घृतपृष्ठश्च सवनो मेधातिथिरथाष्टमः । वीतिहोत्रः कविश्चेति दशैते वह्निनामकाः
एतेषां दशपुत्राणां त्रयोऽप्यासन्विरागिणः । कविश्च सवनश्चैव महावीर इति त्रयः
आत्मविद्यापरिष्णाताः सर्वे ते ह्यूर्ध्वरेतसः । आश्रमे परहंसाख्ये निःस्पृहा ह्यभवन्मुदाः
अपरस्यां च जायायां त्रयः पुत्राश्च जज्ञिरे । उत्तमस्तामसश्चैव रैवतश्चेति विश्रुताः
मन्वन्तराधिपतय एते पुत्रा महौजसः । प्रियव्रतः स राजेन्द्रो बुभुजे जगतीमिमाम्
एकादशार्बुदाब्दानामव्याहतबलेन्द्रियः । यदा सूर्यः पृथिव्याश्च विभागे प्रथमेऽतपत्
भागे द्वितीये तत्रासीदन्धकारोदयः किल । एवं व्यतिकरं राजा विलोक्य मनसा चिरम्
प्रशास्ति मयि भूम्यां च तमः प्रादुर्भवेत्कथम् । एवं निवारयिष्यामि भूमौ योगबलेन च
एवं व्यवसितो राजा पुत्रः स्वायम्भुवस्य सः । रथेनादित्यवर्णेन सप्तकृत्वः प्रकाशयन्
तस्यापि गच्छतो राज्ञो भूमौ यद्रथनेमयः । पतितास्ते समुद्राख्यां भेजिरे लोकहेतवे
जाताः प्रदेशास्ते सप्त द्वीपा भूमौ विभागशः । रथनेमिसमुत्थास्ते परिखाः सप्त सिन्धवः
यत आसंस्ततः सप्त भुवो द्वीपा हि ते स्मृताः । जम्बुद्वीपः प्लक्षद्वीपः शाल्मलीद्वीपसंज्ञकः
कुशद्वीपः क्रौञ्चद्वीपः शाकद्वीपश्च पुष्करः । तेषां च परिमाणं तु द्विगुणं चोत्तरोत्तरम्
समन्ततश्चोपक्लृप्तं बहिर्भागक्रमेण च । क्षारोदेक्षुरसोदौ च सुरोदश्च घृतोदकः
क्षीरोदो दधिमण्डोदः शुद्धोदश्चेति ते स्मृताः । सप्तैते प्रतिविख्याताः पृथिव्यां सिन्धवस्तदा
प्रथमो जम्बुद्वीपाख्यो यः क्षारोदेन वेष्टितः । तत्पतिं विदधे राजा पुत्रमाग्नीध्रसंज्ञकम्
प्लक्षद्वीपे द्वितीयेऽस्मिन्द्वीपेक्षुरससंप्लुते । जातस्तदधिपः प्रैयव्रत इध्मादिजिह्वकः
शाल्मलीद्वीप एतस्मिन्सुरोदधिपरिप्लुते । यज्ञबाहुं तदधिपं करोति स्म प्रियव्रतः
कुशद्वीपेऽतिरम्ये च घृतोदेनोपवेष्टिते । हिरण्यरेता राजाभूत्प्रियव्रततनूजनिः
क्रौञ्चद्वीपे पञ्चमे तु क्षीरोदपरिसंप्लुते । प्रैयव्रतो घृतपृष्ठः पतिरासीन्महाबलः
शाकद्वीपे चारुतरे दधिमण्डोदसंकुले । मेधातिथिरभूद्राजा प्रियव्रतसुतो वरः
पुष्करद्वीपके शुद्धोदकसिन्धुसमाकुले । वीतिहोत्रो बभूवासौ राजा जनकसम्मतः
कन्यामूर्जस्वतीनाम्नीं ददावुशनसे विभुः । आसीत्तस्यां देवयानी कन्या काव्यस्य विश्रुता
एवं विभज्य पुत्रेभ्यः सप्तद्वीपान् प्रियव्रतः । विवेकवशगो भूत्वा योगमार्गाश्रितोऽभवत्
भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् श्रीनारायण उवाच देवर्षे शृणु विस्तारं द्वीपवर्षविभेदतः । भूमण्डलस्य सर्वस्य यथा देवप्रकल्पितम्
समासात्सम्प्रवक्ष्यामि नालं विस्तरतः क्वचित् । जम्बुद्वीपः प्रथमतः प्रमाणे लक्षयोजनः
विशालो वर्तुलाकारो यथाब्जस्य च कर्णिका । नव वर्षाणि यस्मिंश्च नवसाहस्रयोजनैः
आयामैः परिसंख्यानि गिरिभिः परितः श्रितैः । अष्टाभिर्दीर्घरूपैश्च सुविभक्तानि सर्वतः
धनुर्वत्संस्थिते ज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि चतुरस्रमिलावृतम्
इलावृतं मध्यवर्षं यन्नाभ्यां सुप्रतिष्ठितः । सौवर्णो गिरिराजोऽयं लक्षयोजनमुच्छ्रितः