क्लमस्वेदादिदौर्गन्ध्यं जरामयमृतिभ्रमाः । शीतोष्णवातवैवर्ण्यमुखोपप्लवसंचयाः
नापदश्चैव जायन्ते यावज्जीवं सुखं भवेत् । नैरन्तर्येण तत्स्याद्वै सुखं निरतिशायकम्
तत ऊर्ध्वं प्रवक्ष्यामि सन्निवेशं च तद्गिरेः । सुवर्णमयनाम्नो वै सुमेरोः पर्वताः पृथक्
गिरयो विंशतिपराः कर्णिकाया इवेह ते । केसरीभूय सर्वेऽपि मेरोर्मूलविभागके
परितश्चोपक्लृप्तास्ते तेषां नामानि शृण्वतः । कुरङ्गः कुरगश्चैव कुसुम्भोऽथो विकङ्कतः
त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । निषधश्च शिनीवासः कपिलः शङ्ख एव च
वैदूर्यश्चारुधिश्चैव हंसो ऋषभ एव च । नागः कालञ्जरश्चैव नारदश्चेति विंशतिः
भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् श्रीनारायण उवाच गिरी मेरुं च पूर्वेण द्वौ चाष्टादशयोजनैः । सहस्रैरायतौ चोदग्द्विसहस्रं पृथूच्चकौ
जठरो देवकूटश्च तावेतौ गिरिवर्यकौ । मेरोः पश्चिमतोऽद्री द्वौ पवमानस्तथापरः
पारियात्रश्च तौ तावद्विख्यातौ तुङ्गविस्तरौ । मेरोर्दक्षिणतः ख्यातौ कैलासकरवीरकौ
प्रागायतौ पूर्ववृत्तौ महापर्वतराजकौ । एवं चोत्तरतो मेरोस्त्रिशृङ्गमकरौ गिरी
एतैश्चाद्रिवरैरष्टसंख्यैः परिवृतो गिरिः । सुमेरुः काञ्चनगिरिः परिभ्राजन् रविर्यथा
मेरोर्मूर्धनि धातुर्हि पुरी पङ्कजजन्मनः । मध्यतश्चोपक्लृप्तेयं दशसाहस्रयोजनैः
समानचतुरस्रां च शातकौम्भमयीं पुरीम् । वर्णयन्ति महात्मानः परावरविदो बुधाः
तां पुरीमनुलोकानामष्टानामीशिषां पराः । पुर्यः प्रख्यातसौवर्णरूपास्ताश्च यथादिशम्
यथारूपं सार्धनेत्रसहस्रप्रमिताः कृताः । मेरोर्नव पुराणि स्युर्मनोवत्यमरावती
तेजोवती संयमनी तथा कृष्णाङ्गनापरा । श्रद्धावती गन्धवती तथा चान्या महोदया
यशोवती च ब्रह्मेन्द्रवह्न्यादीनां यथाक्रमम् । तत्रैव यज्ञलिङ्गस्य विष्णोर्भगवतो विभोः
वामपादाङ्गुष्ठनखनिर्भिन्नस्य च नारद । अण्डोर्ध्वभागरन्ध्रस्य मध्यात्संविशती दिवः
मूर्धन्यवततारेयं गङ्गा संविशती विभो । लोकानामखिलानां च पापहारिजलाकुला
इयं च साक्षाद्भगवत्पदी लोकेषु विश्रुता । कालेन महता सा तु युगसाहस्रकेण तु
दिवो मूर्धानमागत्य देवी देवनदीश्वरी । यत्तद्विष्णुपदं नाम स्थानं त्रैलोक्यविश्रुतम्
औत्तानपादिर्यत्रास्ते ध्रुवः परमपावनः । भगवत्पादयुगलं पद्मकोशरजो दधत्
अद्याप्यास्ते स राजर्षिः पदवीमचलां श्रितः । तत्र सप्तर्षयस्तस्य प्रभावज्ञा महाशयाः
प्रदक्षिणं प्रक्रमन्ति सर्वलोकहितेप्सवः । आत्यन्तिकी सिद्धिरियं तपतां सिद्धिदायिनी
आद्रियन्ते च शिरसा जटाजूटोषितेन च । ततो विष्णुपदाद्देवी नैकसाहस्रकोटिभिः
विमानैराकुले देवयानेऽवतरती च सा । चन्द्रमण्डलमाप्लाव्य पतन्ती ब्रह्यसद्यनि
चतुर्धा भिद्यमाना सा ब्रह्मलोके च नारद । चतुर्भिर्नामभिर्देवी चतुर्दिशमभिसृता
सरितां च नदीनां च पतिमेवान्वपद्यत । सीता चालकनन्दा च चतुर्भद्रेति* नामभिः
*चक्षुर्भद्रेति? सीता च ब्रह्मसदनाच्छिखरेभ्यः क्षमाभृताम् । केसराभिधनाम्ना च प्रस्रवन्ती च स्वर्णदी