तस्माद्रजोरागविषादमन्यु- मानस्पृहाभयदैन्याधिमूलम् । हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजतां कुतो भयम्
एवं दैत्यपतिः सोऽपि भक्त्यानुदिनमीडते । नृहरिं पापमातङ्गहरिं हृत्पद्मवासिनम्
केतुमाले च वर्षे हि भगवान्स्मररूपधृक् । आस्ते तद्वर्षनाथानां पूजनीयश्च सर्वदा
एतेनोपासते स्तोत्रजालेन च रमाब्धिजा । तद्वर्षनाथा सततं महतां मानदायिका
रमोवाच ओं ह्रां ह्रीं ह्रूं स्म नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलाय छन्दोमयायान्नमयायामृतमयाय सर्वमयाय महसे ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् । स्त्रियो व्रतैस्त्वां हृषीकेश्वरं स्वतो ह्याराध्य लोके पतिमाशासतेऽन्यम् । तासां न ते वै परिपान्त्यपत्यं प्रियं धनायूंषि यतोऽस्वतन्त्राः
स वै पतिः स्यादकुतोभयः स्वतः समन्ततः पाति भयातुरं जनम् । स एक एवेतरथा मिथो भयं नैवात्मलाभादधिमन्यते परम्
या तस्य ते पादसरोरुहार्हणं न कामयेत्साखिलकामलम्पटा । तदेव रासीप्सितमीप्सितोऽर्चितो यद्भग्नयाञ्चा भगवन् प्रतप्यते
मत्प्राप्तयेऽजेशसुरासुरादय- स्तप्यन्त उग्रं तप ऐन्द्रिये धियः । ऋते भवत्पादपरायणान्न मां विदन्त्यहं त्वद्धृदया यतोऽजित
स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं कराम्बुजं यत्त्वदधायि सात्वताम् । बिभर्षि मां लक्ष्य वरेण्य मायया क ईश्वरस्येहितमूहितुं विभुः
एवं कामं स्तुवन्त्येव लोकबन्धुस्वरूपिणम् । प्रजापतिमुखा वर्षनाथाः कामस्य सिद्धये
रम्यके नामवर्षे च मूर्तिं भगवतः पराम् । मात्स्यां देवासुरैर्वन्द्यां मनुः स्तौति निरन्तरम्
मनुरुवाच ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे बलाय महामत्स्याय नमः । अन्तर्बहिश्चाखिललोकपालकै- रदृष्टरूपो विचरस्युरुस्वनः । स ईश्वरस्त्वं य इदं वशे नय- न्नाम्ना यथा दारुमयीं नरः स्त्रियम्
यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक् समेत्य च । पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपं स्थाणु यदत्र दृश्यते
भवान् युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम् । मया सहोरुक्रम तेऽज ओजसा तस्मै जगत्प्राणगणात्मने नमः
एवं स्तौति च देवेशं मनुः पार्थिवसत्तमः । मत्स्यावतारं देवेशं संशयच्छेदकारणम्
ध्यानयोगेन देवस्य निर्धूताशेषकल्मषः । आस्ते परिचरन्भक्त्या महाभागवतोत्तमः
भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् श्रीनारायण उवाच हिरण्मये नाम वर्षे भगवान्कूर्मरूपधृक् । आस्ते योगपतिः सोऽयमर्यम्णा पूज्य ईड्यते
अर्यमोवाच ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुण- विशेषणाय नोपलक्षितस्थानाय नमो वर्ष्मणे नमो भूमे नमोऽवस्थानाय नमस्ते । यद्रूपमेतन्निजमाययार्पित- मर्थस्वरूपं बहुरूपरूपितम् । संख्या न यस्यास्त्ययथोपलम्भना- त्तस्मै नमस्तेऽव्यपदेशरूपिणे
जरायुजं स्वेदजमण्डजोद्भिदं चराचरं देवर्षिपितृभूतमैन्द्रियम् । द्यौः खं क्षितिः शैलसरित्समुद्रं द्वीपग्रहर्क्षेत्यभिधेय एकः
यस्मिनसंख्येयविशेषनाम- रूपाकृतौ कविभिः कल्पितेयम् । संख्या यया तत्त्वदृशापनीयते तस्मै नमः सांख्यनिदर्शनाय ते
एवं स्तुवति देवेशमर्यमा सह वर्षपैः । गीयते चापि भजते सर्वभूतभवं प्रभुम्
तथोत्तरेषु कुरुषु भगवान्यज्ञपूरुषः । आदिवाराहरूपोऽसौ धरण्या पूज्यते सदा
सम्पूज्य विधिवद्देवं तद्भक्त्यार्द्रार्द्रहृत्कजा । भूमिः स्तौति हरिं यज्ञवाराहं दैत्यमर्दनम्
भूरुवाच ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महावराहाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते
यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्विव जातवेदसम् । मज्जन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थेर्नम ईरितात्मने
द्रव्यक्रियाहेत्वयनेशकर्तृभि- र्मायागुणैर्वस्तुभिरीक्षितात्मने । अन्वीक्षयाङ्गातिशयात्मबुद्धिभि- निंरस्तमायाकृतये नमोऽस्तु ते
करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेष्मितुमीक्षितुर्गुणैः । माया यथाऽयो भ्रमते तदाश्रयं ग्राव्णो नमस्ते गुणकर्मसाक्षिणे
प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसूकरः । कृत्वाग्रदंष्ट्रं निरगादुदन्वतः क्रीडन्निवेभः प्रणतास्मि तं विभुम्
किम्पुरुषे वर्षेऽस्मिन्भगवन्तं दाशरथिं च सर्वेशम् । सीतारामं देवं श्रीहनुमानादिपूरुषं स्तौति
ॐ नमो भगवते उत्तमश्लोकाय नम इति । आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मने उपासितलोकाय नमः । साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाभागाय नम इति । यत्तद्विशुद्धानुभवात्ममेकं स्वतेजसा ध्वस्तगुणव्यवस्थम् । प्रत्यक् प्रशान्तं सुधियोपलम्भनं ह्यनामरूपं निरहं प्रपद्ये