मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभो । कुतोऽन्यथा स्याद्ऽऽरमतः स्व आत्मनः सीताकृतानि व्यसनानीश्वरस्य
न वै स आत्मात्मवतां सुहृत्तमः सक्तस्विलोक्यां भगवान्वासुदेवः । न स्त्रीकृतं कश्मलमश्नुवीत न लक्षणं चापि विहातुमर्हति
न जन्म नूनं महतो न सौभगं न वाङ् न चुद्धिर्नाकृतिस्तोषहेतुः । तैर्यद्विसृष्टानपि नो वनौकस- श्चकार सख्ये बत लक्ष्मणाग्रजः
सुरोऽसुरो वाप्यथवा नरोऽनरः सर्वात्मना यः सुकृतज्ञमुत्तमम् । भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत्कोसलान् दिवम्
श्रीनारायण उवाच एवं किम्पुरुषे वर्षे सत्यसन्धं दृढव्रतम् । रामं राजीवपत्राक्षं हनुमान् वानरोत्तमः
स्तौति गायति भक्त्या च संपूजयति सर्वशः । य एतच्छृणुयाच्चित्रं रामचन्द्रकथानकम् । सर्वपापविशुद्धात्मा याति रामसलोकताम्
भुवनकोशवर्णने भारतवर्षवर्णनम् श्रीनारायण उवाच भारताख्ये च वर्षेऽस्मिन्नहमादिजपूरुषः । तिष्ठामि भवता चैव स्तवनं क्रियतेऽनिशम्
नारद उवाच ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति । कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकैः । द्रष्टुर्न दृश्यस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे
इदं हि योगेश्वरयोगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् । यदन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवरः
यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कुकलेवरात्यया- द्यस्तस्य यत्नः श्रम एव केवलम्
तन्नः प्रभो त्वं कुकलेवरार्पितां त्वं माययाहं ममतामधोक्षज । भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावजम्
एवं स्तौति सदा देवं नारायणमनामयम् । नारदो मुनिशार्दूलः प्रज्ञाताखिलसारदृक्
अस्मिन् वै भारते वर्षे सरिच्छैलास्तु सन्ति हि । तान्प्रवक्ष्यामि देवर्षे शृणुष्वैकाग्रमानसः
मलयो मङ्गलप्रस्थो मैनाकश्च त्रिकूटकः । ऋषभः कूटकः कोल्लः सह्यो देवगिरिस्तथा
ऋष्यमूकश्च श्रीशैलो व्यङ्कटाद्रिर्महेन्द्रकः । वारिधारश्च विन्ध्यश्च मुक्तिमानृक्षपर्वतः
पारियात्रस्तथा द्रोणश्चित्रकूटगिरिस्तथा । गोवर्धनो रैवतकः ककुभो नीलपर्वतः
गौरमुखश्चेन्द्रकीलो गिरिः कामगिरिस्तथा । एते चान्येऽप्यसंख्याता गिरयो बहुपुण्यदाः
एतदुत्पन्नसरितः शतशोऽथ सहस्रशः । पानावगाहनस्नानदर्शनोत्कीर्तनैरपि
नाशयन्ति च पापानि त्रिविधानि शरीरिणाम् । ताम्रपर्णी चन्द्रवशा कृतमाला वटोदका
वैहायसी च कावेरी वेणा चैव पयस्विनी । तुङ्गभद्रा कृष्णवेणा शर्करावर्तका तथा
गोदावरी भीमरथी निर्विन्ध्या च पयोष्णिका । तापी रेवा च सुरसा नर्मदा च सरस्वती
चर्मण्वती च सिन्धुश्च अन्धशोणौ महानदौ । ऋषिकुल्या त्रिसामा च वेदस्मृतिर्महानदी
कौशिकी यमुना चैव मन्दाकिनी दृषद्वती । गोमती सरयू रोधवती सप्तवती तथा
सुषोमा च शतद्रुश्च चन्द्रभागा मरुद्वृधा । वितस्ता च असिक्नी च विश्वा चेति प्रकीर्तिताः
अस्मिन्वर्षे लब्धजन्मपुरुषैः स्वस्वकर्मभिः । शुक्ललोहितकृष्णाख्यैर्दिव्यमानुषनारकाः
भवन्ति विविधा भोगाः सर्वेषां च निवासिनाम् । यथा वर्णविधानेनापवर्गो भवति स्फुटम्
एतदेव च वर्षस्य प्राधान्यं कार्यसिद्धितः । वदन्ति मुनयो वेदवादिनः स्वर्गवासिनः
अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः । यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि नः
किं दुष्करैर्नः क्रतुभिस्तपोव्रतै- र्दानादिभिर्वा द्युजयेन फल्गुना । न यत्र नारायणपदपङ्कज- स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात्
कल्पायुषां स्थानजयात्पुनर्भवा- त्क्षणायुषां भारतभूजयो वरम् । क्षणेन मर्त्येन कृतं मनस्विनः संन्यस्य संयान्त्यभयं पदं हरेः