तत्रत्यानां च लोकानां देवनागर्षिरक्षसाम् । पूजनीयपदा मान्या सर्वभूतदयाकरी
पावनी पापिनां रोगनाशिनी स्मरतामपि । कीर्तिता विघ्नसंहर्त्री माननीया दिवौकसाम्
कोकिलाक्षी कामकला करुणा कामपूजिता । कठोरविग्रहा धन्या नाकिमान्या गभस्तिनी
एभिर्नामपदैः कामं जपनीया सदा नृणाम् । जम्बूनदीरोधसोर्या मृत्तिकातीरवर्तिनी
जम्बूरसेनानुविद्ध्यमाना वाय्वर्कयोगतः । विद्याधरामरस्त्रीणां भूषणं विविधं महत्
जाम्बूनदं सुवर्णं च प्रोक्तं देवविनिर्मितम् । यत्सुवर्णं च विबुधा योषिद्भिः कामुकाः सदा
मुकुटं कटिसूत्रं च केयूरादीन्प्रकुर्वते । महाकदम्बः सम्प्रोक्तः सुपार्श्वगिरिसंस्थितः
तस्य कोटरदेशेभ्यः पञ्च धाराश्च याः स्मृताः । सुपार्श्वगिरिमूर्ध्नीह पतन्त्येता भुवं गताः
मधुधाराः पञ्च तास्तु पश्चिमेलावृतं प्लुताः । याश्चोपभुज्यमानानां देवानां मुखगन्धभृत्
वायुः समन्ततोऽगच्छञ्छतयोजनवासनः । धारेश्वरी महादेवी भक्तानां कार्यकारिणी
देवपूज्या महोत्साहा कालरूपा महानना । वसते कर्मफलदा कान्तारग्रहणेश्वरी
करालदेहा कालाङ्गी कामकोटिप्रवर्तिनी । इत्येतैर्नामभिः पूज्या देवी सर्वसुरेश्वरी
एवं कुमुदरूढो यो नाम्ना शतबलो वटः । तत्स्कन्धेभ्योऽधोमुखाश्च नदाः कुमुदमूर्धतः
पयोदधिमधुघृतगुडान्नाद्यम्बरादिभिः । शय्यासनाद्याभरणैः सर्वे कामदुघाश्च ते
उत्तरेणेलावृतं ते प्लावयन्ति समन्ततः । मीनाक्षी तत्तले देवी देवासुरनिषेविता
नीलाम्बरा रौद्रमुखी नीलालकयुता च सा । नाकिनां देवसंघानां फलदा वरदा च सा
अतिमान्यातिपूज्या च मत्तमातङ्गगामिनी । मदनोन्मादिनी मानप्रिया मानप्रियान्तरा
मारवेगधरा मारपूजिता मारमादिनी । मयूरवरशोभाढ्या शिखिवाहनगर्भभूः
एभिर्नामपदैर्वन्द्या देवी सा मीनलोचना । जपतां स्मरतां मानदात्री चेश्वरसङ्गिनी
तेषां नदानां पानीयपानानुगतचेतसाम् । प्रजानां न कदाचित्स्याद्वलीपलितलक्षणम्
क्लमस्वेदादिदौर्गन्ध्यं जरामयमृतिभ्रमाः । शीतोष्णवातवैवर्ण्यमुखोपप्लवसंचयाः
नापदश्चैव जायन्ते यावज्जीवं सुखं भवेत् । नैरन्तर्येण तत्स्याद्वै सुखं निरतिशायकम्
तत ऊर्ध्वं प्रवक्ष्यामि सन्निवेशं च तद्गिरेः । सुवर्णमयनाम्नो वै सुमेरोः पर्वताः पृथक्
गिरयो विंशतिपराः कर्णिकाया इवेह ते । केसरीभूय सर्वेऽपि मेरोर्मूलविभागके
परितश्चोपक्लृप्तास्ते तेषां नामानि शृण्वतः । कुरङ्गः कुरगश्चैव कुसुम्भोऽथो विकङ्कतः
त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । निषधश्च शिनीवासः कपिलः शङ्ख एव च
वैदूर्यश्चारुधिश्चैव हंसो ऋषभ एव च । नागः कालञ्जरश्चैव नारदश्चेति विंशतिः
भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् श्रीनारायण उवाच गिरी मेरुं च पूर्वेण द्वौ चाष्टादशयोजनैः । सहस्रैरायतौ चोदग्द्विसहस्रं पृथूच्चकौ
जठरो देवकूटश्च तावेतौ गिरिवर्यकौ । मेरोः पश्चिमतोऽद्री द्वौ पवमानस्तथापरः
पारियात्रश्च तौ तावद्विख्यातौ तुङ्गविस्तरौ । मेरोर्दक्षिणतः ख्यातौ कैलासकरवीरकौ