यस्याद्य आसीद् गुणविग्रहो महान् विज्ञानधिष्ण्यो भगवानजः किल । यत्सवतोऽहं त्रिवृता स्वतेजसा वैकारिकं तामसमैन्द्रियं सृजे
एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः । महानहंवैकृततामसेन्द्रियाः सृजाम सर्वे यदनुग्रहादिदम्
यन्निर्मितां कर्ह्यपि कर्मपर्वणीं मायां जनोऽयं गुरुसर्गमोहितः । न वेद निस्तारणयोगमञ्जसा तस्मै नमस्ते विलयोदयात्मने
श्रीनारायण उवाच एवं स भगवान् रुद्रो देवं सङ्कर्षणं प्रभुम् । इलावृतमुपासीत देवीगणसमाहितः
तथैव धर्मपुत्रोऽसौ नाम्ना भद्रश्रवा इति । तत्कुलस्यापि पतयः पुरुषा भद्रसेवकाः
भद्राश्ववर्षे तां मूर्तिं वासुदेवस्य विश्रुताम् । हयमूर्तिभिदा तां तु हयग्रीवपदाङ्किताम्
परमेण समाध्यन्यवारकेण नियन्त्रिताम् । एवमेव च तां मूर्तिं गृणन्त उपयान्ति च
भद्रश्रवस ऊचुः ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति । अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं हि मिषन्न पश्यति । ध्यायन्न सद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीवुषुः
वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः । तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम्
विश्वोद्भवस्थाननिरोधकर्म ते ह्यकर्तुरङ्गीकृतमप्यपावृतः । युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः
वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद्यो नृतुरङ्गविग्रहः । प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्ते वितथेहिताय ते
एवं स्तुवन्ति देवेशं हयशीर्षं हरिं च ते । भद्रश्रवसनामानो वर्णयन्ति च तद्गुणान्
एषां चरितमेतद्धि यः पठेच्छ्रावयेच्च यः । पापकंचुकमुत्सृज्य देवीलोकं व्रजेच्च सः
भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् श्रीनारायण उवाच हरिवर्षे च भगवान्नृहरिः पापनाशनः । वर्तते योगयुक्तात्मा भक्तानुग्रहकारकः
तस्य तद्दयितं रूपं महाभागवतोऽसुरः । पश्यन्भक्तिसमायुक्तः स्तौति तद्गुणतत्त्ववित्
प्रह्लाद उवाच ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा । अभयं ममात्मनि भूयिष्ठाः स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया । मनश्च भद्रं भजतादधोक्षजे आवेश्यतां नो मतिरप्यहैतुकी
मागारदारात्मजवित्तबन्धुषु सङ्गो यदि स्याद्भगवत्प्रियेषु नः । यः प्राणवृत्त्या परितुष्ट आत्मवान् सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः
यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् । हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं को वै न सेवेत मुकुन्दविक्रमम्
यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः । हरावभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहिः
हरिर्हि साक्षाद्भगवाञ्छरीरिणा- मात्मा झषाणामिव तोयमीप्सितम् । हित्वा महांस्तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम्
तस्माद्रजोरागविषादमन्यु- मानस्पृहाभयदैन्याधिमूलम् । हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजतां कुतो भयम्
एवं दैत्यपतिः सोऽपि भक्त्यानुदिनमीडते । नृहरिं पापमातङ्गहरिं हृत्पद्मवासिनम्
केतुमाले च वर्षे हि भगवान्स्मररूपधृक् । आस्ते तद्वर्षनाथानां पूजनीयश्च सर्वदा
एतेनोपासते स्तोत्रजालेन च रमाब्धिजा । तद्वर्षनाथा सततं महतां मानदायिका
रमोवाच ओं ह्रां ह्रीं ह्रूं स्म नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलाय छन्दोमयायान्नमयायामृतमयाय सर्वमयाय महसे ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् । स्त्रियो व्रतैस्त्वां हृषीकेश्वरं स्वतो ह्याराध्य लोके पतिमाशासतेऽन्यम् । तासां न ते वै परिपान्त्यपत्यं प्रियं धनायूंषि यतोऽस्वतन्त्राः
स वै पतिः स्यादकुतोभयः स्वतः समन्ततः पाति भयातुरं जनम् । स एक एवेतरथा मिथो भयं नैवात्मलाभादधिमन्यते परम्
या तस्य ते पादसरोरुहार्हणं न कामयेत्साखिलकामलम्पटा । तदेव रासीप्सितमीप्सितोऽर्चितो यद्भग्नयाञ्चा भगवन् प्रतप्यते
मत्प्राप्तयेऽजेशसुरासुरादय- स्तप्यन्त उग्रं तप ऐन्द्रिये धियः । ऋते भवत्पादपरायणान्न मां विदन्त्यहं त्वद्धृदया यतोऽजित
स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं कराम्बुजं यत्त्वदधायि सात्वताम् । बिभर्षि मां लक्ष्य वरेण्य मायया क ईश्वरस्येहितमूहितुं विभुः
एवं कामं स्तुवन्त्येव लोकबन्धुस्वरूपिणम् । प्रजापतिमुखा वर्षनाथाः कामस्य सिद्धये