कर्णिकारूप एवायं भूगोलकमलस्य च । मूर्ध्नि द्वात्रिंशत्सहस्रयोजनैर्विततस्त्वयम्
मूले षोडशसाहस्रस्तावतान्तर्गतः क्षितौ । इलावृतस्योत्तरतो नीलः श्वेतश्च शृङ्गवान्
त्रयो वै गिरयः प्रोक्ता मर्यादावधयस्त्रिषु । रम्यकाख्ये तथा वर्षे द्वितीये च हिरण्मये
कुरुवर्षे तृतीये तु मर्यादां व्यञ्जयन्ति ते । प्रागायता उभयतः क्षारोदावधयस्तथा
द्विसहस्रपृथुतरास्तथा एकैकशः क्रमात् । पूर्वात्पूर्वाच्चोत्तरस्यां दशांशादधिकांशतः
दैर्घ्य एव ह्रसन्तीमे नानानदनदीयुताः । इलावृताद्दक्षिणतो निषधो हेमकूटकः
हिमालयश्चेति त्रयः प्राग्विस्तीर्णाः सुशोभनाः । अयुतोत्सेधभाजस्ते योजनैः परिकीर्तिताः
हरिवर्षं किम्पुरुषं भारतं च यथातथम् । विभागात्कथयन्त्येते मर्यादागिरयस्त्रयः
इलावृतात्पश्चिमतो माल्यवान्नामपर्वतः । पूर्वेण च ततः श्रीमान् गन्धमादनपर्वतः
आनीलनिषधं त्वेतौ चायतौ द्विसहस्रतः । योजनैः पृथुतां यातौ मर्यादाकारकौ गिरी
केतुमालाख्यभद्राश्ववर्षयोः प्रथितौ च तौ । मन्दरश्च तथा मेरुमन्दरश्च सुपार्श्वकः
कुमुदश्चेति विख्याता गिरयो मेरुपादकाः । योजनायुतविस्तारोन्नाहा मेरोश्चतुर्दिशम्
अवष्टम्भकरास्ते तु सर्वतोऽभिविराजिताः । एतेषु गिरिषु प्राप्ताः पादपाश्चूतजम्बुनी
कदम्बन्यग्रोध इति चत्वारः पर्वताः स्थिताः । केतवो गिरिराजेषु एकादशशतोच्छ्रयाः
तावद्विटपविस्ताराः शताख्यपरिणाहिनः । चत्वारश्च ह्रदास्तेषु पयोमध्विक्षुसज्जलाः
यदुपस्पर्शिनो देवा योगैश्वर्याणि विन्दते । देवोद्यानानि चत्वारि भवन्ति ललनासुखाः
नन्दनं चैत्ररथकं वैभ्राजं सर्वभद्रकम् । येषु स्थित्वामरगणा ललनायूथसंयुताः
उपदेवगणैर्गीतमहिमानो महाशयाः । विहरन्ति स्वतन्त्रास्ते यथाकामं यथासुखम्
मन्दरोत्सङ्गसंस्थस्य देवचूतस्य मस्तकात् । एकादशशतोच्छ्रायात्फलान्यमृतभाञ्जि च
गिरिकूटप्रमाणानि सुस्वादूनि मृदूनि च । तेषां विशीर्यमाणानां फलानां सुरसेन च
अरुणोदसवर्णेन अरुणोदा प्रवर्तते । नदी रम्यजला देवदैत्यराजप्रपूजिता
अरुणाख्या महाराज वर्तते पापहारिणी । पूजयन्ति च तां देवीं सर्वकामफलप्रदाम्
नानोपहारबलिभिः कल्मषघ्न्यभयप्रदाम् । तस्याः कृपावलोकेन क्षेमारोग्यं व्रजन्ति ते
आद्या मायातुलानन्ता पुष्टिरीश्वरमालिनी । दुष्टनाशकरी कान्तिदायिनीति स्मृता भुवि
अस्याः पूजाप्रभावेण जाम्बूनदमुदावहत्
भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् श्रीनारायण उवाच अरुणोदा नदी या तु मया प्रोक्ता च नारद । मन्दरान्निपतन्ती सा पूर्वेणेलावृतं प्लवेत्
यज्जोषणाद्भवान्याश्चानुचरीणां स्त्रियामपि । यक्षगन्धर्वपत्नीनां देहगन्धवहोऽनिलः
वासयत्यभितो भूमिं दशयोजनसंख्यया । एवं जम्बूफलानां च तुङ्गदेशनिपातनात्
विशीर्यतामनस्थीनां कुञ्जराङ्गप्रमाणिनाम् । रसेन च नदी जम्बूनाम्नी मेर्वाख्यमन्दरात्
पतन्ती भूमिभागे च दक्षिणेलावृतं गता । देवी जम्बूफलास्वादतुष्टा जम्ब्वादिनी स्मृता