निर्गुणा सा परा शक्तिः सगुणस्त्वं तथाप्यहम् । सात्त्विकी किल या शक्तिस्तां शक्तिं विद्धि मामिकाम्
त्वन्नाभिकमलाद्ब्रह्मा भविष्यति प्रजापतिः । स कर्ता सर्वलोकस्य रजोगुणसमन्वितः
स तदा तप आस्थाय प्राप्य शक्तिमनुत्तमाम् । रजसा रक्तवर्णञ्च करिष्यति जगत्त्रयम्
सगुणान्पञ्चभूतांश्च समुत्पाद्य महामतिः । इन्द्रियाणीन्द्रियेशांश्च मनःपूर्वान्समन्ततः
करिष्यति ततः सर्गं तेन कर्ता स उच्यते । विश्वस्यास्य महाभाग त्वं वै पालयिता तथा
तद्भुवोर्मध्यदेशाच्च क्रोधाद्रुद्रो भविष्यति । तपः कृत्वा महाघोरं प्राप्य शक्तिं तु तामसीम्
कल्पान्ते सोऽपि संहर्ता भविष्यति महामते । तेनाहं त्वामुपायाता सात्त्विकीं त्वमवेहि माम्
स्थास्येऽहं त्वत्समीपस्था सदाहं मधुसूदन । हृदये ते कृतावासा भवामि सततं किल
विष्णुरुवाच श्लोकस्यार्धं मया पूर्वं श्रुतं देवि स्फुटाक्षरम् । तत्केनोक्तं वरारोहे रहस्यं परमं शिवम्
तन्मे ब्रूहि वरारोहे संशयोऽयं वरानने । निर्धनो हि यथा द्रव्यं तत्स्मरामि पुनः पुनः
व्यास उवाच विष्णोस्तद्वचनं श्रुत्वा महालक्ष्मीः स्मितानना । उवाच परया प्रीत्या वचनं चारुहासिनी
महालक्ष्मीरुवाच शृणु शौरे वचो मह्यं सगुणाहं चतुर्भुजा । मां जानासि न जानासि निर्गुणां सगुणालयाम्
त्वं जानीहि महाभाग तया तत्प्रकटीकृतम् । पुण्यं भागवतं विद्धि वेदसारं शुभावहम्
कृपां च महतीं मन्ये देव्याः शत्रुनिषूदन । यया प्रोक्तं परं गुह्यं हिताय तव सुव्रत
रक्षणीयं सदा चित्ते न विस्मार्यं कदाचन । सारं हि सर्वशास्त्राणां महाविद्याप्रकाशितम्
नातः परं वेदितव्यं वर्तते भुवनत्रये । प्रियोऽसि खलु देव्यास्त्वं तेन ते व्याहृतं वचः
व्यास उवाच इति श्रुत्वा वचो देव्या महालक्ष्याश्चतुर्भुजः । दधार हृदये नित्यं मत्वा मन्त्रमनुत्तमम्
कालेन कियता तत्र तन्नाभिकमलोद्भवः । ब्रह्मा दैत्यभयात्त्रस्तो जगाम शरणं हरेः
ततः कृत्वा महायुद्धं हत्वा तौ मधुकैटभौ । जजाप भगवान्विष्णुः श्लोकार्धं विशदाक्षरम्
जपन्तं वासुदेवं च दृष्ट्वा देवः प्रजापतिः । पप्रच्छ परमप्रीतः कञ्जजः कमलापतिम्
किं त्वं जपसि देवेश त्वत्तः कोऽप्यधिकोऽस्ति वै । यत्कृत्वा पुण्डरीकाक्ष प्रीतोऽसि जगदीश्वर
हरिरुवाच मयि त्वयि च या शक्तिः क्रियाकारणलक्षणा । विचारय महाभाग या सा भगवती शिवा
यस्याधारे जगत्सर्वं तिष्ठत्यत्र महार्णवे । साकारा या महाशक्तिरमेया च सनातनी
यया विसृज्यते विश्वं जगदेतच्चराचरम् । सैषा प्रसन्ना वरदा नृणां भवति मुक्तये
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी । संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी
अहं त्वमखिलं विश्वं तस्याश्चिच्छक्तिसम्भवम् । विद्धि ब्रह्मन्न सन्देहः कर्तव्यः सर्वदानघ
श्लोकार्धेन तया प्रोक्तं तद्वै भागवतं किल । विस्तरो भविता तस्य द्वापरादौ युगे तथा
व्यास उवाच ब्रह्मणा संगृहीतं च विष्णोस्तु नाभिपङ्कजे । नारदाय च तेनोक्तं पुत्रायामितबुद्धये
नारदेन तथा मह्यं दत्तं हि मुनिना पुरा । मया कृतमिदं पूर्णं द्वादशस्कन्धविस्तरम्
तत्पठस्व महाभाग पुराणं ब्रह्मसम्मितम् । पञ्चलक्षणयुक्तं च देव्याश्चरितमुत्तमम्