गन्धमादनमूर्ध्नीह पतिता पापहारिणी । अन्तरेण तु भद्राश्ववर्षं प्राच्यां समागता
क्षारोदधिं गता सा तु द्युनदी देवपूजिता । ततो माल्यवतः शृङ्गाद् द्वितीया परिनिर्गता
ततो वेगवती भूत्वा केतुमालं समागता । चक्षुर्नाम्नी देवनदी प्रतीच्यां दिश्युपागता
सरितां पतिमाविष्टा सा गङ्गा देववन्दिता । ततस्तृतीया धारा तु नाम्ना ख्याता च नारद
पुण्या चालकनन्दा वै दक्षिणेनाब्जभूपदात् । वनानि गिरिकूटानि समतिक्रम्य चागता
हेमकूटं गिरिवरं प्राप्तातोऽपीह निर्गता । अतिवेगवती भूत्वा भारतं चागतापरा
दक्षिणं जलधिं प्राप्ता तृतीया सा सरिद्वरा । यस्याः स्नानाय सरतां मनुजानां पदे पदे
राजसूयाश्वमेधादि फलं तु न हि दुर्लभम् । ततश्चतुर्थी धारा तु भृङ्गवत्पर्वतात्पुनः
भद्राभिधा संस्रवन्ती कुरून्सन्तर्प्य चोत्तरान् । समुद्रं समनुप्राप्ता गङ्गा त्रैलोक्यपावनी
अन्ये नदाश्च नद्यश्च वर्षे वर्षेऽपि सन्ति हि । बहुशो मेरुमन्दारप्रसूताश्चैव नारद
तत्रापि भारतं वर्षं कर्मक्षेत्रमुशन्ति हि । अन्यानि चाष्टवर्षाणि भौमस्वर्गप्रदानि च
स्वर्गिणां पुण्यशेषस्य भोगस्थानानि नारद । पुरुषाणां चायुतायुर्वज्राङ्गा देवसन्निभाः
पुरुषा नागसाहस्रैर्दशभिः परिकल्पिताः । महासौरतसन्तुष्टाः कलत्राढ्याः सुखान्विताः
एकवर्षोनके चायुष्याप्तगर्भाः स्त्रियोऽपि हि । त्रेतायुगसमः कालो वर्तते सर्वदैव हि
भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् श्रीनारायण उवाच तेषु वर्षेषु देवेशाः पूर्वोक्तैः स्तवनैः सदा । पूजयन्ति महादेवीं जपध्यानसमाधिभिः
सर्वर्तुकुसुमश्रेणी शोभिता वनराजयः । फलानां पल्लवानां च यत्र शोभा निरन्तरम्
तेषु काननवर्षेषु वर्षपर्वतसानुषु । गिरिद्रोणीषु सर्वासु निर्मलोदकराशिषु
विकचोत्पलमालासु हंससारससञ्चयैः । विमिश्रितेषु तेष्वेव पक्षिभिः कूजितेषु च
जलक्रीडादिभिश्चित्रविनोदैः क्रीडयन्ति च । सुन्दरीललितभ्रूणां विलासायतनेषु च
तत्रत्या विहरन्त्यत्र स्वैरं युवतिभिः सह । नवस्वपि च वर्षेषु भगवानादिपूरुषः
(नारायणाख्यो लोकानामनुग्रहरसैकदृक् ।) देवीमाराधयन्तास्ते स च सर्वैश्च पूज्यते । आत्मव्यूहेनेज्ययासौ सन्निधत्ते समाहितः
इलावृते तु भगवान् पद्मजाक्षिसमुद्भवः । एक एव भवो देवो नित्यं वसति साङ्गनः
तत्क्षेत्रे नापरः कश्चित्प्रवेशं वितनोति च । भवान्याः शापतस्तत्र पुमान्तस्त्री भवति स्फुटम्
भवानीनाथकैः स्वीणामसंख्यैर्गणकोटिभिः । संरुध्यमानो देवेशो देवं सङ्कर्षणं भजन्
आत्मना ध्यानयोगेन सर्वभूतहितेच्छया । तां तामसीं तुरीयां च मूर्तिं प्रकृतिमात्मनः
उपधावते चैकाग्रमनसा भगवानजः । श्रीभगवानुवाच ॐनमो भगवते महापुरुषाय सर्वगुणसंख्यानायानन्तायाव्यक्ताय नम इति
भजे भजन्यारणपादपङ्कजं भगस्य कृत्स्नस्य परं परायणम् । भक्तेष्वलं भावितभूतभावनं भवापहं त्वा भव भावमीश्वरम्
न यस्य मायागुणकर्मवृत्तिभि- र्निरीक्षितो ह्यण्वपि दृष्टिरज्यते । ईशे यथा नो स्त्रतमन्युरंहसा कस्तं न मन्येत जिगीषुरात्मनः
असद्दृशो यः प्रतिभाति मायया क्षीबेव मध्वासवताग्रलोचनः । न नागवध्वोऽर्हण ईशिरे ह्रिया यत्पादयोः स्पर्शनधर्षितेन्द्रियाः
यमाहुरस्य स्थितिजन्मसंयमं त्रिभिर्विहीनं यमनन्तमॄषयः । न वेद सिद्धार्थमिव क्यचित्स्थितं भूमण्डलं मूर्धसहस्रधामसु