं प्रवक्ष्यामि प्लक्षादिद्वीपषट्ककम्
भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् श्रीनारायण उवाच जम्बुद्वीपो यथा चायं यत्प्रमाणेन कीर्तितः । तावता सर्वतः क्षारोदधिना परिवेष्टितः
जम्बाख्येन यथा मेरुस्तथा क्षारोदकेन च । क्षारोदधिस्तु द्विगुणः प्लक्षाख्येनोपवेष्टितः
यथैव परिखा बाह्योपवनेन हि वेष्ट्यते । प्लक्षाख्यश्च स्वयं जम्बुप्रमाणो द्वीपरूपधृक्
हिरण्मयोऽग्निस्तत्रैव तिष्ठतीति विनिश्चयः । प्रियवतात्मजस्तत्र सप्तजिह्व इति स्मृतः
अग्निस्तदधिपस्त्विध्मजिह्वः स्वं द्वीपमेव च । विभज्य सप्तवर्षाणि स्वपुत्रेभ्यो ददौ विभुः
स्वयमात्मविदां मान्यां योगचर्यां समाश्रितः । तेनैव चात्मयोगेन भगवन्तमुपागतः
शिवं च यवसं भद्रं शान्तं क्षेमामृते तथा । अभयं चेति सप्तैव तद्वर्षाणि सदेक्षताम्
तेषु प्रोक्ता नदीः सप्त गिरयः सप्त चैव हि । अरुणा नृम्णाङ्गिरसी सावित्री सुप्रभातिका
ऋतम्भरा सत्यम्भरा इति नद्यः प्रकीर्तिताः । मणिकूटो वज्रकूट इन्द्रसेनस्तथैव च
ज्योतिष्मान्वै सुपर्णश्च हिरण्यष्ठीव एव च । मेघमाल इति ख्याताः प्लक्षद्वीपस्य पर्वताः
नदीनां जलमात्रेण दर्शनस्पर्शनादिभिः । निर्धूताशेषरजसो निस्तमस्काः प्रजास्तथा